दशमं मण्डलम् - सूक्तम् 35

14 ऋचः

ऋषिः: लुशो धानाकः देवता: विश्वेदेवाः छन्दः: जगती

सूक्तम् 10.35 - सम्पूर्णम्

1 / 14
ऋक्: 10.35.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (14)
10.35.1 समानपद
अबु᳚ध्रमु॒ त्य इन्द्र᳚वन्तो अ॒ग्नयो॒ ज्योति॒र्भर᳚न्त उ॒षसो॒ व्यु᳚ष्टिषु ।
म॒ही द्यावा᳚पृथि॒वी चे᳚तता॒मपो॒॑द्या दे॒वाना॒मव॒ आ वृ᳚णीमहे ॥
▶ पदपाठः (Word-by-word)
अबु᳚ध्रम् । ऊं॒ इति᳚ । त्ये । इन्द्र᳚॑वन्तः । अ॒ग्नयः᳚ । ज्योतिः᳚ । भर᳚न्तः । उ॒षसः᳚ । वि॑उ᳚ष्टिषु ।
म॒ही इति᳚ । द्यावा᳚पृथि॒वी इति᳚ । चे॒त॒ता॒म् । अपः᳚ । अ॒द्य । दे॒वाना᳚म् । अवः᳚ । आ । वृ॒णी॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इंद्रवंतोयष्टव्यत्वेनेन्द्रसंबंधिनः त्ये ते अमी आहवनीयादयोग्नयः उषसोव्युष्टिषु व्युच्छनेषु तमसां विवसनकालेषुज्योतिः तेजोभरंतोधारयंतः अबुध्रं प्रबुद्धाआसन् । मही महत्यौ द्या- वापृथिव्यौ अपः कर्म अपः अप्नइतिकर्मनामसुपाठात् । चेततां जानीतां अद्यास्मिन्नहनि दे- वानामिंद्रादीनां अवोरक्षणं वयमावृणीमहे ॥ १ ॥

10.35.2
दि॒वस्पृ᳚थि॒व्योरव॒ आ वृ᳚णीमहे मा॒तॄन्त्सिन्धू॒न्पर्व᳚ताञ्छर्य॒णाव᳚तः ।
अ॒ना॒गा॒स्त्वं सूर्य᳚मु॒षास᳚मीमहे भ॒द्रं सोमः᳚ सुवा॒नो अ॒द्या कृ᳚णोतु नः ॥
▶ पदपाठः (Word-by-word)
दि॒वःपृ᳚थि॒व्योः । अवः᳚ । आ । वृ॒णी॒म॒हे॒ । मा॒तॄन् । सिन्धू᳚न् । पर्व᳚तान् । श॒र्य॒णा॑व᳚तः ।
अ॒ना॒गाः॒॑त्वम् । सूर्य᳚म् । उ॒षस᳚म् । ई॒म॒हे॒ । भ॒द्रम् । सोमः᳚ । सु॒वा॒नः । अ॒द्य । कृ॒णो॒तु॒ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

दिवःपृथिव्योः द्यावापृथिव्योः कार्येण संबंधि अवोरक्षणं वयमावृणीमहे । किंच मातॄन् लोकस्य निर्मातॄन् सिंधून् शर्यणावतः सरसः संबंधिनः पर्वतान् शिलोच्चयांश्च तथा सूर्य मुषसं च अनागास्त्वं कर्मवैगुण्यजनितपापराहित्यमीमहे वयं याचामहे । किंच अद्यास्मि- न्नहनि नोस्मकं सुवानोभिषूयमाणः सोमोभद्रं कल्याणं कृणोतु करोतु ॥ २ ॥

10.35.3 समानपद
द्यावा᳚ नो अ॒द्य पृ᳚थि॒वी अना᳚गसो म॒ही त्रा᳚येतां सुवि॒ताय᳚ मा॒तरा᳚ ।
उ॒षा उ॒च्छन्त्यप᳚ बाधताम॒घं स्व॒स्त्य१॒᳚ग्निं स᳚मिधा॒नमी᳚महे ॥
▶ पदपाठः (Word-by-word)
द्यावा᳚ । नः॒ । अ॒द्य । पृ॒थि॒वी इति᳚ । अना᳚गसः । म॒ही इति᳚ । त्रा॒ये॒ता॒म् । सु॒वि॒ताय᳚ । मा॒तरा᳚ ।
उ॒षाः । उ॒च्छन्ती᳚ । अप᳚ । बा॒ध॒ता॒म् । अ॒घम् । स्व॒स्ति । अ॒ग्निम् । स॒म्॑इ॒धा॒नम् । ई॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मही महत्यौ मातरा मातरौ सर्वस्य मातृभूते द्यावापृथिवी द्यावापृथिव्यौ अद्यास्मि- न्नहनि अनागसोपराधरहितान् नोस्मान् सुविताय सुखाय त्रायेतां रक्षताम् । किंच उच्छंती तमांसि विवासयंती उषाः अस्माकमघं पापमपबाधतां अपनयतु अपिच समिधानं सम्यक् दीप्यमानमग्निं स्वस्ति सर्वप्रकाराविनाशमीमहे वयं याचामहे ॥ ३ ॥

