दशमं मण्डलम् - सूक्तम् 145

6 ऋचः

ऋषिः: इंद्राणी देवता: उपनिषत्सपत्नीबाधनं छन्दः: अनुष्टुप्

सूक्तम् 10.145 - सम्पूर्णम्

1 / 6
ऋक्: 10.145.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
10.145.1
इ॒मां ख᳚ना॒म्योष᳚धिं वी॒रुधं॒ बल᳚वत्तमाम् ।
यया᳚ स॒पत्नीं॒ बाध᳚ते॒ यया᳚ संवि॒न्दते॒ पति᳚म् ॥
▶ पदपाठः (Word-by-word)
इ॒माम् । ख॒ना॒मि॒ । ओष᳚धिम् । वी॒रुध᳚म् । बल᳚वत्॑तमाम् ।
यया᳚ । स॒॑पत्नी᳚म् । बाध᳚ते । यया᳚ । स॒म्॑वि॒न्दते᳚ । पति᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इमामिति षडृचं सप्तदशं सूक्तमिन्द्राण्या आर्षम्। षष्ठी पङ्क्तिः शिष्टा अनुष्टुभः। अनेन सूक्तेन सपत्न्या बाधनं प्रतिपाद्यते। अत एव सूक्तजपादिना सपत्न्याविनाशो भवति। अतस्तद्देवताकमिदम्। तथा चानुक्रान्तम्। इमामिन्द्राण्युपनिषत्सपत्नीबाधनमानुष्टुभं तु पङ्क्त्यन्तमिति। अस्य सूक्तस्य विनियोगो भगवतापस्तम्बेन कस्मिंश्चित्सपत्नीघ्नप्रयोगविशेशे दर्शितः। त्रिः सप्तैर्यवैः पाठां परिकिरति यदि वारुण्यसि वरुणात्त्वा निष्क्रीणामि यदि स्ॐयसि सोमात्त्वा निष्क्रीणामीति। श्वोभूत उत्तरयोत्थाप्योत्तराभिस्तिसृभिरभिमन्त्र्योत्तरया प्रतिच्छन्नाम् हस्तयोराबध्य शय्याकाले बाहुभ्याम् भर्तारं परिगृह्णीयादुपधानलिङ्गया। वश्यो भवति। सपत्नीबाधनं च। आप. गृ. ९-५- ... ८। इति। अयमर्थः। आद्यया पाठा नामौषधिः खातव्या। ततस्तिसृभिरोषधेरभिमन्त्रनम् । षष्ठ्याबद्धा सौषधिर्यथा भर्तारं स्पृशति तथा तस्य भर्तुरालिङ्गनमिति॥

इमामोषधिं पाठाख्यां वीरुधं लतारूपां बलवत्तमां स्वकार्यकरणेऽतिशयेन बलवतीं खनामि। उन्मूलयामि। ययौशध्या सपत्नीम् । समान एकः पतिर्यस्याः सा सपत्नी। तामेषा वधूर्बाधते हिनस्ति। यया च पतिं भर्तारं संविन्दते सम्युगसधारण्येन लभते॥१॥

10.145.2
उत्ता᳚नपर्णे॒ सुभ᳚गे॒ देव᳚जूते॒ सह᳚स्वति ।
स॒पत्नीं᳚ मे॒ परा᳚ धम॒ पतिं᳚ मे॒ केव᳚लं कुरु ॥
▶ पदपाठः (Word-by-word)
उत्ता᳚न॑पर्णे । सु॑भ᳚गे । देव᳚॑जूते । सह᳚स्वति ।
स॒॑पत्नी᳚म् । मे॒ । परा᳚ । ध॒म॒ । पति᳚म् । मे॒ । केव᳚लम् । कु॒रु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे उत्तानपर्णे। उत्तानान्युर्ध्वमुखानि पर्णानि पत्राणि यस्याः तादृशि हे सुभगे सौभाग्यहेतुभुते हे देवजूते देवेन स्रष्ट्रा प्रेरिते हे सहस्वत्यभिभवनवति ईदृशे हे पाठे मे मम सपत्नीं स्त्रियं परा धम। परागमय। धमतिर्गतिकर्मा। पतिं च मे ममैव केवलमसाधारनम् कुरु॥२॥

