य॒दा वज्रं॒ हिर᳚ण्य॒मिदथा॒ रथं॒ हरी॒ यम᳚स्य॒ वह᳚तो॒ वि सू॒रिभि᳚ः ।
आ ति᳚ष्ठति म॒घवा॒ सन᳚श्रुत॒ इन्द्रो॒ वाज᳚स्य दी॒र्घश्र᳚वस॒स्पति᳚ः ॥
आ ति᳚ष्ठति म॒घवा॒ सन᳚श्रुत॒ इन्द्रो॒ वाज᳚स्य दी॒र्घश्र᳚वस॒स्पति᳚ः ॥
पदपाठः (Word-by-word)
य॒दा । वज्र᳚म् । हिर᳚ण्यम् । इत् । अथ᳚ । रथ᳚म् । हरी॒ इति᳚ । यम् । अ॒स्य॒ । वह᳚तः । वि । सू॒रि॑भिः᳚ ।
आ । ति॒ष्ठ॒ति॒ । म॒घ॑वा᳚ । सन᳚॑श्रुतः । इन्द्रः᳚ । वाज᳚स्य । दी॒र्घ॑श्र᳚वसः । पतिः᳚ ॥
आ । ति॒ष्ठ॒ति॒ । म॒घ॑वा᳚ । सन᳚॑श्रुतः । इन्द्रः᳚ । वाज᳚स्य । दी॒र्घ॑श्र᳚वसः । पतिः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
यदा इन्द्रोहिरण्यं हितरमणीयं वज्रं स्वकीयमायुधं शत्रुहननायगृह्णातीतिशेषः । इदिति पूरणः । अथ तदानीं अस्येन्द्रस्य हरी अश्वौ यं रथं विवहतः गन्तृप्रदेशं विशेषेण प्राप- यतः मघवा धनवानिन्द्रः सूरिभिः स्तोतृभिः कुत्सादिभिः सह तं रथमातिष्ठति आरोहति । कीदृशः सनश्रुतः चिरप्रख्यातः जगति स्वभावतएव विख्यातइत्यर्थः । दीर्घश्रवसः बहुकी- र्तेः वाजस्यान्नस्य पतिः स्वामी एवंभूतइन्द्रस्ते रथमारोहतीत्यर्थः ॥ ३ ॥