श्रवणम्

10.64.4 समानपद
क॒था क॒विस्तु᳚वी॒रवा॒न्कया᳚ गि॒रा बृह॒स्पति᳚र्वावृधते सुवृ॒क्तिभि᳚ः ।
अ॒ज एक᳚पात्सु॒हवे᳚भि॒रृक्व᳚भि॒रहि᳚ः शृणोतु बु॒ध्न्यो॒३॒᳚ हवी᳚मनि ॥
▶ पदपाठः (Word-by-word)
क॒था । क॒विः । तु॒वि॒॑रवा᳚न् । कया᳚ । गि॒रा । बृह॒स्पतिः᳚ । व॒वृ॒ध॒ते॒ । सु॒वृ॒क्ति॑भिः᳚ ।
अ॒जः । एक᳚॑पात् । सु॒॑हवे᳚भिः । ऋक्व᳚॑भिः । अहिः᳚ । शृ॒णो॒तु॒ । बु॒ध्न्यः᳚ । हवी᳚मनि ॥
▶ सायणभाष्यम् (Sayana Commentary)

कविः कान्तप्रज्ञोऽग्निः कथा कथं केन प्रकारेण तुवीरवान्बहुस्तॊत्रयुक्तो भवति। मत्वर्थीयप्रत्ययावृत्तिः। यद्वा। तुविशब्दस्य रो मत्वर्थीयः। बाहुल्य युक्तदेवैः सहितो भवति। कया वा गिरा स्तुत्या बहुमान्भवति। बृहस्पतिरेतन्नामको देवः सुवृक्तिभिः शोभनाभिः स्तुतिभिस्तथा वावृधते। तथैकपात्। एकोऽसहाय एव पतति गच्छतीत्येकपात् तादृशो दिवो धारयिताज एतन्नामको देवश्च सुहवेभिः शोभनह्वानैरृक्वभिर्मन्त्रवद्भिः स्तोत्रैर्वावृधते। एते त्रयो देवा वर्धन्ते। त्रित्वापेक्षया बहुवचनम् । वृधु वृद्धौ। व्यत्ययेन शपः श्लुः। अहिर्बुध्न्यश्चैतन्नामको देवश्च हवीमन्याह्वानेऽस्माञ्छृणोतु॥४॥