प्र शोशु᳚चत्या उ॒षसो॒ न के॒तुर᳚सि॒न्वा ते᳚ वर्ततामिन्द्र हे॒तिः ।
अश्मे᳚व विध्य दि॒व आ सृ᳚जा॒नस्तपि᳚ष्ठेन॒ हेष᳚सा॒ द्रोघ᳚मित्रान् ॥
अश्मे᳚व विध्य दि॒व आ सृ᳚जा॒नस्तपि᳚ष्ठेन॒ हेष᳚सा॒ द्रोघ᳚मित्रान् ॥
पदपाठः (Word-by-word)
प्र । शोशु᳚चत्याः । उ॒षसः᳚ । न । के॒तुः । अ॒सि॒न्वा । ते॒ । व॒र्त॒ता॒म् । इ॒न्द्र॒ । हे॒तिः ।
अश्मा᳚॑इव । वि॒ध्य॒ । दि॒वः । आ । सृ॒जा॒नः । तपि᳚ष्ठेन । हेष᳚सा । द्रोघ᳚॑मित्रान् ॥
अश्मा᳚॑इव । वि॒ध्य॒ । दि॒वः । आ । सृ॒जा॒नः । तपि᳚ष्ठेन । हेष᳚सा । द्रोघ᳚॑मित्रान् ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र ते तवसिन्वा भेदनरहितं हेतिर्वज्राख्यमायुधं शोशुचत्या ज्वलन्त्या उषसो न यथोषसः केतुः पताकस्थानीयो रश्मिस्तद्वच्छत्रुषु प्रवर्तताम्। किञ्च तपिष्थेनातिशयेन शत्रूणां तापयित्र्या हेषसा शब्दकारिण्या हेत्याद्रोघमित्रान् द्रुग्धानि मित्राणि येषां ते द्रोघमित्राः। ताञ्शत्रून्विध्य ताडय तत्र। दृष्टान्तः। दिव आ सृजानः सृज्यमानोऽश्मेव। यथाशनिर्वृक्षान्विध्यति तद्वदित्यर्थः॥१२॥