दशमं मण्डलम् - सूक्तम् 64

17 ऋचः

ऋषिः: गयः प्लातः देवता: विश्वेदेवाः छन्दः: जगती

सूक्तम् 10.64 - सम्पूर्णम्

1 / 17
ऋक्: 10.64.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (17)
10.64.1
क॒था दे॒वानां᳚ कत॒मस्य॒ याम᳚नि सु॒मन्तु॒ नाम᳚ शृण्व॒तां म᳚नामहे ।
को मृ᳚ळाति कत॒मो नो॒ मय᳚स्करत्कत॒म ऊ॒ती अ॒भ्या व᳚वर्तति ॥
▶ पदपाठः (Word-by-word)
क॒था । दे॒वाना᳚म् । क॒त॒मस्य᳚ । याम᳚नि । सु॒॑मन्तु᳚ । नाम᳚ । शृ॒ण्व॒ताम् । म॒ना॒म॒हे॒ ।
कः । मृ॒ळा॒ति॒ । क॒त॒मः । नः॒ । मयः᳚ । क॒र॒त् । क॒त॒मः । ऊ॒ती । अ॒भि । आ । व॒व॒र्त॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

कथेति सप्तदशर्चं चतुर्थं सूक्तं प्लातस्य गयस्यार्षम् वैश्वदेवम् । याम् मे धियमित्येषा द्वादशी षोडशीसप्तदश्यौ च त्रिष्टुभः शेषा जगत्यः। तथा चानुक्रान्तम्। कथा यां मे त्रिष्टुबिति। गतो विनियोगः॥

ऋषिर्बहुधात्मानं वितर्कयति। यामनि। यान्ति गच्छन्त्यत्रेति यामा यज्ञः। तस्मिञ्शृण्वतामस्माभिरुक्तानि स्तोत्राणि देवानां मध्ये कतमस्य देवस्य सुमन्तु सुष्थु मननीयं स्तोतव्यं नाम कथा कथं मनामहे। उच्चारयामः। अस्मान्को वा मृळाति। मृळतिरुपदयाकर्मेति यास्कः। नि. १०-१५। कृपां करोति। कतमो वा सोऽस्माकं मयः सुखं करत्। करोति। कतमो वोती। चतुर्थ्याः पूर्वसवर्णदीर्घः। ऊत्या अस्माकं रक्षणायाभ्या ववर्तति। अभ्यागच्छतीत्यर्थः॥१॥

10.64.2
क्र॒तू॒यन्ति॒ क्रत᳚वो हृ॒त्सु धी॒तयो॒ वेन᳚न्ति वे॒नाः प॒तय॒न्त्या दिशः᳚ ।
न म᳚र्डि॒ता वि᳚द्यते अ॒न्य ए᳚भ्यो दे॒वेषु᳚ मे॒ अधि॒ कामा᳚ अयंसत ॥
▶ पदपाठः (Word-by-word)
क्र॒तु॒॑यन्ति᳚ । क्रत᳚वः । हृ॒त्॑सु । धी॒तयः᳚ । वेन᳚न्ति । वे॒नाः । प॒तय᳚न्ति । आ । दिशः᳚ ।
न । म॒र्डि॒ता । वि॒द्य॒ते॒ । अ॒न्यः । ए॒भ्यः॒ । दे॒वेषु᳚ । मे॒ । अधि᳚ । कामाः᳚ । अ॒यं॒स॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हृत्सु हृदयेशु धितयो निधातव्या निहिताः क्रतवः प्रज्ञाः क्रतूयन्ति। अग्निहोत्रादिकर्म कर्त्रुमिच्छन्ति। तदेवाह। वेनाः कान्ताः प्रज्ञा वेनन्ति। देवान्कामयन्ते। वेनो वेनतेः शान्तिकर्मण इति यास्कः। नि. १०-३८। तथा दिशोऽस्माभिर्निदिश्यमानाः प्रेर्यमाणाः कामा आ पतयन्ति। देवान्फलावाप्तय आगच्छन्ति। यत एभ्यो देवेभ्योऽन्यो देव एषां कामानां मर्डिता सुखयिता न विद्यते। किं बहुना। देवेष्वधि। अधिशब्दः सप्तम्यर्थद्योतकः। इन्द्रादिषु देवेषु मे मदीयाः कामा अयंसत। नियम्यन्ते। यच्छतेः कर्मणि लुङि रूपम्॥२॥

