प्र ये मि॒त्रं प्रार्य॒मणं᳚ दु॒रेवा॒ः प्र सं॒गिर॒ः प्र वरु᳚णं मि॒नन्ति᳚ ।
न्य१॒᳚मित्रे᳚षु व॒धमि᳚न्द्र॒ तुम्रं॒ वृष॒न्वृषा᳚णमरु॒षं शि᳚शीहि ॥
न्य१॒᳚मित्रे᳚षु व॒धमि᳚न्द्र॒ तुम्रं॒ वृष॒न्वृषा᳚णमरु॒षं शि᳚शीहि ॥
पदपाठः (Word-by-word)
प्र । ये । मि॒त्रम् । प्र । अ॒र्य॒मण᳚म् । दुः॒॑एवाः᳚ । प्र । स॒म्॑गिरः᳚ । प्र । वरु᳚णम् । मि॒नन्ति᳚ ।
नि । अ॒मित्रे᳚षु । व॒धम् । इ॒न्द्र॒ । तुम्र᳚म् । वृष᳚न् । वृषा᳚णम् । अ॒रु॒षम् । शि॒शी॒हि॒ ॥
नि । अ॒मित्रे᳚षु । व॒धम् । इ॒न्द्र॒ । तुम्र᳚म् । वृष᳚न् । वृषा᳚णम् । अ॒रु॒षम् । शि॒शी॒हि॒ ॥
सायणभाष्यम् (Sayana Commentary)
ये दुरेवा दुष्टगमना जना मित्रं देवं प्र मिनन्ति प्रहिंसन्ति अर्यमणं च देवं प्र मिनन्ति सङ्गिरह् समीचीनस्तुतिमतो मरुतश्च प्र मिनन्ति वरुनं च देवं प्र मिनन्ति ते ष्वमित्रेषु शत्रुषु। तानुद्दिश्येत्यर्थः। हे वृषन् कामानां वर्षकेन्द्र त्वं तुम्रं गमनशीलं वृषाणं कामानां वर्षकमरुषमारोचमानं वधं वज्रम्। वधो वज्र इति वज्रनामसु पाठात्। नि शिशीहि। तीक्श्णीकुरु॥९॥