इन्द्रा᳚य॒ गिरो॒ अनि᳚शितसर्गा अ॒पः प्रेर᳚यं॒ सग᳚रस्य बु॒ध्नात् ।
यो अक्षे᳚णेव च॒क्रिया॒ शची᳚भि॒र्विष्व᳚क्त॒स्तम्भ᳚ पृथि॒वीमु॒त द्याम् ॥
यो अक्षे᳚णेव च॒क्रिया॒ शची᳚भि॒र्विष्व᳚क्त॒स्तम्भ᳚ पृथि॒वीमु॒त द्याम् ॥
पदपाठः (Word-by-word)
इन्द्रा᳚य । गिरः᳚ । अनि᳚शित॑सर्गाः । अ॒पः । प्र । ई॒र॒य॒म् । सग᳚रस्य । बु॒ध्नात् ।
यः । अक्षे᳚ण॑इव । च॒क्रिया᳚ । शची᳚भिः । विष्व᳚क् । त॒स्तम्भ᳚ । पृ॒थि॒वीम् । उ॒त । द्याम् ॥
यः । अक्षे᳚ण॑इव । च॒क्रिया᳚ । शची᳚भिः । विष्व᳚क् । त॒स्तम्भ᳚ । पृ॒थि॒वीम् । उ॒त । द्याम् ॥
सायणभाष्यम् (Sayana Commentary)
इन्द्रायेन्द्रार्थमनिशितसर्गा अतनूकृतविसर्गा उपर्युपरि वर्तमाना या गिरः स्तुतयस्ताभिर्गीर्भिः सगरस्यान्तरिक्षस्य। सगरं समुद्र इत्यन्तरिक्षनामसु पाठात्। बुध्न्यात्प्रदेशादप उदकानि प्रेरयम्। प्रेरयानि। य इन्द्रः शचीभिः कर्मभिः पृथिवीमुतापि च द्यां दिवं चक्रिया रथचक्राण्यक्षेणेव यथा रथाक्षेण तद्वद्विष्टक् सर्वशस्तस्तम्भ अस्तभ्नात्॥४॥