दशमं मण्डलम् - सूक्तम् 110

11 ऋचः

ऋषिः: जमदग्निस्तत्सुतो वा रामः देवता: इध्मः समिद्धोग्निर्वा छन्दः: त्रिष्टुप्

सूक्तम् 10.110 - सम्पूर्णम्

1 / 11
ऋक्: 10.110.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
10.110.1
समि᳚द्धो अ॒द्य मनु᳚षो दुरो॒णे दे॒वो दे॒वान्य᳚जसि जातवेदः ।
आ च॒ वह᳚ मित्रमहश्चिकि॒त्वान्त्वं दू॒तः क॒विर᳚सि॒ प्रचे᳚ताः ॥
▶ पदपाठः (Word-by-word)
सम्॑इ᳚द्धः । अ॒द्य । मनु᳚षः । दु॒रो॒णे । दे॒वः । दे॒वान् । य॒ज॒सि॒ । जा॒त॒॑वे॒दः॒ ।
आ । च॒ । वह᳚ । मि॒त्र॒॑म॒हः॒ । चि॒कि॒त्वान् । त्वम् । दू॒तः । क॒विः । अ॒सि॒ । प्र॑चे᳚ताः ॥
▶ सायणभाष्यम् (Sayana Commentary)

समिद्ध इत्येकादशर्चमेकादशं सूक्तं त्रैष्टुभम्। भार्गवो जमदग्निऋषिः। तस्य पुत्रो रामो वा यः परशुराम इति प्रख्यातः। आप्रीसूक्तमिदम्। अतः समिदाद्याः सतनूनपातो नराशंसवर्जिताः प्रत्युचं देवताः। तथा चानुक्रान्तं समिद्ध एकादश जमदग्निस्तत्सुतो वा राम आप्रिय इति। पशौ जामदग्न्यानामिदमाप्रीसूक्तं यद्वाविशेशेण सर्वेषाम्। सूत्रितं च। समिद्धो अद्येति सर्वेषां यथर्षि वा। आ. ३-२। इति। अग्निचयनाङ्गभूते प्राजापत्ये पशौ सर्वेशां नित्यमिदमाप्रीसूक्तम्। सूत्रितं च। प्राजापत्ये तु जामदग्न्यः सर्वेशाम् । आ. ३-२। इति॥

हे जातवेदो जातप्रज्ञाग्ने देवः स्वतेजसा दीप्यमानस्त्वं मनुशो मनुश्यस्य यश्टुर्दुरोणे। ग्रुहनामैतत्। दुरवन आयासेन रक्षितव्ये ग्रुहेऽद्यास्मिन्कर्मणि समिद्धः समृक्प्रज्वालितः सन् देवानिन्द्रादीन्यजसि। हविर्भिः पूजय। समिद्धः। इन्धी दीप्तौ। कर्मणि क्ते श्वीदितो निष्ठायामितीट् प्रतिषेधः। गतिरनन्तर इति गतेः प्रकृतिस्वरत्वम्। हे मित्रमहः स्तुत्यस्तोत्रुलक्षणत्वेन मित्रभूतानां स्तोतॄणाम् पूजयितः तैः पूज्यमान वाग्ने चिकित्वाम्स्तैः कृताः स्तुतीः प्रजानन् चेतनवान्वा त्वमस्मदीये यज्ञे देवाना वह च। आप्रापय। वह प्रापणे। लोटि रूपम्। चवायोगे प्रथमेति न निघातः। तथा कविः क्रान्तप्रज्ञः अत एव प्रचेताः प्रकृष्टज्ञानस्त्वं दूतो देवानां हविष्प्रापणेन हितकारी भवसि॥१॥

