दशमं मण्डलम् - सूक्तम् 23

7 ऋचः

ऋषिः: विमद ऐंद्रः प्राजापत्यो वा वसुकृद्वा वासुक्रः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 10.23 - सम्पूर्णम्

1 / 7
ऋक्: 10.23.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
10.23.1
यजा᳚मह॒ इन्द्रं॒ वज्र᳚दक्षिणं॒ हरी᳚णां र॒थ्यं१॒᳚ विव्र᳚तानाम् ।
प्र श्मश्रु॒ दोधु᳚वदू॒र्ध्वथा᳚ भू॒द्वि सेना᳚भि॒र्दय᳚मानो॒ वि राध᳚सा ॥
▶ पदपाठः (Word-by-word)
यजा᳚महे । इन्द्र᳚म् । वज्र᳚॑दक्षिणम् । हरी᳚नाम् । र॒थ्य᳚म् । वि॑व्र᳚तानाम् ।
प्र । श्मश्रु᳚ । दोधु᳚वत् । ऊ॒र्ध्व॑था᳚ । भू॒त् । वि । सेना᳚भिः । दय᳚मानः । वि । राध᳚सा ॥
▶ सायणभाष्यम् (Sayana Commentary)

वयमिन्द्रं यजामहे सोमलक्षणैर्हविर्भिः पूजयामः । कीदृशं वज्रदक्षणं शत्रुवधाय सततं वज्रोदक्षिणहस्ते यस्य तं विव्रतानां रथवहनादिविविधकर्मणां हरीणां एतत्संज्ञकानामश्वा- नां रथ्यं आनेतारं सइन्द्रः सोमपानानन्तरं श्मश्रु स्वकीयानि श्मश्रूणि दोधुवत् पुनः पुन- र्धुन्वानः सन् ऊर्ध्वथा ऊर्ध्वं प्रभूत् प्रादुरभूत् । किंच सेनाभिः मरुदादिस्वकीयैः सैन्यैः वि दयमानः विविधं शत्रून् हिंसन् राधसा द्वितीयार्थेतृतीया राधेधनं वीत्युपसर्गश्रुतेर्योग्यक्रि- याध्याहारः विविधं स्तोतृभ्योददाति ॥ १ ॥

10.23.2
हरी॒ न्व᳚स्य॒ या वने᳚ वि॒दे वस्विन्द्रो᳚ म॒घैर्म॒घवा᳚ वृत्र॒हा भु᳚वत् ।
ऋ॒भुर्वाज᳚ ऋभु॒क्षाः प᳚त्यते॒ शवो॑व᳚ क्ष्णौमि॒ दास᳚स्य॒ नाम᳚ चित् ॥
▶ पदपाठः (Word-by-word)
हरी॒ इति᳚ । नु । अ॒स्य॒ । या । वने᳚ । वि॒दे । वसु᳚ । इन्द्रः᳚ । म॒घैः । म॒घ॑वा᳚ । वृ॒त्र॒॑हा । भु॒व॒त् ।
ऋ॒भुः । वाजः᳚ । ऋ॒भु॒क्षाः । प॒त्य॒ते॒ । शवः᳚ । अव᳚ । क्ष्णौ॒मि॒ । दास᳚स्य । नाम᳚ । चि॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्येन्द्रस्य संबन्धिनौ या यौ हरी अश्वौ वने वन्यन्ते संभज्यन्तेस्मिन् देवाइति वनं यज्ञः अरण्यं वा तस्मिन् वसु ऋजीकलक्षणं धनं यवसलक्षणं वा नु क्षिप्रं विदे विन्देते लभेते । यद्वा यौ हरी अस्येन्द्रस्य वने संभजनार्थं वसुवसुनोलाभाय क्षिप्रं भवतइतिशेषः ताभ्यां हरिभ्यां मघैः धनैः मघवाधनवानिन्द्रः वृत्रहा वृत्राख्यासुरस्य मेघस्य वा हन्ता भुवत् भवति । अपिच ऋभुः दीप्तः वाजोबलवान् ऋभुक्षाः महानिन्द्रः शवः शवसोबल- स्य धनस्य वा पत्यते ईष्टे । यद्वा शत्रूणां बलं प्रतिपत्यते पद्यतेगच्छति अहमपि तस्य प्रसादात् दासस्य उपक्षपयितव्यस्य शत्रोः नामचित् नम्यतेऽनेनेतिनाम शिरः तदपि अव- क्ष्णौमि अवहन्मि किमुतान्यदंगं अथवा नामधेयमपि नाशयामि किमुत शत्रुं ॥ २ ॥