10.64.3 समानपद
नरा᳚ वा॒ शंसं᳚ पू॒षण॒मगो᳚ह्यम॒ग्निं दे॒वेद्ध᳚म॒भ्य᳚र्चसे गि॒रा ।
सूर्या॒मासा᳚ च॒न्द्रम᳚सा य॒मं दि॒वि त्रि॒तं वात᳚मु॒षस᳚म॒क्तुम॒श्विना᳚ ॥
▶ पदपाठः (Word-by-word)
नरा॒शंस᳚म् । वा॒ । पू॒षण᳚म् । अगो᳚ह्यम् । अ॒ग्निम् । दे॒व॑इ᳚द्धम् । अ॒भि । अ॒र्च॒से॒ । गि॒रा ।
सूर्या॒मासा᳚ । च॒न्द्रम᳚सा । य॒मम् । दि॒वि । त्रि॒तम् । वात᳚म् । उ॒षस᳚म् । अ॒क्तुम् । अ॒श्विना᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋषिः स्वात्मानं सम्बोध्याह। नराशंसम्। उभे वनस्पत्यादिषु युगपदित्युभयपदप्रकृतिस्वरत्वम्। संहितायां विप्रकर्षश्छान्दसः। नरैः शंसनीयमेतन्नामानं पूषणं स्तोतॄणाम् धनदानेन पॊशकमेतन्नामानं तथागोह्यमगूहितमन्यैर्गन्तुमशक्यं देवेद्धं वामदेवादिभिरृषिभिर्दीपितमग्निं च गिरा स्तुत्याभ्यर्चसे। अभिष्टुहि। तथा सुर्यमासा चन्द्रमसा। मा इति चन्द्रमसो विशेशनम् । माति पक्शमिति माश्चन्द्रमाः। तौ सूर्याचन्द्रमसौ दिवि द्युलोके स्थितं यमम् च त्रितं त्रिषुलोकेषु ततं स्वमहिम्ना विस्तृतं त्रिस्थानं वा तमिन्द्रं वातं वायुमुशसमुषः कालमक्तुम् रात्रिमश्विनाश्विनौ चैतान्देवांस्तत्तल्लिङ्गैः स्तोत्रैरभिष्टुहि॥३॥

10.64.4 समानपद
क॒था क॒विस्तु᳚वी॒रवा॒न्कया᳚ गि॒रा बृह॒स्पति᳚र्वावृधते सुवृ॒क्तिभि᳚ः ।
अ॒ज एक᳚पात्सु॒हवे᳚भि॒रृक्व᳚भि॒रहि᳚ः शृणोतु बु॒ध्न्यो॒३॒᳚ हवी᳚मनि ॥
▶ पदपाठः (Word-by-word)
क॒था । क॒विः । तु॒वि॒॑रवा᳚न् । कया᳚ । गि॒रा । बृह॒स्पतिः᳚ । व॒वृ॒ध॒ते॒ । सु॒वृ॒क्ति॑भिः᳚ ।
अ॒जः । एक᳚॑पात् । सु॒॑हवे᳚भिः । ऋक्व᳚॑भिः । अहिः᳚ । शृ॒णो॒तु॒ । बु॒ध्न्यः᳚ । हवी᳚मनि ॥
▶ सायणभाष्यम् (Sayana Commentary)

कविः कान्तप्रज्ञोऽग्निः कथा कथं केन प्रकारेण तुवीरवान्बहुस्तॊत्रयुक्तो भवति। मत्वर्थीयप्रत्ययावृत्तिः। यद्वा। तुविशब्दस्य रो मत्वर्थीयः। बाहुल्य युक्तदेवैः सहितो भवति। कया वा गिरा स्तुत्या बहुमान्भवति। बृहस्पतिरेतन्नामको देवः सुवृक्तिभिः शोभनाभिः स्तुतिभिस्तथा वावृधते। तथैकपात्। एकोऽसहाय एव पतति गच्छतीत्येकपात् तादृशो दिवो धारयिताज एतन्नामको देवश्च सुहवेभिः शोभनह्वानैरृक्वभिर्मन्त्रवद्भिः स्तोत्रैर्वावृधते। एते त्रयो देवा वर्धन्ते। त्रित्वापेक्षया बहुवचनम् । वृधु वृद्धौ। व्यत्ययेन शपः श्लुः। अहिर्बुध्न्यश्चैतन्नामको देवश्च हवीमन्याह्वानेऽस्माञ्छृणोतु॥४॥