10.35.4
इ॒यं न᳚ उ॒स्रा प्र᳚थ॒मा सु᳚दे॒व्यं᳚ रे॒वत्स॒निभ्यो᳚ रे॒वती॒ व्यु᳚च्छतु ।
आ॒रे म॒न्युं दु᳚र्वि॒दत्र᳚स्य धीमहि स्व॒स्त्य१॒᳚ग्निं स᳚मिधा॒नमी᳚महे ॥
▶ पदपाठः (Word-by-word)
इ॒यम् । नः॒ । उ॒स्रा । प्र॒थ॒मा । सु॒॑दे॒व्य᳚म् । रे॒वत् । स॒नि॑भ्यः᳚ । रे॒वती᳚ । वि । उ॒च्छ॒तु॒ु ।
आ॒रे । म॒न्युम् । दुः॒॑वि॒दत्र᳚स्य । धी॒म॒हि॒ । स्व॒स्ति । अ॒ग्निम् । स॒म्॑इ॒धा॒नम् । ई॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

रेवती धनवती प्रथमा मुख्या इयं उस्रा पापानामुत्सारिणी उषाः सुदेव्यं शोभनदेवा र्हं रेवद्धनवत् प्रधानकालयागत्वं सनिभ्योभजमानेभ्योनोस्मभ्यं प्रयच्छंती व्युच्छतु तमांसि विवासयतु । किंच दुर्विदत्रस्य दुर्धनस्य पुरुषस्य मन्युं क्रोधं आरे दूरे धीमहि निधीमहि । सिद्धमन्यत् ॥ ४ ॥

10.35.5
प्र याः सिस्र᳚ते॒ सूर्य᳚स्य र॒श्मिभि॒र्ज्योति॒र्भर᳚न्तीरु॒षसो॒ व्यु᳚ष्टिषु ।
भ॒द्रा नो᳚ अ॒द्य श्रव᳚से॒ व्यु᳚च्छत स्व॒स्त्य१॒᳚ग्निं स᳚मिधा॒नमी᳚महे ॥
▶ पदपाठः (Word-by-word)
प्र । याः । सिस्र᳚ते । सूर्य᳚स्य । र॒श्मि॑भिः᳚ । ज्योतिः᳚ । भर᳚न्तीः । उ॒षसः᳚ । वि॑उ᳚ष्टिषु ।
भ॒द्राः । नः॒ । अ॒द्य । श्रव᳚से । वि । उ॒च्छ॒त॒ । स्व॒स्ति । अ॒ग्निम् । स॒म्॑इ॒धा॒नम् । ई॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

याउषसः सूर्यस्य रश्मिभिः किरणैः प्रसिस्रते संगच्छंते व्युष्टिषु व्युच्छनेषु तमसां वि- वासनकालेषु ज्योतिरात्मीयं तेजोभरंतीः भरंति च तायूयं नोस्माकमद्यास्मिन्नहनि श्रवसे अन्नाय भद्रा भजनीया भवत् व्युच्छत तमांसि विवासयत च । सिद्धमन्यत् ॥ ५ ॥

10.35.6
अ॒न॒मी॒वा उ॒षस॒ आ च᳚रन्तु न॒ उद॒ग्नयो᳚ जिहतां॒ ज्योति᳚षा बृ॒हत् ।
आयु᳚क्षाताम॒श्विना॒ तूतु᳚जिं॒ रथं᳚ स्व॒स्त्य१॒᳚ग्निं स᳚मिधा॒नमी᳚महे ॥
▶ पदपाठः (Word-by-word)
अ॒न॒मी॒वाः । उ॒षसः᳚ । आ । च॒र॒न्तु॒ । नः॒ । उत् । अ॒ग्नयः᳚ । जि॒ह॒ता॒म् । ज्योति᳚षा । बृ॒हत् ।
अयु᳚क्षाताम् । अ॒श्विना᳚ । तूतु᳚जिम् । रथ᳚म् । स्व॒स्ति । अ॒ग्निम् । स॒म्॑इ॒धा॒नम् । ई॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनमीवारोगरहिताः उषसोनोस्मानाचरंतु आगच्छंतु बृहत् बृहता महता ज्योतिषा ते- जसा युक्ताअग्नयोप्युज्जिहतां उद्गच्छंतु अश्विना अश्विनावपि तूतुजिं क्षिप्रगामिनं रथमायु- क्षातां अस्मान् प्रत्यागंतुं रासभाभ्यां युंक्तां हरितआदित्यस्य रासभावश्विनोरिति । पाठात् । सिद्धमन्यत् ॥ ६ ॥