10.23.3
य॒दा वज्रं॒ हिर᳚ण्य॒मिदथा॒ रथं॒ हरी॒ यम᳚स्य॒ वह᳚तो॒ वि सू॒रिभि᳚ः ।
आ ति᳚ष्ठति म॒घवा॒ सन᳚श्रुत॒ इन्द्रो॒ वाज᳚स्य दी॒र्घश्र᳚वस॒स्पति᳚ः ॥
▶ पदपाठः (Word-by-word)
य॒दा । वज्र᳚म् । हिर᳚ण्यम् । इत् । अथ᳚ । रथ᳚म् । हरी॒ इति᳚ । यम् । अ॒स्य॒ । वह᳚तः । वि । सू॒रि॑भिः᳚ ।
आ । ति॒ष्ठ॒ति॒ । म॒घ॑वा᳚ । सन᳚॑श्रुतः । इन्द्रः᳚ । वाज᳚स्य । दी॒र्घ॑श्र᳚वसः । पतिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यदा इन्द्रोहिरण्यं हितरमणीयं वज्रं स्वकीयमायुधं शत्रुहननायगृह्णातीतिशेषः । इदिति पूरणः । अथ तदानीं अस्येन्द्रस्य हरी अश्वौ यं रथं विवहतः गन्तृप्रदेशं विशेषेण प्राप- यतः मघवा धनवानिन्द्रः सूरिभिः स्तोतृभिः कुत्सादिभिः सह तं रथमातिष्ठति आरोहति । कीदृशः सनश्रुतः चिरप्रख्यातः जगति स्वभावतएव विख्यातइत्यर्थः । दीर्घश्रवसः बहुकी- र्तेः वाजस्यान्नस्य पतिः स्वामी एवंभूतइन्द्रस्ते रथमारोहतीत्यर्थः ॥ ३ ॥

10.23.4
सो चि॒न्नु वृ॒ष्टिर्यू॒थ्या॒३॒᳚ स्वा सचा{4}॒ इन्द्र॒ः श्मश्रू᳚णि॒ हरि᳚ता॒भि प्रु᳚ष्णुते ।
अव᳚ वेति सु॒क्षयं᳚ सु॒ते मधूदिद्धू᳚नोति॒ वातो॒ यथा॒ वन᳚म् ॥
▶ पदपाठः (Word-by-word)
सो इति᳚ । चि॒त् । नु । वृ॒ष्टिः । यू॒थ्या᳚ । स्वा । सचा᳚ । इन्द्रः᳚ । श्मश्रू᳚णि । हरि᳚ता । अ॒भि । प्रु॒ष्णु॒ते॒ ।
अव᳚ । वे॒ति॒ । सु॒॑क्षय᳚म् । सु॒ते । मधु᳚ । उत् । इत् । धू॒नो॒ति॒ । वातः᳚ । यथा᳚ । वन᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

तद्च्छब्दश्रुतेर्यच्छब्दोध्याहर्तव्यः या महती बृष्टिरस्ति सो सा वृष्टिः नु क्षिप्रं चिदि- त्युपमार्थे यथा सर्वं सिंचति तथा इन्द्रः स्वा स्वानि यूथ्या यूथ्यानि मरुदादिगणलक्ष- णानि सचा सह स्वानि श्मश्रूणि च हरिता हरिद्वर्णेन सोमेन च अभिप्रुष्णुते । प्रुषप्लुष स्नेहनसेचनपूरणेष्वितिधातुः आभिमूख्येनस्थित्वा क्षिप्रं सिंचति सोमं पाययति पिबति चेत्यर्थः । अपिच सुक्षयं शोभनं यज्ञगृहं अववेति अभिगच्छति गत्वा च सुते सोमेभिषुते सति मधु मधुररसोप्रेतं सोमं पीत्वा मत्तः सन्नितिशेषः उदिद्धूनोति स्वशरीरमुत्कंपयति । तत्र दृष्टन्तः—वातोवायुः यथा वनं वृक्षसमूहं उत्कंपयति तद्वत् ॥ ४ ॥

10.23.5
यो वा॒चा विवा᳚चो मृ॒ध्रवा᳚चः पु॒रू स॒हस्राशि᳚वा ज॒घान᳚ ।
तत्त॒दिद᳚स्य॒ पौंस्यं᳚ गृणीमसि पि॒तेव॒ यस्तवि᳚षीं वावृ॒धे शवः᳚ ॥
▶ पदपाठः (Word-by-word)
यः । वा॒चा । वि॑वा᳚चः । मृ॒ध्र॑वा᳚चः । पु॒रु । स॒हस्रा᳚ । अशि᳚वा । ज॒घान᳚ ।
तत्॑त᳚त् । इत् । अ॒स्य॒ । पौंस्य᳚म् । गृ॒णी॒म॒सि॒ । पि॒ता॑इ᳚व । यः । तवि᳚षीम् । व॒वृ॒धे । शवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यइन्द्रः वाचा वाङ्मात्रेणैव विवाचः विविधवाचः स्वशत्रून् मृध्रवाचः हिंसितवाचः कृत्वेतिशेषः पुरु पुरूणि बहूनि अशिवा अशिवान्यसुखकराणि दुःखकराणीत्यर्थः सहस्रा शत्रूणां सहस्राणि जघान हन्ति अपिच यश्चेन्द्रः पितेव यथापिता पुत्रस्य तविषीं बलं अन्नप्रदानैर्ववृधे वर्धयति तथा वृष्टिद्वारेण सर्वस्य जगतः शवोबलं ववृधे वर्धयति । अस्ये न्द्रस्य तत्तदित् तत्तदेव पौंस्यं बलं गृणीमसि वयं स्तुमः । इन्द्रोयेन येन बलेन शत्रून् हन्ति तस्य तत्तद्बलं वयं स्तमइत्यर्थः ॥ ५ ॥

