दशमं मण्डलम् - सूक्तम् 146

6 ऋचः

ऋषिः: देवमुनिरैरम्मदः देवता: अरण्यानी छन्दः: अनुष्टुप्

सूक्तम् 10.146 - सम्पूर्णम्

1 / 6
ऋक्: 10.146.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
10.146.1
अर᳚ण्या॒न्यर᳚ण्यान्य॒सौ या प्रेव॒ नश्य᳚सि ।
क॒था ग्रामं॒ न पृ᳚च्छसि॒ न त्वा॒ भीरि᳚व विन्दती३{4} ॥
▶ पदपाठः (Word-by-word)
अर᳚ण्यानि । अर᳚ण्यानि । अ॒सौ । या । प्र॑इ᳚व । नश्य᳚सि ।
क॒था । ग्राम᳚म् । न । पृ॒च्छ॒सि॒ । न । त्वा॒ । भीः॑इ᳚व । वि॒न्द॒ती{4}३ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अरण्यानीति षडृचमष्टादशम् सूक्तमिरंमदपुत्रस्य देवमुनेरार्षम्। महदरण्यमरण्यानी। तद्देवताकम्। अनुष्तुभम्। तथा चानुक्रान्तम्। अरण्यान्यैरम्मदोदेवमुनिररण्यानीं तुष्टावेति। गतो विनियोगः॥

हे अरण्यानि। अरण्यस्य पालयित्री काचिदधिदेवतारन्यानीति नैरुक्ताः। वैयाकरणास्तु हिमारण्ययोर्महत्त्वे। पा. ४-१-४९-१। इत्यरण्यस्य महत्त्वे ङीषं स्मरन्ति। अरण्याधिदेवते अरण्यानि कान्ताराणि प्रति यासौ त्वं प्रेव नश्यसि। इवः सम्प्रत्यर्थे। नशतिः प्राप्तिकर्मा। अत्र व्यत्ययेन श्यन्। सम्प्रति रक्षनाय प्राप्नोषि। यद्वा। निर्जने देशे वर्तमानत्वान्नष्टेव प्रतीयसे। सा त्वं कथा कथं ग्रामं न पृच्छसि। निर्जनेऽरण्ये कथं रमसे। नूनं त्वा त्वां भीर्भयं न विन्दति। न लभते किम्। वितर्के प्लुतः। इवः सम्प्रत्यर्थे परिभयार्थे वा। अत्र निरुक्तम्। अरण्यान्यरण्यस्य पत्न्यरण्यमपार्णं भवति ग्रामादरमणं भवतिति वा। अरण्यानीत्येनामामन्त्रयते। यासावरण्यानि वनानि पराचीव नश्यसि कथं ग्रामं न पृच्छसि न त्वा भीर्विन्दतीवेतीवः परिभयार्थे वा। नि. ९-३०। इति॥१॥

10.146.2
वृ॒षा॒र॒वाय॒ वद᳚ते॒ यदु॒पाव᳚ति चिच्चि॒कः ।
आ॒घा॒टिभि᳚रिव धा॒वय᳚न्नरण्या॒निर्म᳚हीयते ॥
▶ पदपाठः (Word-by-word)
वृ॒ष॒॑र॒वाय᳚ । वद᳚ते । यत् । उ॒प॒॑अव᳚ति । चि॒च्चि॒कः ।
आ॒घा॒टिभिः᳚॑इव । धा॒वय᳚न् । अ॒र॒ण्या॒निः । म॒ही॒य॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विषारवाय। वृषा सेचनसमर्थो रवः शब्दो यस्य सूक्ष्मजन्तुविशेषस्य झिल्याख्यस्य स तथोक्तः। कटुकशब्दवानित्यर्थः। तस्मै वृषारवाख्याय वदते चीची शब्दं कुर्वते चिच्चिकश्चिचीशब्दं कुर्वन्नन्यो जन्तुर्यद्यदोपावति वृषारवाय स्वशब्दस्य प्रत्युत्तरतूपेण चीचीशब्दकरेणोपगच्छति। उपेत्य पालयति वा। तत्र दृष्टान्तः। आघाटिभिरिव। अघाटयो घाटलिकाः काण्डवीणाः। ताभिर्धावयन्निषादादिसप्तस्वराणि शोधयन्गायक इव। तदारण्यानिः सारण्यानी महीयते। पूज्यते। इन्द्रवरुणेत्यादिना ङेष्। पा. ४-१-४९। तत्सन्नियोगेनानुगागमः। छान्दसो ह्रस्वः। अत एव हल्ङ्यादिसुलोपाभावः॥२॥