10.64.5
दक्ष᳚स्य वादिते॒ जन्म᳚नि व्र॒ते राजा᳚ना मि॒त्रावरु॒णा वि᳚वाससि ।
अतू᳚र्तपन्थाः पुरु॒रथो᳚ अर्य॒मा स॒प्तहो᳚ता॒ विषु᳚रूपेषु॒ जन्म᳚सु ॥
▶ पदपाठः (Word-by-word)
दक्ष᳚स्य । वा॒ । अ॒दि॒ते॒ । जन्म᳚नि । व्र॒ते । राजा᳚ना । मि॒त्रावरु᳚णा । आ । वि॒वा॒स॒सि॒ ।
अतू᳚र्त॑पन्थाः । पु॒रु॒॑रथः᳚ । अ॒र्य॒मा । स॒प्त॑हो᳚ता । विषु᳚॑रूपेषु । जन्म᳚॑सु ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अदिते पृथिवि दक्षस्य सूर्यस्य जन्मनि तस्मिन्ञ्जाते व्रते तस्य यज्ञकर्मणि राजाना राजन्तौ मित्रावरुणौ विवासि। वाशब्द उपमार्थः। यथा त्वं वेदिभूता सति तौ पर्यचरः एवमिदानीमप्यस्मद्यज्ञे कुर्विति पृथिवीमाशास्ते। सोऽर्यमारीणां तमसाम् यन्ता नियतां सूर्यो विषुरूपेशु नानारूपेषु जन्मसु कर्मस्वन्वहमुद्यन् सप्त होता। सप्त रश्मयो यस्मिन्रसाञ्जुह्वति प्रक्शिपन्ति स एतादृशो भवति। अतूर्तपन्थाः। अतूर्तस्त्वरारहितः पन्था यस्य सः। नियतगतित्वात् त्वरमाणो ह्यनियतगतिर्भवति। पुरुरथः। रथो रंहतेः। प्रत्यहं भुक्तिभेदाद्बहुरंहणो भवति। यद्वा। हे अदिते प्रातस्तनि सन्ध्ये दक्षस्यादित्यस्य जन्मन्युदयाख्ये जन्मनि कर्मणि। य्द्यत्यादित्य इत्यर्थः। वा शब्दः श्रुतिसामर्थ्याद्दक्षस्य वा जन्मनि त्वत्तस्तव वा जन्मनि दक्षादिति। राजाना दीप्यमानौ मित्रावरुना। अहर्वृ मित्रो रात्रिर्वरुणः। ऐ. ब्रा. ४-१०। इति श्रुतेरहोरात्रौ मित्रावरुनावुच्येते। तौ विवाससि। परिचरसि। कथम्। तदनुप्रवेशेन। अर्धं हि सन्ध्याया रात्रिमनुप्रविशत्यर्धमहरिति। उत्तरार्धः पूर्ववत्। सप्तहोता। ह्वयतेरर्चतिकर्मन इदं रूदम् । सप्तर्षयो भरद्वाजादयो होतारः स्तोतारः सन्तीति। अथवा सप्तहोता। मल्लिम्लुचांहसस्पतिसहिताः सप्तर्तवो यस्य होतारो भवन्ति तादृशः। अत्र निरुक्तम्। दक्शस्य वादिते जन्मनि कर्मणि व्रते राजानौ। नि. ११-२३। इत्यादि॥५॥