10.35.7
श्रेष्ठं᳚ नो अ॒द्य स᳚वित॒र्वरे᳚ण्यं भा॒गमा सु᳚व॒ स हि र᳚त्न॒धा असि᳚ ।
रा॒यो जनि᳚त्रीं धि॒षणा॒मुप᳚ ब्रुवे स्व॒स्त्य१॒᳚ग्निं स᳚मिधा॒नमी᳚महे ॥
▶ पदपाठः (Word-by-word)
श्रेष्ठ᳚म् । नः॒ । अ॒द्य । स॒वि॒तः॒ । वरे᳚ण्यम् । भा॒गम् । आ । सु॒व॒ । सः । हि । र॒त्न॒॑धाः । असि᳚ ।
रा॒यः । जनि᳚त्रीन् । धि॒षणा᳚म् । उप᳚ । ब्रु॒वे॒ । स्व॒स्ति । अ॒ग्निम् । स॒म्॑इ॒धा॒नम् । ई॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सवितस्त्वं अद्यास्मिन्नहनि नोस्मभ्यं वरेण्यं वरणीयं श्रेष्ठं प्रशस्यतमं भागं भजनीयं धनं आसुव प्रेरय देहीत्यर्थः । हि यस्मात् प्रार्थितस्त्वं रत्नधाः श्रेष्ठानां धनानां संविभक्ता- ऽसि भवसि । तथाच निगमांतरं—विभक्तारंहवामहेवसोश्चित्रस्यराधसः । सवितारंनृचक्ष- समिति । रायोधनस्य जनित्रीं धिषणां सर्वदेवस्तुतिरूपां वाचमुपब्रुवे अहमुपब्रवामि । यद्वा धिषणां देवीं उपस्तौमीत्यर्थः । सिद्धमन्यत् ॥ ७ ॥

10.35.8
पिप᳚र्तु मा॒ तदृ॒तस्य᳚ प्र॒वाच᳚नं दे॒वानां॒ यन्म᳚नु॒ष्या॒३॒᳚ अम᳚न्महि ।
विश्वा॒ इदु॒स्राः स्पळुदे᳚ति॒ सूर्य᳚ः स्व॒स्त्य१॒᳚ग्निं स᳚मिधा॒नमी᳚महे ॥
▶ पदपाठः (Word-by-word)
पिप᳚र्तु । मा॒ । तत् । ऋ॒तस्य᳚ । प्र॒॑वाच᳚नम् । दे॒वाना᳚म् । यत् । म॒नु॒ष्याः᳚ । अम᳚न्महि ।
विश्वाः᳚ । इत् । उ॒स्राः । स्पट् । उत् । ए॒ति॒ । सूर्यः᳚ । स्व॒स्ति । अ॒ग्निम् । स॒म्॑इ॒धा॒नम् । ई॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यदृस्य यज्ञस्य सत्यस्य वा संबंधि देवानां प्रवाचनं प्रकर्षेण गुणानां कथनं स्तोत्रं मनुष्यावयममन्महि कर्तुं जानीमः तत्प्रवाचनं मा मां पिपर्तु पालयतु । किंच सूर्यो- विश्वाः सर्वाउस्राः उषसः स्पट् स्पृशन्नवगच्छन् वोदेति उदेतु । सिद्धमन्यत् ॥ ८ ॥