10.110.2
तनू᳚नपात्प॒थ ऋ॒तस्य॒ याना॒न्मध्वा᳚ सम॒ञ्जन्त्स्व᳚दया सुजिह्व ।
मन्मा᳚नि धी॒भिरु॒त य॒ज्ञमृ॒न्धन्दे᳚व॒त्रा च᳚ कृणुह्यध्व॒रं नः᳚ ॥
▶ पदपाठः (Word-by-word)
तनू᳚॑नपात् । प॒थः । ऋ॒तस्य᳚ । याना᳚न् । मध्वा᳚ । स॒म्॑अ॒ञ्जन् । स्व॒द॒य॒ । सु॒॑जि॒ह्व॒ ।
मन्मा᳚नि । धी॒भिः । उ॒त । य॒ज्ञम् । ऋ॒न्धन् । दे॒व॒॑त्रा । च॒ । कृ॒णु॒हि॒ । अ॒ध्व॒रम् । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे तनूनपात्। नपादित्यनन्तरापत्यनामधेयम्। गौरत्र तनूरुच्यते तता अस्यं भोगाः क्षीरादय इति। तस्याः पयो जायते पयस आज्यं तस्मादग्निः। यद्वा। अन्तरिक्षे तता आपस्तन्वः ताभ्यः ओशध्यादयः तेभ्योऽग्निरिति। एवरूप हे सुजिह्व शोभनज्वाल यद्वा। जिह्वेति वाङ्नाम। शोभनवागग्ने ऋतस्य यज्ञस्य यानान्पलप्राप्तिहेतून्पथो मार्गान्हविराख्यान्मध्वा मदकरेण रसेन यद्वा वाग्जनितेन रसेन समञ्जन् सम्यग्दीपयन् स्वदय। स्वादयस्व। स्वादूकुरु। स्वद आस्वादने। णिच्युपधावृद्ध्यभावश्छान्धसः। किञ्च मनामि। मन्यतेरर्चतिकर्मणः। मननीयान्यस्मदभिप्रेतानि स्तोत्राणि धीभिः प्रज्ञाभिः कर्मभिर्वोतापि च यज्ञं यजनीयं हविश्च ऋन्धन् समृद्धानि कुर्वन् नोऽस्मदीयमध्वरम् यज्ञं देवता देवेषु क्रुणुहि। कुरु। देवशब्दाद्देवमनुष्येत्यादिना सप्तम्यर्थे त्राप्रत्ययः॥२॥

10.110.3
आ॒जुह्वा᳚न॒ ईड्यो॒ वन्द्य॒श्चा या᳚ह्यग्ने॒ वसु᳚भिः स॒जोषा᳚ः ।
त्वं दे॒वाना᳚मसि यह्व॒ होता॒ स ए᳚नान्यक्षीषि॒तो यजी᳚यान् ॥
▶ पदपाठः (Word-by-word)
आ॒॑जुह्वा᳚नः । ईड्यः᳚ । वन्द्यः᳚ । च॒ । आ । या॒हि॒ । अ॒ग्ने॒ । वसु᳚॑भिः । स॒॑जोषाः᳚ ।
त्वम् । दे॒वाना᳚म् । अ॒सि॒ । य॒ह्व॒ । होता᳚ । सः । ए॒ना॒न् । य॒क्षि॒ । इ॒षि॒तः । यजी᳚यान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वमस्मत्कर्मन्या याहि। आगच्छ। कीदृशः। आजुह्वानो देवानामाह्वाता। हु दानादनयोः जौ होत्यादिकः। आभ्यस्तस्वरः। ईड्यः। ईदिरध्येषणाकर्मा। अध्येष्यः प्रार्थ्यमानः वन्द्यः स्तोतव्यः वसुभिर्देवैः सजोषाः सह प्रीयमाणः। आगत्य च हे यह्व। महन्नामैतत्। हे महन् स त्वं देव देवानां होताह्वातासि। ततो यजीयान्। यष्टृशब्दादीयसुनि तुरिष्ठेमेयःस्विति त्रुचो लोपः। यष्टृतरः स त्वमिषितोऽस्माभिरध्येशितः प्रार्थितः सन्नेतान्देवान्यक्शि। यज। हविषा पूजय॥३॥

