आ सु॒ष्वय᳚न्ती यज॒ते उपा᳚के उ॒षासा॒नक्ता᳚ सदतां॒ नि योनौ᳚ ।
दि॒व्ये योष᳚णे बृह॒ती सु᳚रु॒क्मे अधि॒ श्रियं᳚ शुक्र॒पिशं॒ दधा᳚ने ॥
दि॒व्ये योष᳚णे बृह॒ती सु᳚रु॒क्मे अधि॒ श्रियं᳚ शुक्र॒पिशं॒ दधा᳚ने ॥
पदपाठः (Word-by-word)
आ । सु॒स्वय᳚न्ती॒ इति᳚ । य॒ज॒ते इति᳚ । उपा᳚के॒ इति᳚ । उ॒षसा॒नक्ता᳚ । स॒द॒ता॒म् । नि । योनौ᳚ ।
दि॒व्ये इति᳚ । योष᳚णे॒ इति᳚ । बृ॒ह॒ती इति᳚ । सु॒रु॒क्मे इति᳚ सु॒॑रु॒क्मे । अधि᳚ । श्रिय᳚म् । शु॒क्र॒॑पिश᳚म् । दधा᳚ने॒ इति᳚ ॥
दि॒व्ये इति᳚ । योष᳚णे॒ इति᳚ । बृ॒ह॒ती इति᳚ । सु॒रु॒क्मे इति᳚ सु॒॑रु॒क्मे । अधि᳚ । श्रिय᳚म् । शु॒क्र॒॑पिश᳚म् । दधा᳚ने॒ इति᳚ ॥
सायणभाष्यम् (Sayana Commentary)
सुस्वयन्ती। अय पय गतौ। शतर्युपसर्गस्य सोर्द्विवचनं छान्दसम्। सुष्ठ्वयन्तौ गच्छन्त्यौ। यद्वा। स्वपेर्ण्यन्तस्य वर्णलोपः। सुष्वापयन्त्यौ। यजते यष्टव्ये उपाके उपक्रान्ते उषासानक्तोषश्च नक्तं च। द्वंद्वं उषासोषसः। आ. ६-३-३१। इत्युषासादेशः। देवताद्वन्द्वे चेति पुर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम्। अहोरात्रदेव्यौ योनावस्मिन्यज्ञस्थाने नि नितराम् नियमेन वा सदताम् । आसीदताम् । सदेर्लुङि लृदित्त्वाच्च्लेरङ्। कीद्रुश्ये। दिव्ये दिवि भवे योषणे योशिताविव प्रीणयित्र्यौ। यद्वा। योषणे समिते परस्परतोऽविविक्ते। ब्रुहतीर्गुणैर्महत्यौ सुरुक्मे शोभनदीप्ते। रुक्मम्। रोचतेर्मक्प्रत्यये कुत्वे च कृते रूपम्। शुक्रपिशं शोचमानरूपां श्रियमधि दधाने अधिकं धारयन्त्यौ॥६॥