10.35.9
अ॒द्वे॒षो अ॒द्य ब॒र्हिष॒ः स्तरी᳚मणि॒ ग्राव्णां॒ योगे॒ मन्म᳚न॒ः साध᳚ ईमहे ।
आ॒दि॒त्यानां॒ शर्म᳚णि॒ स्था भु᳚रण्यसि स्व॒स्त्य१॒᳚ग्निं स᳚मिधा॒नमी᳚महे ॥
▶ पदपाठः (Word-by-word)
अ॒द्वे॒षः । अ॒द्य । ब॒र्हिषः᳚ । स्तरी᳚मणि । ग्राव्णा᳚म् । योगे᳚ । मन्म᳚नः । साधे᳚ । ई॒म॒हे॒ ।
आ॒दि॒त्याना᳚म् । शर्म᳚णि । स्थाः । भु॒र॒ण्य॒सि॒ । स्व॒स्ति । अ॒ग्निम् । स॒म्॑इ॒धा॒नम् । ई॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अद्यास्मिन्नहनि बर्हिषस्तरीमणि वेद्यां स्तरणे मन्मनोमननीयस्याभीष्टस्य फलस्य सा- धे साधके ग्राव्णामभिषवपाषाणानां योगे सोमेन सह संयोगे च सत्यद्वेषोद्वेषवर्जिताना- दित्यानीमहे वयमभीष्टं याचामहे । हे स्तोतस्त्वं तेषामादित्यानां देवानां शर्मणि सुखे स्थाने वा स्थास्तिष्ठ भुरण्यसि कर्तव्यानि कर्माणि बिभर्षि गच्छसि । सिद्धमन्यत् ॥ ९ ॥

10.35.10
आ नो᳚ ब॒र्हिः स᳚ध॒मादे᳚ बृ॒हद्दि॒वि दे॒वा{4} ई᳚ळे सा॒दया᳚ स॒प्त होतॄ᳚न् ।
इन्द्रं᳚ मि॒त्रं वरु᳚णं सा॒तये॒ भगं᳚ स्व॒स्त्य१॒᳚ग्निं स᳚मिधा॒नमी᳚महे ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । ब॒र्हिः । स॒ध॒॑मादे᳚ । बृ॒हत् । दि॒वि । दे॒वान् । ई॒ळे॒ । सा॒दय᳚ । स॒प्त । होतॄ᳚न् ।
इन्द्र᳚म् । मि॒त्रम् । वरु᳚णम् । सा॒तये᳚ । भग᳚म् । स्व॒स्ति । अ॒ग्निम् । स॒म्॑इ॒धा॒नम् । ई॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नोस्माकं बृहत् बृहति महति दिवि दीप्ते सधमादे सह माद्यंति देवायत्र तस्मिन् ब- र्हिर्बर्हिषि यज्ञे सप्त सप्तसंख्याकान् होतॄन् वषट्कर्तॄन् इंद्रमिंद्रं च भगं च देवानितरानपि यष्टव्यान् देवान् हे अग्ने त्वमासादय । अग्नेराभिमुख्यकरणमिहाद्यदैव्यंजनंबर्हिरासादयावसो इत्येवमादिमंत्रैरवगम्यते । तत्र त्वदासादितांस्तानिंद्रादीन् देवानहं सातये धनलाभाय ईळे स्तौमि । सिद्धमन्यत् ॥ १० ॥

10.35.11
त आ᳚दित्या॒ आ ग᳚ता स॒र्वता᳚तये वृ॒धे नो᳚ य॒ज्ञम᳚वता सजोषसः ।
बृह॒स्पतिं᳚ पू॒षण᳚म॒श्विना॒ भगं᳚ स्व॒स्त्य१॒᳚ग्निं स᳚मिधा॒नमी᳚महे ॥
▶ पदपाठः (Word-by-word)
ते । आ॒दि॒त्याः॒ । आ । ग॒त॒ । स॒र्वता᳚तये । वृ॒धे । नः॒ । य॒ज्ञम् । अ॒व॒त॒ । स॒॑जो॒ष॒सः॒ ।
बृह॒स्पति᳚म् । पू॒षण᳚म् । अ॒श्विना᳚ । भग᳚म् । स्व॒स्ति । अ॒ग्निम् । स॒म्॑इ॒धा॒नम् । ई॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे आदित्याः येस्माभिराहूताः ते यूयं सर्वतातये यज्ञार्थमागतागच्छत । आगत्य च हे सजोषसः संगतायूयं नोस्माकं वृधे वर्धनाय यज्ञं प्रति अवत रक्षत । वयं च बृहस्पतिं पूषणं चाश्विनाश्विनौच भगं भगाख्यं देवं च समिधानं सम्यक् दीप्तमग्निं च स्वस्ति सर्वप्रकाराविनाशमीमहे याचामहे ॥ ११ ॥