10.110.4
प्रा॒चीनं᳚ ब॒र्हिः प्र॒दिशा᳚ पृथि॒व्या वस्तो᳚र॒स्या वृ᳚ज्यते॒ अग्रे॒ अह्ना᳚म् ।
व्यु᳚ प्रथते वित॒रं वरी᳚यो दे॒वेभ्यो॒ अदि᳚तये स्यो॒नम् ॥
▶ पदपाठः (Word-by-word)
प्रा॒चीन᳚म् । ब॒र्हिः । प्र॒॑दिशा᳚ । पृ॒थि॒व्याः । वस्तोः᳚ । अ॒स्याः । वृ॒ज्य॒ते॒ । अग्रे᳚ । अह्ना᳚म् ।
वि । ऊं॒ इति᳚ । प्र॒थ॒ते॒ । वि॒॑त॒रम् । वरी᳚यः । दे॒वेभ्यः᳚ । अदि᳚तये । स्यो॒नम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यदिदं प्राचीनं प्रागञ्चितं प्राङ्मुखम् बर्हिरस्ति तदिदं पृथिव्या वेदिलक्षणाया वस्तोः। वस आच्छादने। तुन्प्रत्ययः। चतुर्थ्यर्थे बहुलं छन्दसिति षष्ठी। यद्वा। भावलक्षणे तोसुन् द्रष्टव्यः। वसनायाच्छादनार्थमह्नामग्रे पुर्वाह्णे प्रदिशा प्रकर्षेण दिश्यमानेन मन्त्रेणास्या प्राच्या दिशो व्रुज्यते। स्तूयते। आह्रियते। तथा च निगमः। त आ वहन्ति कवयः पुरस्तादित्यादि। तट्जाहृतं वरीय उरुतरं बर्हिर्वितरं विस्तीर्णतरं यथा भवति तथा विप्रथते। विविधमेव वेद्यां प्रस्तृतं भवति। तथा देवेभ्योऽदितये वेदिलक्शणायै पृथिव्यै च स्योनं सुखकरं भवति। विस्तीर्णे बर्हिषि देवाः सुखं निषीदन्ति॥४॥

10.110.5
व्यच᳚स्वतीरुर्वि॒या वि श्र᳚यन्तां॒ पति᳚भ्यो॒ न जन᳚य॒ः शुम्भ᳚मानाः ।
देवी᳚र्द्वारो बृहतीर्विश्वमिन्वा दे॒वेभ्यो᳚ भवत सुप्राय॒णाः ॥
▶ पदपाठः (Word-by-word)
व्यच᳚स्वतीः । उ॒र्वि॒या । वि । श्र॒य॒न्ता॒म् । पति᳚॑भ्यः । न । जन᳚यः । शुम्भ᳚मानाः ।
देवीः᳚ । द्वा॒रः॒ । बृ॒ह॒तीः॒ । वि॒श्व॒म्॑इ॒न्वाः॒ । दे॒वेभ्यः᳚ । भ॒व॒त॒ । सु॒प्र॒॑अ॒य॒णाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

व्यचस्वतीः। व्यचो व्यापनम् । तद्वत्यः। वा छन्दसीति पूर्वसवर्णदीर्घः। ता द्वारदेवता उर्विया। उरुशब्दात्तृतीयैकवचन इयादियाजीकाराणामुपसङ्ख्यानम्। पा. ७-१-३९-१। इतीयादेशः। उरुत्वेव वि श्रयन्ताम्। विशेशेणाश्रिता भवन्तु। तत्र दृष्टान्तः। पतिभ्यो न यथा पतीनामर्थाय सम्भोगकाले शुम्भमानाः शोभमाना जनयो जाय विश्रयन्ति तद्वदस्मिन्कर्मणि विश्रयन्ताम्। हे ब्रुहतीर्महत्यो हे विश्वमिन्वाः। इवि प्रीणनार्थः। तस्मात्कर्मण्युपपदेऽण्। इदित्त्वान्नुम्। तत्पुरुषे कृति बहुलमित्यत्र बहुलवचनाद्द्वितीयाया अप्यलुक्। सर्वस्य प्रीणयित्र्यो हे द्वारो देवीर्द्वाराभिमानिन्यो हे देव्यः यूयं देवेभ्यो देवानामर्थाय सुप्रायणाः सुप्रगमनाः सुविव्रुता भवत॥५॥

