श्रवणम्

10.184.3
हि॒र॒ण्ययी᳚ अ॒रणी॒ यं नि॒र्मन्थ᳚तो अ॒श्विना᳚ ।
तं ते॒ गर्भं᳚ हवामहे दश॒मे मा॒सि सूत᳚वे ॥
▶ पदपाठः (Word-by-word)
हि॒र॒ण्ययी॒ इति᳚ । अ॒रणी॒ इति᳚ । यम् । निः॒॑मन्थ᳚तः । अ॒श्विना᳚ ।
तम् । ते॒ । गर्भ᳚म् । ह॒वा॒म॒हे॒ । द॒श॒मे । मा॒सि । सूत᳚वे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हिरण्ययी हिरण्मय्यावरणी यं गर्भमुद्दिश्याश्विनाश्विनौ देवौ निर्मन्थतः निर्मथितवन्तौ हे जाये ते तुभ्यं त्वदर्थं तं गर्भं हवामहे। आह्वयामहे। दशमे मासि सूतवे प्रसोतुम्। पद्दन्नित्यादिना मासशब्दस्य मास्भावः। सूतेस्तुमर्थे सेसेनिति तवेन्प्रत्ययः॥३॥