10.64.6
ते नो॒ अर्व᳚न्तो हवन॒श्रुतो॒ हवं॒ विश्वे᳚ शृण्वन्तु वा॒जिनो᳚ मि॒तद्र᳚वः ।
स॒ह॒स्र॒सा मे॒धसा᳚ताविव॒ त्मना᳚ म॒हो ये धनं᳚ समि॒थेषु᳚ जभ्रि॒रे ॥
▶ पदपाठः (Word-by-word)
ते । नः॒ । अर्व᳚न्तः । ह॒व॒न॒॑श्रुतः᳚ । हव᳚म् । विश्वे᳚ । शृ॒ण्व॒न्तु॒ । वा॒जिनः᳚ । मि॒त॑द्र᳚वः ।
स॒ह॒स्र॒॑साः । मे॒धसा᳚तौ॑इव । त्मना᳚ । म॒हः । ये । धन᳚म् । स॒म्॑इ॒थेषु᳚ । ज॒भ्रि॒रे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हवन श्रुत आह्वानं शृण्वन्तो वाजिनो बलवन्तो मितद्रवोः मितमार्गा अध्वानं परिच्छिन्दन्तो विश्वे सर्वे प्रसिद्धा अर्वन्तोऽश्वा इन्द्रादीनां वाहनभुता हर्यादयो नोऽस्माकं हवमाह्वानं शृण्वन्तु। कीदृशाः। मेधसाताविव। मेधाः स्तुतयः सायन्ते सम्भज्यन्तेऽत्रेति मेधसातिर्यज्ञः। तस्मिन्निव त्वनात्मनैव सहस्रसाः सहस्रसङ्ख्याकधनस्य दातारः। ते शृण्वन्तु येऽश्वाः समिथेषु। सङ्ग्रामनामैतत्। सम्प्राप्त्यते योद्धृभिरत्रेति। तेषु सङ्ग्रामेशु महो महद्धनं जभ्रिरे। शत्रुभ्य आहरन्ति। हृग्रहोर्भः॥६॥

10.64.7
प्र वो᳚ वा॒युं र᳚थ॒युजं॒ पुरं᳚धिं॒ स्तोमै᳚ः कृणुध्वं स॒ख्याय᳚ पू॒षण᳚म् ।
ते हि दे॒वस्य᳚ सवि॒तुः सवी᳚मनि॒ क्रतुं॒ सच᳚न्ते स॒चित॒ः सचे᳚तसः ॥
▶ पदपाठः (Word-by-word)
प्र । वः॒ । वा॒युम् । र॒थ॒॑युज᳚म् । पुर᳚म्॑धिम् । स्तोमैः᳚ । कृ॒णु॒ध्व॒म् । स॒ख्याय᳚ । पू॒षण᳚म् ।
ते । हि । दे॒वस्य᳚ । स॒वि॒तुः । सवी᳚मनि । क्रतु᳚म् । सच᳚न्ते । स॒॑चितः᳚ । स॑चे᳚तसः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे स्तोतारः वो यूयं वायुं रथयुजं रथस्य योक्तारं पुरन्धिं बहुकर्माणमिन्द्रं पूशणमेतन्नामानं च स्तोमैस्त्रिवृत्पञ्चदशादिलक्शणैः सख्याय सखि कर्मणे प्र कृणुध्वम्। प्रकुरुध्वम्। यथा तेऽस्माकं धनादिप्रदानेन सखायो भवन्ति तथा कुरुत। हि यस्मात्सचितो ज्ञानयुक्तास्ते देवाः सचेतसः परस्परं समानबुद्धयः सन्तः सवितुः सर्वप्रेरकस्य देवस्यादित्यस्य सवीमनि प्रसवेऽह्नि क्रतुं यज्ञं सचन्ते सेवन्ते तस्मात्प्रकुरुध्वम्॥८॥