10.110.6
आ सु॒ष्वय᳚न्ती यज॒ते उपा᳚के उ॒षासा॒नक्ता᳚ सदतां॒ नि योनौ᳚ ।
दि॒व्ये योष᳚णे बृह॒ती सु᳚रु॒क्मे अधि॒ श्रियं᳚ शुक्र॒पिशं॒ दधा᳚ने ॥
▶ पदपाठः (Word-by-word)
आ । सु॒स्वय᳚न्ती॒ इति᳚ । य॒ज॒ते इति᳚ । उपा᳚के॒ इति᳚ । उ॒षसा॒नक्ता᳚ । स॒द॒ता॒म् । नि । योनौ᳚ ।
दि॒व्ये इति᳚ । योष᳚णे॒ इति᳚ । बृ॒ह॒ती इति᳚ । सु॒रु॒क्मे इति᳚ सु॒॑रु॒क्मे । अधि᳚ । श्रिय᳚म् । शु॒क्र॒॑पिश᳚म् । दधा᳚ने॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुस्वयन्ती। अय पय गतौ। शतर्युपसर्गस्य सोर्द्विवचनं छान्दसम्। सुष्ठ्वयन्तौ गच्छन्त्यौ। यद्वा। स्वपेर्ण्यन्तस्य वर्णलोपः। सुष्वापयन्त्यौ। यजते यष्टव्ये उपाके उपक्रान्ते उषासानक्तोषश्च नक्तं च। द्वंद्वं उषासोषसः। आ. ६-३-३१। इत्युषासादेशः। देवताद्वन्द्वे चेति पुर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम्। अहोरात्रदेव्यौ योनावस्मिन्यज्ञस्थाने नि नितराम् नियमेन वा सदताम् । आसीदताम् । सदेर्लुङि लृदित्त्वाच्च्लेरङ्। कीद्रुश्ये। दिव्ये दिवि भवे योषणे योशिताविव प्रीणयित्र्यौ। यद्वा। योषणे समिते परस्परतोऽविविक्ते। ब्रुहतीर्गुणैर्महत्यौ सुरुक्मे शोभनदीप्ते। रुक्मम्। रोचतेर्मक्प्रत्यये कुत्वे च कृते रूपम्। शुक्रपिशं शोचमानरूपां श्रियमधि दधाने अधिकं धारयन्त्यौ॥६॥

10.110.7
दैव्या॒ होता᳚रा प्रथ॒मा सु॒वाचा॒ मिमा᳚ना य॒ज्ञं मनु᳚षो॒ यज᳚ध्यै ।
प्र॒चो॒दय᳚न्ता वि॒दथे᳚षु का॒रू प्रा॒चीनं॒ ज्योति᳚ः प्र॒दिशा᳚ दि॒शन्ता᳚ ॥
▶ पदपाठः (Word-by-word)
दैव्या᳚ । होता᳚रा । प्र॒थ॒मा । सु॒॑वाचा᳚ । मिमा᳚ना । य॒ज्ञम् । मनु᳚षः । यज᳚ध्यै ।
प्र॒॑चो॒दय᳚न्ता । वि॒दथे᳚षु । का॒रू इति᳚ । प्रा॒चीन᳚म् । ज्योतिः᳚ । प्र॒॑दिशा᳚ । दि॒शन्ता᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

देव्या। देवाद्यञञाविति यञ्प्रत्ययः। देवसम्बन्धिनौ होतारौ होमनिष्पादकौ होतृनामकावग्न्यादित्यावस्मिन्यज्ञ आसीदताम्। कीदृशौ। प्रथमा मनुष्यहोतुः पूर्वभाविनौ सुवाचा शोभनस्तोत्रौ मनुशो मनुष्यस्य सर्वस्य यष्टुर्यजध्यै यागनिव्रुत्तये। यजेस्तुमर्थे शध्यैन्प्रत्ययः। यज्ञं मिमाना निर्मिमानावुत्पादयन्तौ। विदथेषु। विदन्त्यत्रर्त्विजः स्वस्वकर्माणीति विदथा यज्ञाः। तेष्वृत्विजो यजमानांश्च प्रचोदयन्ता प्रेरयन्तौ कारू स्तुतीनां कर्तारौ प्राचीनं पूर्वस्यां दिशि यष्टव्यत्वेन स्थितमाहवनीयाख्यम् ज्योतिः प्रदिशा प्रकृष्टेनोपदिष्टमार्गेण यद्वा प्रदिश्यमानेन मन्त्रेण दिशन्ता निर्वहन्तौ॥७॥