10.146.3
उ॒त गाव᳚ इवादन्त्यु॒त वेश्मे᳚व दृश्यते ।
उ॒तो अ᳚रण्या॒निः सा॒यं श᳚क॒टीरि᳚व सर्जति ॥
▶ पदपाठः (Word-by-word)
उ॒त । गावः᳚॑इव । अ॒द॒न्ति॒ । उ॒त । वेश्म᳚॑इव । दृ॒श्य॒ते॒ ।
उ॒तो इति᳚ । अ॒र॒ण्या॒निः । सा॒यम् । श॒क॒टीः॑इ᳚व । स॒र्ज॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापि च गाव इव गवयाद्या मृगा अस्यामरण्यान्यामदन्ति। तृणादिकं भक्षयन्ति। उतापि च लतागुल्मादिकं वेश्मेव गृहमिव दृश्यते। उतो अपि चारण्यानिरियमरण्यानी सायं सायंकाले। इवः सम्प्रत्यर्थे। सम्प्रति शकटीः शकटान् दार्वाद्याहरणायागतान्सर्जयति। विसर्जयति। यद्वा। शकटीः सर्जतीव दृश्यते। अहनि महदरण्यं शकटीभिः प्राप्य सर्वे जना अरण्ये क्षतं काष्ठादिकं शकटीष्वध्यारोप्य सायंकाले तस्मान्निर्गच्छन्ति। तदभिप्रायेणेदं वचनम्॥३॥

10.146.4
गाम॒ङ्गैष आ ह्व᳚यति॒ दार्व॒ङ्गैषो अपा᳚वधीत् ।
वस᳚न्नरण्या॒न्यां सा॒यमक्रु᳚क्ष॒दिति᳚ मन्यते ॥
▶ पदपाठः (Word-by-word)
गाम् । अ॒ङ्ग । ए॒षः । आ । ह्व॒य॒ति॒ । दारु᳚ । अ॒ङ्ग । ए॒षः । अप᳚ । अ॒व॒धी॒त् ।
वस᳚न् । अ॒र॒ण्या॒न्याम् । सा॒यम् । अक्रु᳚क्षत् । इति᳚ । म॒न्य॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अङ्ग हे अरण्यानि एष त्वदधिष्ठिते महारण्ये सम्प्रति वर्तमानो गामा ह्वयति। एष चान्यो दारु काष्ठमपावधीत्। अपहन्ति। तथा सायं सायंकाले रात्रावरण्यान्यां महारण्ये निवसन्मनुष्यो नानाविधं पक्षिमृगादिकं शब्दं शृण्वन् अक्रुक्षत् कश्चित्तस्करादिराक्रोशतीति भीतः सन्मन्यते। बुध्यते॥४॥

10.146.5
न वा अ᳚रण्या॒निर्ह᳚न्त्य॒न्यश्चेन्नाभि॒गच्छ᳚ति ।
स्वा॒दोः फल᳚स्य ज॒ग्ध्वाय᳚ यथा॒कामं॒ नि प᳚द्यते ॥
▶ पदपाठः (Word-by-word)
न । वै । अ॒र॒ण्या॒निः । ह॒न्ति॒ । अ॒न्यः । च॒ । इत् । न । अ॒भि॒॑गच्छ᳚ति ।
स्वा॒दोः । फल᳚स्य । ज॒ग्ध्वाय᳚ । य॒था॒॑काम᳚म् । नि । प॒द्य॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

न वै न खल्वरण्यानिररण्यानी हन्ति। तत्र निवसन्तं हिनस्ति। यद्यन्यो व्याघ्रचौरादिर्नाभिगच्छति। तर्हि स्वादो रसवत आम्रादेः फलस्य। द्वितीयार्थे षष्ठी। फलं जग्ध्वाय भक्षयित्वा तत्र निवसन्पुरुषो यथाकामं यथेच्छं नि पद्यते। निगच्छति। वर्तते। क्त्वाप्रत्ययेऽदो जग्धिर्ल्यप्ति किति। पा. २-४-३६। इति जग्ध्यादेशः। क्तो यत्। पा. ७-१-४७। इति। यक्॥५॥

10.146.6
आञ्ज᳚नगन्धिं सुर॒भिं ब᳚ह्व॒न्नामकृ᳚षीवलाम् ।
प्राहं मृ॒गाणां᳚ मा॒तर᳚मरण्या॒निम᳚शंसिषम् ॥
▶ पदपाठः (Word-by-word)
आञ्ज᳚न॑गन्धिम् । सु॒र॒भिम् । ब॒हु॒॑अ॒न्नाम् । अकृ᳚षि॑वलाम् ।
प्र । अ॒हम् । मृ॒गाणा᳚म् । मा॒तर᳚म् । अ॒र॒ण्या॒निम् । अ॒शं॒सि॒ष॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

आञ्जनगन्धिम्। अञ्जनस्येदमाञ्जनं कस्तूर्यादि। तस्य गन्ध इव गन्धो यस्यास्तादृशी। उपमानाच्च। पा. ५-४-१२७। इति गन्धस्येदन्तादेशः। अत एव सुरभिं सौरभ्य्पोएतां बह्वन्नां बहुभिरन्नैरदनीयैः फलमूलादिभिरुपेतामकृषीवलाम्। क्रुषिरेषामस्तीति क्रुषीवलाः कर्षकाः। रजः क्रुषीत्यादिना। पा. ५-२-११२। वलच्। वले। पा. ६-३-११८। इति दिर्घः। तैर्वियुक्तां तादृशीं मृगाणां मातरं जनयित्रीमरण्यानिमरण्यानीमहं प्राशंसिषम्। उक्तेन प्रकारेण स्तुतवानस्मि॥६॥