10.64.8
त्रिः स॒प्त स॒स्रा न॒द्यो᳚ म॒हीर॒पो वन॒स्पती॒न्पर्व᳚ता{4} अ॒ग्निमू॒तये᳚ ।
कृ॒शानु॒मस्तॄ᳚न्ति॒ष्यं᳚ स॒धस्थ॒ आ रु॒द्रं रु॒द्रेषु᳚ रु॒द्रियं᳚ हवामहे ॥
▶ पदपाठः (Word-by-word)
त्रिः । स॒प्त । स॒स्राः । न॒द्यः᳚ । म॒हीः । अ॒पः । वन॒स्पती᳚न् । पर्व᳚तान् । अ॒ग्निम् । ऊ॒तये᳚ ।
कृ॒शानु᳚म् । अस्तॄ᳚न् । ति॒ष्य᳚म् । स॒ध॑स्थे᳚ । आ । रु॒द्रम् । रु॒द्रेषु᳚ । रु॒द्रिय᳚म् । ह॒वा॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्रिः सप्तैकविंशतिसङ्ख्याकाः सस्राः सरन्तिर्नद्यो नदीः। सरस्वती सरयुः सिन्धुरिति त्रयाणां गणानां प्रधानभुताः। तदाद्या नदीर्महीर्महान्त्य पस्तासामुदकानि सोमाभिषवार्थं वनस्पतीन्दारुमायांश्च मसादीन्पर्वतान्सोमाभिषवार्थं ग्राव्णोऽग्निं होमनिष्पादकं कृशानुं सोमपालमेतन्नामानं गन्धर्वमस्तॄनिषूणां क्षेप्तॄंस्तदनुचरान्गन्धर्वानुतये सोमरक्शणाय तिश्यम् नक्षत्रं च रुद्रियं रुद्रस्तोमार्हम् रुद्रं हविभागिनं रुद्रमेतन्नामानं यद्वा परिशिष्टस्वामिनम् रुद्रं च एतान्सर्वान्सधस्थे। सह तिष्थन्त्यत्रेति सधस्थो यज्ञः । तस्मिन् रुद्रेषु स्तोत्रकारुषु तदर्थं हवामहे। स्तुत्यत्वेनाह्वयामहे॥९॥

10.64.9
सर᳚स्वती स॒रयु॒ः सिन्धु᳚रू॒र्मिभि᳚र्म॒हो म॒हीरव॒सा य᳚न्तु॒ वक्ष᳚णीः ।
दे॒वीरापो᳚ मा॒तरः᳚ सूदयि॒त्न्वो᳚ घृ॒तव॒त्पयो॒ मधु᳚मन्नो अर्चत ॥
▶ पदपाठः (Word-by-word)
सर᳚स्वती । स॒रयुः᳚ । सिन्धुः᳚ । ऊ॒र्मि॑भिः᳚ । म॒हः । म॒हीः । अव᳚सा । आ । य॒न्तु॒ । वक्ष᳚णीः ।
दे॒वीः । आपः᳚ । मा॒तरः᳚ । सू॒द॒यि॒त्न्वः᳚ । घृ॒त॑व᳚त् । पयः᳚ । मधु᳚॑मत् । नः॒ । अ॒र्च॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

महो महतोऽपि महीर्महत्योऽथन्तं महत्य ऊर्मिभिः सहिताः सरस्वती सरयुः सिन्धुरेतदाद्या एकविंशतिसङ्ख्याका वक्शणीरिमा नद्योऽवसा रक्षणेन हेतुना यन्तु। अस्मदीयं यज्ञं प्रत्यागच्छन्तु। ततो देवीर्देवनशीला मातरो मातृभूताः सूदयित्न्वः प्रेरयित्र्यस्तासामापो घृतवद्घृतयुक्तं मधुमद्मधुसहितमात्मीयं पयो नोऽस्मभ्यमर्चत। प्रयच्छत॥१०॥

10.64.10
उ॒त मा॒ता बृ᳚हद्दि॒वा शृ᳚णोतु न॒स्त्वष्टा᳚ दे॒वेभि॒र्जनि᳚भिः पि॒ता वचः᳚ ।
ऋ॒भु॒क्षा वाजो॒ रथ॒स्पति॒र्भगो᳚ र॒ण्वः शंसः᳚ शशमा॒नस्य᳚ पातु नः ॥
▶ पदपाठः (Word-by-word)
उ॒त । मा॒ता । बृ॒ह॒त्॑दि॒वा । शृ॒णो॒तु॒ । नः॒ । त्वष्टा᳚ । दे॒वेभिः᳚ । जनि᳚॑भिः । पि॒ता । वचः᳚ ।
ऋ॒भु॒क्षाः । वाजः᳚ । रथः॒पतिः᳚ । भगः᳚ । र॒ण्वः । शंसः᳚ । श॒श॒मा॒नस्य᳚ । पा॒तु॒ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापि च बृहद्दिवा। महद्दिवेति यास्कः। नि. ११-४९। महती दिवा दीप्तिर्यस्याः सा माता देवमाता नोऽस्माकमाह्वानम् शृणोतु। तथा देवेभिर्देवैरिन्द्रादिभिर्जनिभिर्देवपत्नीभिश्च पिता सर्वेशाम् त्वष्टैतन्नामकोऽस्मदीयं वचः शृणोतु। तथर्भुक्स्षा इन्द्रो वाजस्तत्सहायो वाजो नाम सौधन्वनः कनीयान् रथस्पती रथस्य पतिर्भगश्च तथा रण्वो रमणीयः शंसः स्तुत्यो मरुद्गणश्च ततः शशमानस्य शंसमानम् स्तोतॄन्नोऽस्मान्पातु। रक्षतु॥११॥