10.110.8
आ नो᳚ य॒ज्ञं भार᳚ती॒ तूय᳚मे॒त्विळा᳚ मनु॒ष्वदि॒ह चे॒तय᳚न्ती ।
ति॒स्रो दे॒वीर्ब॒र्हिरेदं स्यो॒नं सर᳚स्वती॒ स्वप᳚सः सदन्तु ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । य॒ज्ञम् । भार᳚ती । तूय᳚म् । ए॒तु॒ । इळा᳚ । म॒नु॒ष्वत् । इ॒ह । चे॒तय᳚न्ती ।
ति॒स्रः । दे॒वीः । ब॒र्हिः । आ । इ॒दम् । स्यो॒नम् । सर᳚स्वती । सु॒॑अप᳚सः । स॒द॒न्तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

भारती। भरत आदित्यः। अस्य स्वभुता दीप्तिः। तस्येदमित्यर्थः उत्सादित्वादञ्। पा. ४-१-८६। टिड्ढाणञिति ङीप्। नोऽस्मदीयं यज्ञं तूयं क्शिप्रमेतु। आगच्छतु। तथा मनुष्वन्मनुष्यो यथेदं मया कर्तव्यमिति जानाति तद्वच्चेतयन्ती जानतीळा देवी चेहास्मिन्कर्मण्यागच्छतु। तथा सरस्वती च। स्वपसः सुकर्माणः। अप इति कर्मनाम। आप्नोतेरसुन्यापः कर्माख्यायां ह्रस्वः। बहुव्रीहावाद्युदात्तं द्व्यच्छन्दसीत्युत्तरपदाद्युदात्तत्वम्। एतास्तिस्रो देवीर्देव्यः स्योनं सुखकरमिदं बर्हिरिमं यज्ञमा सदन्तु। आसीदन्तु। प्राप्नुवन्तु। सदेर्लोटि सीदादेशाभावश्छान्दसः॥८॥

10.110.9
य इ॒मे द्यावा᳚पृथि॒वी जनि᳚त्री रू॒पैरपिं᳚श॒द्भुव᳚नानि॒ विश्वा᳚ ।
तम॒द्य हो᳚तरिषि॒तो यजी᳚यान्दे॒वं त्वष्टा᳚रमि॒ह य᳚क्षि वि॒द्वान् ॥
▶ पदपाठः (Word-by-word)
यः । इ॒मे इति᳚ । द्यावा᳚पृथि॒वी इति᳚ । जनि᳚त्री॒ इति᳚ । रू॒पैः । अपिं᳚शत् । भुव᳚नानि । विश्वा᳚ ।
तम् । अ॒द्य । हो॒तः॒ । इ॒षि॒तः । यजी᳚यान् । दे॒वम् । त्वष्टा᳚रम् । इ॒ह । य॒क्षि॒ । वि॒द्वान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्वाष्ट्रसय्स् पशोर्वपायां य इमे इत्येषानुवाक्या। सुत्रितं च। य इमे द्यावापृथिवी जनित्री तन्नस्तुरीपमध पोषयित्नु। आ. ३-८। इति॥

यस्त्वष्टा देवो जनित्री विश्वस्य जनयित्र्याविमे द्यावापृथिवी। द्वन्द्वे दिवो द्यावेति द्यावादेशः। आद्युदात्तः। पृथिवीशब्दो ङीषन्तत्वेनान्तोदात्तः देवताद्वन्द्वे चेति पुर्वोत्तरपदयोः प्रक्रुतिस्वरत्वम्। द्यावापृथिव्यौ रूपैर्देवतिर्यङ्मनुष्याद्याकारैरपिंशत् रूपवत्यावकरोत्। पिश अवयवे तौदादिकः। शे मुचादीनामिति नुमागमः। तथा विश्वा सर्वाणि भुवनानि भूतजातानि रूपयुक्तान्यकरोत्। हे होतः यजीयान्यष्टृतमो विद्वान् सर्वम् जानन्स्त्वमिषितोऽस्माभिरध्येशितः प्रार्थितः सन्निह्नास्मिन्कर्मण्यद्यास्मिन्दिने तं त्वष्टारम् देवं यक्षि। स्तुतिभिर्हविर्भिर्वा यज। पूजय॥९॥