10.35.12
तन्नो᳚ देवा यच्छत सुप्रवाच॒नं छ॒र्दिरा᳚दित्याः सु॒भरं᳚ नृ॒पाय्य᳚म् ।
पश्वे᳚ तो॒काय॒ तन᳚याय जी॒वसे᳚ स्व॒स्त्य१॒᳚ग्निं स᳚मिधा॒नमी᳚महे ॥
▶ पदपाठः (Word-by-word)
तत् । नः॒ । दे॒वाः॒ । य॒च्छ॒त॒ । सु॒॑प्र॒वा॒च॒नम् । छ॒र्दिः । आ॒दि॒त्याः॒ । सु॒॑भर᳚म् । नृ॒॑पाय्य᳚म् ।
पश्वे᳚ । तो॒काय᳚ । तन᳚याय । जी॒वसे᳚ । स्व॒स्ति । अ॒ग्निम् । स॒म्॑इ॒धा॒नम् । ई॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे आदित्यादेवाः यूयं सुप्रवाचनं अत्यंतं प्रशस्तं सुभरं सुसमृद्धंन्रुपाय्यं नृणां रक्षकं तदस्मदभिलषितं छर्दिर्गृहं नोस्माकं पश्वे पशवे तोकाय पुत्राय तनयाय पौत्राय च जीवसे जीवनार्थं यच्छत दत्त । सिद्धमन्यत् ॥ १२ ॥

10.35.13
विश्वे᳚ अ॒द्य म॒रुतो॒ विश्व᳚ ऊ॒ती विश्वे᳚ भवन्त्व॒ग्नय॒ः समि᳚द्धाः ।
विश्वे᳚ नो दे॒वा अव॒सा ग᳚मन्तु॒ विश्व᳚मस्तु॒ द्रवि᳚णं॒ वाजो᳚ अ॒स्मे ॥
▶ पदपाठः (Word-by-word)
विश्वे᳚ । अ॒द्य । म॒रुतः᳚ । विश्वे᳚ । ऊ॒ती । विश्वे᳚ । भ॒व॒न्तु॒ । अ॒ग्नयः᳚ । सम्॑इ᳚द्धाः ।
विश्वे᳚ । नः॒ । दे॒वाः । अव᳚सा । आ । ग॒म॒न्तु॒ । विश्व᳚म् । अ॒स्तु॒ । द्रवि᳚णम् । वाजः᳚ । अ॒स्मे इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अद्यस्मिन्नहनि प्रधानयागदिवसे विश्वे सर्वे मरुतोविश्वे सर्वे मरुद्गणसहचरितारुद्राद- योदेवाश्चोती ऊत्यै रक्षणाय भवंतु अपिच विश्वे सर्वे अग्नयः आहवनीयादयः समिद्धाः संदीप्ताः भवंतु । अपिच विश्वे सर्वे इंद्रादयोदेवानोस्माकमवसा रक्षणेनागमंतु आगच्छंतु किंचास्मे अस्मासु विश्वं सर्वं द्रविणं धनं वाजोन्नं चास्तु भवतु ॥ १३ ॥

10.35.14 समानपद
यं दे᳚वा॒सो॑व᳚थ॒ वाज᳚सातौ॒ यं त्राय᳚ध्वे॒ यं पि᳚पृ॒थात्यंहः᳚ ।
यो वो᳚ गोपी॒थे न भ॒यस्य॒ वेद॒ ते स्या᳚म दे॒ववी᳚तये तुरासः ॥
▶ पदपाठः (Word-by-word)
यम् । दे॒वा॒सः॒ । अव᳚थ । वाज᳚॑सातौ । यम् । त्राय᳚ध्वे । यम् । पि॒पृ॒थ । अति᳚ । अंहः᳚ ।
यः । वः॒ । गो॒॑पी॒थे । न । भ॒यस्य᳚ । वेद᳚ । ते । स्या॒म॒ । दे॒व॑वी᳚तये । तु॒रा॒सः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे तुरासोभीष्टप्रदानेक्षिप्रादेवासोदेवाः यूयं वाजसातौ संग्रामे यं मनुष्यमवथ यं च त्रायध्वे शत्रोः पालयथ यं चांहः पापमत्यतिनीय पिपृथ कामैः पूरयथ । यश्चापि मनु- ष्योवोयुष्माकं कार्यत्वेन संबंधिनि गोपीथे रक्षणे भयस्य भयं न वेद न जानाति ते सर्वे वयं देववीतये यज्ञार्थं स्याम भवेम ॥ १४ ॥

उषासानक्तेति चतुर्दशर्चं सप्तमं सूक्तं धानाकस्य लुशस्यार्षं आदितोद्वादशजगत्यः त- तोद्वे त्रिष्टुभौ विश्वेदेवादेवता । पूर्वसूक्ते वैश्वदेवं तु द्वित्रिष्टुबंतं त्वित्युक्तत्वात् । उषासानक्ते त्यनुक्रांतं आभिप्लविके षष्ठेहनि वैश्वदेवे इदं वैश्वदेवनिविद्धानम् । सूत्रितंच—कतरापूर्वोषा- सानक्तेति वैश्वमिति ।