10.23.6
स्तोमं᳚ त इन्द्र विम॒दा अ᳚जीजन॒न्नपू᳚र्व्यं पुरु॒तमं᳚ सु॒दान᳚वे ।
वि॒द्मा ह्य᳚स्य॒ भोज᳚नमि॒नस्य॒ यदा प॒शुं न गो॒पाः क᳚रामहे ॥
▶ पदपाठः (Word-by-word)
स्तोम᳚म् । ते॒ । इ॒न्द्र॒ । वि॒॑म॒दाः । अ॒जी॒ज॒न॒न् । अपू᳚र्व्यम् । पु॒रु॒॑तम᳚म् । सु॒॑दान᳚वे ।
वि॒द्म । हि । अ॒स्य॒ । भोज᳚नम् । इ॒नस्य᳚ । यत् । आ । प॒शुम् । न । गो॒पाः । क॒रा॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते तुभ्यं सुदानवे शोभनदानस्यार्थाय विमदा विमदनामानोवयं स्तोमं स्तोत्र- विशेषंअजीजनन् जनितवन्तः कृतवन्तइत्यर्थः । अत्रपूर्वोत्तरयोरेकवाक्ययोः पुरुषव्यत्ययः । कीदृशं अपूर्व्यं अपूर्वं अन्यैः पूर्वमकृतं उत्कृष्टमित्यर्थः । पुरुतमं बहुतमं नानाप्रकारोपेत- मित्यर्थः । हि यस्मात्कारणात् हे इन्द्र इनस्येश्वरस्य अस्य ईदृशस्य तव यद्भोजनं धन- मस्ति तत् विद्म वयं जानीमः । तस्मात्कारणात् त्वदीयं तद्धनं आकरामहे वयं अस्मद- भिमुखं कुर्महे । तत्र दृष्टान्तः—पशुं न गोपाः यथा गोपालः धेनुमाह्वयन् स्वस्याभि- मुखीं करोति तद्वत् ॥ ६ ॥

10.23.7
माकि᳚र्न ए॒ना स॒ख्या वि यौ᳚षु॒स्तव᳚ चेन्द्र विम॒दस्य᳚ च॒ ऋषे᳚ः ।
वि॒द्मा हि ते॒ प्रम᳚तिं देव जामि॒वद॒स्मे ते᳚ सन्तु स॒ख्या शि॒वानि᳚ ॥
▶ पदपाठः (Word-by-word)
माकिः᳚ । नः॒ । ए॒ना । स॒ख्या । वि । यौ॒षुः॒ । तव᳚ । च॒ । इ॒न्द्र॒ । वि॒॑म॒दस्य᳚ । च॒ । ऋषेः᳚ ।
वि॒द्म । हि । ते॒ । प्र॑म᳚तिम् । दे॒व॒ । जा॒मि॒॑वत् । अ॒स्मे इति᳚ । ते॒ । स॒न्तु॒ । स॒ख्या । शि॒वानि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते तव च विमदस्य ऋषेर्मम च नः अस्मदोद्वयोश्चेतिद्वयोर्बहुवचनं आवयोः एना एनानि सख्या सख्यानि स्तुत्यस्तोतृत्वेन यष्टव्ययष्टृत्वेन च सखिकर्माणि माकिर्वि- यौषुः केचिदपि न विश्लथयेयुः । अपिच हि यस्मात्कारणात् हे देव द्योतमानेन्द्र ते तव प्रममिं प्रकृष्टांमतिं अनुग्राहिकां बुद्धिं विद्म जानीमः । तत्र दृष्टान्तः—जामिवत् यथा भ्राता स्वभगिन्या स्नेहयुक्तां मतिं जानाति तद्वत् तस्मात्कारणात् अस्मे अस्माकं ते तव च सख्या सख्यानि शिवानि सन्तु मंगलानि भवन्तु अनपायानीत्यर्थः ॥ ७ ॥

इन्द्रसोममिति षळृचमष्टमं सूक्तं चतुर्थ्याद्यास्तिस्रोनुष्टुभोश्विदेवत्याः आदितस्तिस्रऎन्द्र्यः आस्तारपंक्तिच्छन्दकाः । आदितोद्वौ गायत्रौ ततोद्वौ जागतौ सा आस्तारपंक्तिः । ऋषिः पूर्ववत् । तथाचानुक्रान्तं—इन्द्रसोमंषळास्तारपांक्तंत्वाश्विन्योन्त्यास्तिस्रोनुष्टुभइति । गतो- विनियोगः ।