श्रवणम्

10.89.14
कर्हि᳚ स्वि॒त्सा त᳚ इन्द्र चे॒त्यास᳚द॒घस्य॒ यद्भि॒नदो॒ रक्ष॒ एष᳚त् ।
मि॒त्र॒क्रुवो॒ यच्छस᳚ने॒ न गावः᳚ पृथि॒व्या आ॒पृग᳚मु॒या शय᳚न्ते ॥
▶ पदपाठः (Word-by-word)
कर्हि᳚ । स्वि॒त् । सा । ते॒ । इ॒न्द्र॒ । चे॒त्या । अ॒स॒त् । अ॒घस्य᳚ । यत् । भि॒नदः᳚ । रक्षः᳚ । आ॒॑ईष᳚त् ।
मि॒त्र॒॑क्रुवः᳚ । यत् । शस᳚ने । न । गावः᳚ । पृ॒थि॒व्याः । आ॒॑पृक् । अ॒मु॒या । शय᳚न्ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते तव सा हेतिरिषुर्वा चेत्या चेतयितव्या शत्रुषु क्शेप्तव्या कर्हि स्वित् कदा वासत्। भविष्यति। यद्यदा हेत्या त्वमघस्य। द्वितीयार्थे षष्ठी। अहतमेषद्युद्धार्थमागच्छद्रक्षो भिनदः अभिनत्। यद्यदा च शक्त्या मित्रक्रवो मित्राणां क्रूरस्य कर्मणः कर्तारो जनाः पृथिव्याः सम्बन्धिनि शसने विशसनस्थाने गावो न पशव इवपृगापर्चनाहताः सन्तोऽमुयानया पृथिव्या सङ्गता युद्धे शयन्ते शेरते॥१४॥