दि॒वस्पृ᳚थि॒व्योरव॒ आ वृ᳚णीमहे मा॒तॄन्त्सिन्धू॒न्पर्व᳚ताञ्छर्य॒णाव᳚तः ।
अ॒ना॒गा॒स्त्वं सूर्य᳚मु॒षास᳚मीमहे भ॒द्रं सोमः᳚ सुवा॒नो अ॒द्या कृ᳚णोतु नः ॥
अ॒ना॒गा॒स्त्वं सूर्य᳚मु॒षास᳚मीमहे भ॒द्रं सोमः᳚ सुवा॒नो अ॒द्या कृ᳚णोतु नः ॥
पदपाठः (Word-by-word)
दि॒वःपृ᳚थि॒व्योः । अवः᳚ । आ । वृ॒णी॒म॒हे॒ । मा॒तॄन् । सिन्धू᳚न् । पर्व᳚तान् । श॒र्य॒णा॑व᳚तः ।
अ॒ना॒गाः॒॑त्वम् । सूर्य᳚म् । उ॒षस᳚म् । ई॒म॒हे॒ । भ॒द्रम् । सोमः᳚ । सु॒वा॒नः । अ॒द्य । कृ॒णो॒तु॒ । नः॒ ॥
अ॒ना॒गाः॒॑त्वम् । सूर्य᳚म् । उ॒षस᳚म् । ई॒म॒हे॒ । भ॒द्रम् । सोमः᳚ । सु॒वा॒नः । अ॒द्य । कृ॒णो॒तु॒ । नः॒ ॥
सायणभाष्यम् (Sayana Commentary)
दिवःपृथिव्योः द्यावापृथिव्योः कार्येण संबंधि अवोरक्षणं वयमावृणीमहे । किंच मातॄन् लोकस्य निर्मातॄन् सिंधून् शर्यणावतः सरसः संबंधिनः पर्वतान् शिलोच्चयांश्च तथा सूर्य मुषसं च अनागास्त्वं कर्मवैगुण्यजनितपापराहित्यमीमहे वयं याचामहे । किंच अद्यास्मि- न्नहनि नोस्मकं सुवानोभिषूयमाणः सोमोभद्रं कल्याणं कृणोतु करोतु ॥ २ ॥