श्रवणम्

10.146.6
आञ्ज᳚नगन्धिं सुर॒भिं ब᳚ह्व॒न्नामकृ᳚षीवलाम् ।
प्राहं मृ॒गाणां᳚ मा॒तर᳚मरण्या॒निम᳚शंसिषम् ॥
▶ पदपाठः (Word-by-word)
आञ्ज᳚न॑गन्धिम् । सु॒र॒भिम् । ब॒हु॒॑अ॒न्नाम् । अकृ᳚षि॑वलाम् ।
प्र । अ॒हम् । मृ॒गाणा᳚म् । मा॒तर᳚म् । अ॒र॒ण्या॒निम् । अ॒शं॒सि॒ष॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

आञ्जनगन्धिम्। अञ्जनस्येदमाञ्जनं कस्तूर्यादि। तस्य गन्ध इव गन्धो यस्यास्तादृशी। उपमानाच्च। पा. ५-४-१२७। इति गन्धस्येदन्तादेशः। अत एव सुरभिं सौरभ्य्पोएतां बह्वन्नां बहुभिरन्नैरदनीयैः फलमूलादिभिरुपेतामकृषीवलाम्। क्रुषिरेषामस्तीति क्रुषीवलाः कर्षकाः। रजः क्रुषीत्यादिना। पा. ५-२-११२। वलच्। वले। पा. ६-३-११८। इति दिर्घः। तैर्वियुक्तां तादृशीं मृगाणां मातरं जनयित्रीमरण्यानिमरण्यानीमहं प्राशंसिषम्। उक्तेन प्रकारेण स्तुतवानस्मि॥६॥