श्रवणम्

10.35.7
श्रेष्ठं᳚ नो अ॒द्य स᳚वित॒र्वरे᳚ण्यं भा॒गमा सु᳚व॒ स हि र᳚त्न॒धा असि᳚ ।
रा॒यो जनि᳚त्रीं धि॒षणा॒मुप᳚ ब्रुवे स्व॒स्त्य१॒᳚ग्निं स᳚मिधा॒नमी᳚महे ॥
▶ पदपाठः (Word-by-word)
श्रेष्ठ᳚म् । नः॒ । अ॒द्य । स॒वि॒तः॒ । वरे᳚ण्यम् । भा॒गम् । आ । सु॒व॒ । सः । हि । र॒त्न॒॑धाः । असि᳚ ।
रा॒यः । जनि᳚त्रीन् । धि॒षणा᳚म् । उप᳚ । ब्रु॒वे॒ । स्व॒स्ति । अ॒ग्निम् । स॒म्॑इ॒धा॒नम् । ई॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सवितस्त्वं अद्यास्मिन्नहनि नोस्मभ्यं वरेण्यं वरणीयं श्रेष्ठं प्रशस्यतमं भागं भजनीयं धनं आसुव प्रेरय देहीत्यर्थः । हि यस्मात् प्रार्थितस्त्वं रत्नधाः श्रेष्ठानां धनानां संविभक्ता- ऽसि भवसि । तथाच निगमांतरं—विभक्तारंहवामहेवसोश्चित्रस्यराधसः । सवितारंनृचक्ष- समिति । रायोधनस्य जनित्रीं धिषणां सर्वदेवस्तुतिरूपां वाचमुपब्रुवे अहमुपब्रवामि । यद्वा धिषणां देवीं उपस्तौमीत्यर्थः । सिद्धमन्यत् ॥ ७ ॥