श्रवणम्

10.110.3
आ॒जुह्वा᳚न॒ ईड्यो॒ वन्द्य॒श्चा या᳚ह्यग्ने॒ वसु᳚भिः स॒जोषा᳚ः ।
त्वं दे॒वाना᳚मसि यह्व॒ होता॒ स ए᳚नान्यक्षीषि॒तो यजी᳚यान् ॥
▶ पदपाठः (Word-by-word)
आ॒॑जुह्वा᳚नः । ईड्यः᳚ । वन्द्यः᳚ । च॒ । आ । या॒हि॒ । अ॒ग्ने॒ । वसु᳚॑भिः । स॒॑जोषाः᳚ ।
त्वम् । दे॒वाना᳚म् । अ॒सि॒ । य॒ह्व॒ । होता᳚ । सः । ए॒ना॒न् । य॒क्षि॒ । इ॒षि॒तः । यजी᳚यान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वमस्मत्कर्मन्या याहि। आगच्छ। कीदृशः। आजुह्वानो देवानामाह्वाता। हु दानादनयोः जौ होत्यादिकः। आभ्यस्तस्वरः। ईड्यः। ईदिरध्येषणाकर्मा। अध्येष्यः प्रार्थ्यमानः वन्द्यः स्तोतव्यः वसुभिर्देवैः सजोषाः सह प्रीयमाणः। आगत्य च हे यह्व। महन्नामैतत्। हे महन् स त्वं देव देवानां होताह्वातासि। ततो यजीयान्। यष्टृशब्दादीयसुनि तुरिष्ठेमेयःस्विति त्रुचो लोपः। यष्टृतरः स त्वमिषितोऽस्माभिरध्येशितः प्रार्थितः सन्नेतान्देवान्यक्शि। यज। हविषा पूजय॥३॥