10.145.3
उत्त᳚रा॒हमु᳚त्तर॒ उत्त॒रेदुत्त᳚राभ्यः ।
अथा᳚ स॒पत्नी॒ या ममाध᳚रा॒ साध᳚राभ्यः ॥
▶ पदपाठः (Word-by-word)
उत्॑त᳚रा । अ॒हम् । उ॒त्॑त॒रे॒ । उत्॑त᳚रा । इत् । उत्॑त᳚राभ्यः ।
अथ᳚ । स॒॑पत्नी᳚ । या । मम᳚ । अध᳚रा । सा । अध᳚राभ्यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे उत्तर उत्कृष्टतरे पाठे अहमुत्तरोत्कृष्टतरा भूयासम्। उत्तराभ्यो लोके या उत्कृष्टतराः सन्ति ताभ्योऽप्यहमुत्तरोत्कृष्टतरैव त्वत्प्रसादाद्भवेयम्। अथाननतरं मम या सपत्नी साधराभ्यो निकृष्टाभ्योऽप्यधरा निकृष्टतरा भवतु॥३॥

10.145.4
न॒ह्य᳚स्या॒ नाम᳚ गृ॒भ्णामि॒ नो अ॒स्मिन्र᳚मते॒ जने᳚ ।
परा᳚मे॒व प᳚रा॒वतं᳚ स॒पत्नीं᳚ गमयामसि ॥
▶ पदपाठः (Word-by-word)
न॒हि । अ॒स्याः॒ । नाम᳚ । गृ॒भ्णामि᳚ । नो इति᳚ । अ॒स्मिन् । र॒म॒ते॒ । जने᳚ ।
परा᳚म् । ए॒व । प॒रा॒॑वत᳚म् । स॒॑पत्नी᳚म् । ग॒म॒या॒म॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्याः सपत्न्या नाम संज्ञामपि नहि गृभ्णामि। नैव गृह्णामि। उच्चारयामि। नो खलु काचिदस्मिञ्जने सपत्न्याख्ये रमते। क्रीडति। अपि च ताम् सपत्नीं परां परावतमेवातिशयेन दूरदेशमेव गमयामसि। प्रापयामः। अतिशयेन भर्त्रा वियोजयाम इत्यर्थः॥४॥

10.145.5
अ॒हम᳚स्मि॒ सह᳚मा॒नाथ॒ त्वम᳚सि सास॒हिः ।
उ॒भे सह᳚स्वती भू॒त्वी स॒पत्नीं᳚ मे सहावहै ॥
▶ पदपाठः (Word-by-word)
अ॒हम् । अ॒स्मि॒ । सह᳚माना । अथ᳚ । त्वम् । अ॒सि॒ । स॒स॒हिः ।
उ॒भे इति᳚ । सह᳚स्वती॒ इति᳚ । भू॒त्वी । स॒॑पत्नी᳚म् । मे॒ । स॒हा॒व॒है॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ओषधि अहं त्वत्प्रसादात्सहमानास्मि। सपत्न्या अभिभवित्री भवामि। अथापि च त्वमपि सासहिरसि। तस्या भिभवित्री भवसि। आवामुभे अपि सहस्वती अभिभवित्र्यौ भूत्वी भूत्वा मे मम सपत्नीं सहावहै। अभिभवाम॥५॥

10.145.6
उप᳚ ते॑धां॒ सह᳚मानाम॒भि त्वा᳚धां॒ सही᳚यसा ।
मामनु॒ प्र ते॒ मनो᳚ व॒त्सं गौरि᳚व धावतु प॒था वारि᳚व धावतु ॥
▶ पदपाठः (Word-by-word)
उप᳚ । ते॒ । अ॒धा॒म् । सह᳚मानाम् । अ॒भि । त्वा॒ । अ॒धा॒म् । सही᳚यसा ।
माम् । अनु᳚ । प्र । ते॒ । मनः᳚ । व॒त्सम् । गौः॑इ᳚व । धा॒व॒तु॒ । प॒था । वाः॑इ᳚व । धा॒व॒तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पते ते तव सममानां सपत्न्या अभिभवित्रीमिमामोषधिमुपाधाम्। शिरस उपाधानं करोमि। सहीयसाभिभवितृतरेण तेनोपधानेन त्वामभ्यधाम्। अभितोधारयामि। ते तव भर्तुर्मनो मामनुलक्ष्य प्र धावतु। प्रकर्षेण शीघ्रं गच्छतु। तत्र निदर्शनद्वयमुच्यते। गौरिव यथा गौर्वत्सं शीघ्रं गच्छति पथा निम्नेन मार्गेण वारिव वारुदकं यथा स्वभावतो गच्छति तद्वत्। अनेन निदर्शनद्वयेनौत्सुक्यातिशयः स्वाभाविकत्वं च प्रतिपाद्यते॥६॥