10.64.11
र॒ण्वः संदृ᳚ष्टौ पितु॒मा{4} इ᳚व॒ क्षयो᳚ भ॒द्रा रु॒द्राणां᳚ म॒रुता॒मुप᳚स्तुतिः ।
गोभि᳚ः ष्याम य॒शसो॒ जने॒ष्वा सदा᳚ देवास॒ इळ᳚या सचेमहि ॥
▶ पदपाठः (Word-by-word)
र॒ण्वः । सम्॑दृ᳚ष्टौ । पि॒तु॒मान्॑इ᳚व । क्षयः᳚ । भ॒द्रा । रु॒द्राणा᳚म् । म॒रुता᳚म् । उप᳚॑स्तुतिः ।
गोभिः᳚ । स्या॒म॒ । य॒शसः᳚ । जने᳚षु । आ । सदा᳚ । दे॒वा॒सः॒ । इळ᳚या । स॒चे॒म॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

संदृष्टौ सन्दर्शने रण्वो रमणीयो मरुद्गणः पितुमानिवान्नवानिव क्षयो निवासः स्तोतॄणाम् भवति। रुद्रानां रुद्रपुत्राणां तेषां मरुतामुपस्तुतिरनुग्रहबुद्धिर्भद्रा कल्याणी भवति। तस्माज्जनेषु जनानाम् मध्ये वयं गोभिर्गवादिभिर्यशसो यशस्विनः स्याम। भवेम। अनन्तरं हे देवासो देवाः युष्मान्सदा सर्वदेलयान्नेन हविर्लक्षणेन सचेमहि। सचेम। सङ्गच्छेम॥१२॥

10.64.12
यां मे॒ धियं॒ मरु᳚त॒ इन्द्र॒ देवा॒ अद᳚दात वरुण मित्र यू॒यम् ।
तां पी᳚पयत॒ पय᳚सेव धे॒नुं कु॒विद्गिरो॒ अधि॒ रथे॒ वहा᳚थ ॥
▶ पदपाठः (Word-by-word)
यम् । मे॒ । धिय᳚म् । मरु᳚तः । इन्द्र᳚ । देवाः᳚ । अद᳚दात । व॒रु॒ण॒ । मि॒त्र॒ । यू॒यम् ।
ताम् । पी॒प॒य॒त॒ । पय᳚सा॑इव । धे॒नुम् । कु॒वित् । गिरः᳚ । अधि᳚ । रथे᳚ । वहा᳚थ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतो हे इन्द्र देवा हे वरुण हे मित्र यूयं यां धियम् यत्कर्म मे मह्यमददात दत्तवन्तः स्थ। मरुत इत्यत्र वाक्यभेदादनिघतः। पूर्वपूर्वस्याविद्यमानत्वेनाद्युदात्तत्वम् । तां धियं पीपयत। फलेनाप्याययत। तत्र दृष्टान्तः। पयसेव धेनुं नवप्रसूतिकां गां क्षीरेण यथाप्याययन्ति तद्वत् किञ्च। गिरोऽस्मदीयाः स्तुतीरधि रथ आत्मीये रथे कुविद्बहुवारं वहाथ। प्राप्ताः स्थ। स्तुतेषु सत्सु यज्ञं प्रत्यागमनाय रथारूधा भवथ॥१३॥

