श्रवणम्

10.23.7
माकि᳚र्न ए॒ना स॒ख्या वि यौ᳚षु॒स्तव᳚ चेन्द्र विम॒दस्य᳚ च॒ ऋषे᳚ः ।
वि॒द्मा हि ते॒ प्रम᳚तिं देव जामि॒वद॒स्मे ते᳚ सन्तु स॒ख्या शि॒वानि᳚ ॥
▶ पदपाठः (Word-by-word)
माकिः᳚ । नः॒ । ए॒ना । स॒ख्या । वि । यौ॒षुः॒ । तव᳚ । च॒ । इ॒न्द्र॒ । वि॒॑म॒दस्य᳚ । च॒ । ऋषेः᳚ ।
वि॒द्म । हि । ते॒ । प्र॑म᳚तिम् । दे॒व॒ । जा॒मि॒॑वत् । अ॒स्मे इति᳚ । ते॒ । स॒न्तु॒ । स॒ख्या । शि॒वानि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते तव च विमदस्य ऋषेर्मम च नः अस्मदोद्वयोश्चेतिद्वयोर्बहुवचनं आवयोः एना एनानि सख्या सख्यानि स्तुत्यस्तोतृत्वेन यष्टव्ययष्टृत्वेन च सखिकर्माणि माकिर्वि- यौषुः केचिदपि न विश्लथयेयुः । अपिच हि यस्मात्कारणात् हे देव द्योतमानेन्द्र ते तव प्रममिं प्रकृष्टांमतिं अनुग्राहिकां बुद्धिं विद्म जानीमः । तत्र दृष्टान्तः—जामिवत् यथा भ्राता स्वभगिन्या स्नेहयुक्तां मतिं जानाति तद्वत् तस्मात्कारणात् अस्मे अस्माकं ते तव च सख्या सख्यानि शिवानि सन्तु मंगलानि भवन्तु अनपायानीत्यर्थः ॥ ७ ॥

इन्द्रसोममिति षळृचमष्टमं सूक्तं चतुर्थ्याद्यास्तिस्रोनुष्टुभोश्विदेवत्याः आदितस्तिस्रऎन्द्र्यः आस्तारपंक्तिच्छन्दकाः । आदितोद्वौ गायत्रौ ततोद्वौ जागतौ सा आस्तारपंक्तिः । ऋषिः पूर्ववत् । तथाचानुक्रान्तं—इन्द्रसोमंषळास्तारपांक्तंत्वाश्विन्योन्त्यास्तिस्रोनुष्टुभइति । गतो- विनियोगः ।