10.110.10
उ॒पाव᳚सृज॒ त्मन्या᳚ सम॒ञ्जन्दे॒वानां॒ पाथ᳚ ऋतु॒था ह॒वींषि᳚ ।
वन॒स्पति᳚ः शमि॒ता दे॒वो अ॒ग्निः स्वद᳚न्तु ह॒व्यं मधु᳚ना घृ॒तेन᳚ ॥
▶ पदपाठः (Word-by-word)
उ॒प॒॑अव᳚सृज । त्मन्या᳚ । स॒म्॑अ॒ञ्जन् । दे॒वाना᳚म् । पाथः᳚ । ऋ॒तु॒॑था । ह॒वींषि᳚ ।
वन॒स्पतिः᳚ । श॒मि॒ता । दे॒वः । अ॒ग्निः । स्वद᳚न्तु । ह॒व्यम् । मधु᳚ना । घृ॒तेन᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वनस्पते यूप त्मन्या। आत्मशब्दस्य तृतीयैकवचने यादेशः। मन्त्रे ष्वाङ्यादेरात्मन इत्याकारलोपः। आत्मनैवर्तुथर्तावृतौ प्राप्ते काले देवानामर्थाय पाथः पशुलक्षणमन्नमन्नानि च हवींषि समञ्जन् सम्यग्व्यक्तीकुर्वन्नुपावसृज। उपागम्य प्रयच्छ। गतिर्गतौ। पा. ८-१-७०। इति गतेर्निघातः। किञ्च वनस्पतिर्योऽयं यूपः शमितैतन्नामको देवः यद्वा शामित्रोऽग्निर्देवो दीप्यमान आहवनीयाख्योऽग्निश्चैते त्रयो मधुना मधुरेण घृतेन। यद्वा। मधुनोदकेन प्रोक्षणोपनयनादिगतेन घृतेन च। हव्यं हवनयोग्यं स्वदन्तु। स्वादं कुर्वन्तु॥१०॥

10.110.11 समानपद
स॒द्यो जा॒तो व्य᳚मिमीत य॒ज्ञम॒ग्निर्दे॒वाना᳚मभवत्पुरो॒गाः ।
अ॒स्य होतु᳚ः प्र॒दिश्यृ॒तस्य᳚ वा॒चि स्वाहा᳚कृतं ह॒विर᳚दन्तु दे॒वाः ॥
▶ पदपाठः (Word-by-word)
स॒द्यः । जा॒तः । वि । अ॒मि॒मी॒त॒ । य॒ज्ञम् । अ॒ग्निः । दे॒वाना᳚म् । अ॒भ॒व॒त् । पु॒रः॒॑गाः ।
अ॒स्य । होतुः᳚ । प्र॒॑दिशि᳚ । ऋ॒तस्य᳚ । वा॒चि । स्वाहा᳚॑कृतम् । ह॒विः । अ॒द॒न्तु॒ । दे॒वाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमग्निः सद्यस्तदानीमेव जातो जायमान एव यज्ञं व्यमिमित। विशेषेण निर्मिमीते। उत्पादयति। माङ् माने शब्दे च चौहोत्यादिकः। अत एवायमग्निर्देवानां पुरोगाः प्रथमगामी मुख्योऽभवत्। गमेर्विट् प्रत्यय आत्वे च कृते रूपम्। ततः प्रदिशि प्रकृष्टायां दिशि प्राच्यामृतस्याहवनीयात्मनागतस्यास्य होतुर्होमनिश्पादकस्याग्नेर्वाचि। अत्र वागाश्रय अस्यं लक्श्यते। वाच्यास्ये स्वाहाकृतं स्वाहाकारेण प्रक्षिप्तं हविः सर्वे देवा अदन्तु। भक्षयन्तु। इदं सूक्तं यास्केन सम्यगभ्यधायि। नि. ८.५-२१। तदत्रानुसन्धीयताम्॥११॥