10.64.13
कु॒विद॒ङ्ग प्रति॒ यथा᳚ चिद॒स्य नः᳚ सजा॒त्य᳚स्य मरुतो॒ बुबो᳚धथ ।
नाभा॒ यत्र᳚ प्रथ॒मं सं॒नसा᳚महे॒ तत्र᳚ जामि॒त्वमदि᳚तिर्दधातु नः ॥
▶ पदपाठः (Word-by-word)
कु॒वित् । अ॒ङ्ग । प्रति᳚ । यथा᳚ । चि॒त् । अ॒स्य । नः॒ । स॒॑जा॒त्य᳚स्य । म॒रु॒तः॒ । बुबो᳚धथ ।
नाभा᳚ । यत्र᳚ । प्र॒थ॒मम् । स॒म्॑नसा᳚महे । तत्र᳚ । जा॒मि॒॑त्वम् । अदि᳚तिः । द॒धा॒तु॒ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अङ्गेति सम्बुद्धौ। हे मरुतः यूयं नोऽस्मान्कुविद्बहुवारं प्रति बुबोधथ तथा प्रतिबुद्ध्यध्वम् । कुविच्छब्दयोगादनिघातः। यथा नोऽस्मान्सजात्यस्यास्य बान्धवस्य विषयभुतान्कुरुथ तथ जानीथ। ततो नाभा पृथिव्या नाभिस्थाने यत्र यस्मिन्नुत्तरवेदिलक्षने देशे प्रथममेव संननामहे हविषा यत्र सङ्गच्छेमहि तत्रैव देशेऽदितिर्देवानाम् माता नोऽस्माकं जमित्वं मनुष्यैः सह बान्धवं दधातु। विदधातु॥१४॥

10.64.14
ते हि द्यावा᳚पृथि॒वी मा॒तरा᳚ म॒ही दे॒वी दे॒वाञ्जन्म᳚ना य॒ज्ञिये᳚ इ॒तः ।
उ॒भे बि᳚भृत उ॒भयं॒ भरी᳚मभिः पु॒रू रेतां᳚सि पि॒तृभि᳚श्च सिञ्चतः ॥
▶ पदपाठः (Word-by-word)
ते । हि । द्यावा᳚पृथि॒वी इति᳚ । मा॒तरा᳚ । म॒ही इति᳚ । दे॒वी इति᳚ । दे॒वान् । जन्म᳚ना । य॒ज्ञिये॒ इति᳚ । इ॒तः ।
उ॒भे इति᳚ । बि॒भृ॒तः॒ । उ॒भय᳚म् । भरी᳚म॑भिः । पु॒रु । रेतां᳚सि । पि॒तृ॑भिः᳚ । च॒ । सि॒ञ्च॒तः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मातरा सर्वस्य जगतो निर्मात्र्यौ अत एव मही महत्यौ देवी देवनशीले यज्ञिये यज्ञार्हे ते द्यावापृथिवी द्यावापृथिव्यौ देवानिन्द्रादीञ्जन्मनैवेतो हि। प्राप्नुतः खलु। इण् गतौ। लिटि रूपम् । किञ्चोभे द्यावापृथिव्यौ भरीमभिर्भरणैर्नानाविधैरुभयम् जनं देवान्मनुष्यांश्च बिभृतः। धारयतः। पोशयतः। तथा पितृभिः पालकैर्देवैः सङ्गते ते पुरु पुरूण्यात्मीयानि रेतांस्युदकानि सिञ्चतः। क्षरतः। प्रत्यक्षेण धारयतः॥१५॥

10.64.15
वि षा होत्रा॒ विश्व᳚मश्नोति॒ वार्यं॒ बृह॒स्पति᳚र॒रम᳚ति॒ः पनी᳚यसी ।
ग्रावा॒ यत्र᳚ मधु॒षुदु॒च्यते᳚ बृ॒हदवी᳚वशन्त म॒तिभि᳚र्मनी॒षिणः᳚ ॥
▶ पदपाठः (Word-by-word)
वि । सा । होत्रा᳚ । विश्व᳚म् । अ॒श्नो॒ति॒ । वार्य᳚म् । बृह॒स्पतिः᳚ । अ॒रम᳚तिः । पनी᳚यसी ।
ग्रावा᳚ । यत्र᳚ । म॒धु॒॑सुत् । उ॒च्यते᳚ । बृ॒हत् । अवी᳚वशन्त । म॒ति॑भिः᳚ । म॒नी॒षिणः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

