श्रवणम्

10.35.9
अ॒द्वे॒षो अ॒द्य ब॒र्हिष॒ः स्तरी᳚मणि॒ ग्राव्णां॒ योगे॒ मन्म᳚न॒ः साध᳚ ईमहे ।
आ॒दि॒त्यानां॒ शर्म᳚णि॒ स्था भु᳚रण्यसि स्व॒स्त्य१॒᳚ग्निं स᳚मिधा॒नमी᳚महे ॥
▶ पदपाठः (Word-by-word)
अ॒द्वे॒षः । अ॒द्य । ब॒र्हिषः᳚ । स्तरी᳚मणि । ग्राव्णा᳚म् । योगे᳚ । मन्म᳚नः । साधे᳚ । ई॒म॒हे॒ ।
आ॒दि॒त्याना᳚म् । शर्म᳚णि । स्थाः । भु॒र॒ण्य॒सि॒ । स्व॒स्ति । अ॒ग्निम् । स॒म्॑इ॒धा॒नम् । ई॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अद्यास्मिन्नहनि बर्हिषस्तरीमणि वेद्यां स्तरणे मन्मनोमननीयस्याभीष्टस्य फलस्य सा- धे साधके ग्राव्णामभिषवपाषाणानां योगे सोमेन सह संयोगे च सत्यद्वेषोद्वेषवर्जिताना- दित्यानीमहे वयमभीष्टं याचामहे । हे स्तोतस्त्वं तेषामादित्यानां देवानां शर्मणि सुखे स्थाने वा स्थास्तिष्ठ भुरण्यसि कर्तव्यानि कर्माणि बिभर्षि गच्छसि । सिद्धमन्यत् ॥ ९ ॥