आ सि᳚ञ्चतु प्र॒जाप᳚तिर्धा॒ता गर्भं᳚ दधातु ते ॥
पदपाठः (Word-by-word)
आ । सि॒ञ्च॒तु॒ । प्र॒जा॑प᳚तिः । धा॒ता । गर्भ᳚म् । द॒धा॒तु॒ । ते॒ ॥
सायणभाष्यम् (Sayana Commentary)
विष्णुरिति तृचं त्रयस्त्रिंशं सूक्तमानुष्टुभम्। गर्भाणां त्वष्टा नामर्षिः प्रजापतिपुत्रो विष्णुर्वा। लिङ्गोक्ता विष्णुत्वष्टृप्रजापतिसिनीवालीसरस्वत्यश्विन इति देवताः। तथा चानुक्रान्तम्। विष्णुस्त्वष्टा गर्भकर्ता विष्णुर्वा प्राजापत्यो गर्भार्थाशीर्लिङ्गोक्तदैवतमानुष्तुभमिति। लैङ्गिको विनियोगः॥
विष्णुर्व्यापको देवो योनिं गर्घाधानस्थानं कल्पयतु। करोतु। त्वष्टा तनुकर्तैतत्संज्ञको देवश्च रूपाणि निरूपकाणि स्त्रीत्वपुंस्त्वाभिव्यञ्जकानि चिह्नानि पिंशतु। अवयवीकरोतु। पिश अवयवे। मुचादित्वान्नुम्। एवं प्रक्लृप्तायां योन्यां प्रजापती रेत आ सिञ्चतु। निषिञ्चतु। सृजत्वित्यर्थः। धाता धारको देवो हे जाये ते तव गर्भं गर्भरूपेण परिणतं तद्रेतो दधातु। तत्रैव धारयतु। गर्भपातापप्रसवा मा भूवन्नित्यर्थः॥१॥