होत्रा। वाङ्नामैतत् आहूयन्तेऽनया देवा इति। सा वाग्वार्यं वरणीयं विश्वं सर्वं पश्वादिसहितं धनं व्यश्नोति। विविधं व्याप्नुते। कीदृशी। बृहस्पतिर्बृहतां महतां पालयित्री अरमतिः पर्याप्तस्तुतिः यद्वा कुत्राप्यनुपरता पनीयस्य अत्यन्तं देवानां स्तोत्रकारिणी। यत्र यस्यां होत्रायाम् मधुषुत् सोममभिषुण्वन्बृहद्महान्ग्रावोच्यते अभिधीयते। स्तूयत इत्यर्थः। तं स्तुतिमन्तं यज्ञं मनीशिणो देवा मतिभिः स्तुतिभिः सहावीवशन्त। कामयन्ते। वष्टेर्ण्यन्तस्य लुङि रूपं यद्वा। मनीशिणः स्तोतारः स्तुतिभिर्देवान्यज्ञं कामयमानान्कुर्वन्ति॥१६॥

10.64.16
ए॒वा क॒विस्तु᳚वी॒रवा{4}᳚ ऋत॒ज्ञा द्र᳚विण॒स्युर्द्रवि᳚णसश्चका॒नः ।
उ॒क्थेभि॒रत्र᳚ म॒तिभि᳚श्च॒ विप्रो॑पी᳚पय॒द्गयो᳚ दि॒व्यानि॒ जन्म᳚ ॥
▶ पदपाठः (Word-by-word)
ए॒व । क॒विः । तु॒वि॒॑रवा᳚न् । ऋ॒त॒॑ज्ञाः । द्र॒वि॒ण॒स्युः । द्रवि᳚णसः । च॒का॒नः ।
उ॒क्थेभिः᳚ । अत्र᳚ । म॒ति॑भिः᳚ । च॒ । विप्रः᳚ । अपी᳚पयत् । गयः᳚ । दि॒व्यानि᳚ । जन्म᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

कविः क्रान्तप्रज्ञस्तुवीरवान्। मत्पर्थीयप्रत्ययावृत्तिः। बहुस्तुतियुक्त ऋतज्ञा यज्ञस्य वेदिता द्रविणस्युर्धनकामः। सर्वप्रातिपदिकेभ्यो लालसायामिति सुगागमः। तस्यैव विशदवचनम् । द्रविणसश्चकान इति। पश्वादिधनं कामयमान इत्यर्थः। विव्रो मेधावी गयो नामर्षिरेवमुक्तप्रकारेणात्र सूक्त उक्थेभिः शस्त्रैर्मतिभिः स्तुतिभिश्च दिव्यानि दिवि जातानि जन्म जननानि देवानपीपयत्। अवर्धयत्। अस्ताविदित्यर्थः॥१७॥

10.64.17
ए॒वा प्ल॒तेः सू॒नुर᳚वीवृधद्वो॒ विश्व᳚ आदित्या अदिते मनी॒षी ।
ई॒शा॒नासो॒ नरो॒ अम᳚र्त्ये॒नास्ता᳚वि॒ जनो᳚ दि॒व्यो गये᳚न ॥
▶ पदपाठः (Word-by-word)
ए॒व । प्ल॒तेः । सू॒नुः । अ॒वी॒वृ॒ध॒त् । वः॒ । विश्वे᳚ । आ॒दि॒त्याः॒ । अ॒दि॒ते॒ । म॒नी॒षी ।
ई॒शा॒नासः᳚ । नरः᳚ । अम᳚र्त्येन । अस्ता᳚वि । जनः᳚ । दि॒व्यः । गये᳚न ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे विश्व आदित्याः सर्वे देवा हे अदिते देवानां मातरेन्नामिके देवि वो युश्मान्मनीषी प्राज्ञः स्तोता प्लतेरेतन्नामकस्यर्षेः सूनुः पुत्रोगयो नामैवैवमुक्तरीत्यावीवृधत्। स्तुतिभिरवर्धयत्। वर्धतेर्ण्यन्तस्य लुङि रूपम्। अमर्त्येन मनुश्यधर्मरहितेन स्तुतेन येन देवजनेन नरो मनुष्या ईशानसो धनस्येश्वराः स्वामिनो भवन्ति स दिव्यो दिवि भवो जनो देवगणो गयेनैतन्नामकेन मयास्तावि। अभिष्टुतोऽभुत्। स्तौतेः कर्मणि लुङि चङि रूपम्॥१८॥