दशमं मण्डलम् - सूक्तम् 77

8 ऋचः

ऋषिः: स्यूमरश्मिर्भार्गवः देवता: मरुतः छन्दः: त्रिष्टुप्

सूक्तम् 10.77 - सम्पूर्णम्

1 / 8
ऋक्: 10.77.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (8)
10.77.1 समानपद
अ॒भ्र॒प्रुषो॒ न वा॒चा प्रु᳚षा॒ वसु᳚ ह॒विष्म᳚न्तो॒ न य॒ज्ञा वि᳚जा॒नुषः᳚ ।
सु॒मारु᳚तं॒ न ब्र॒ह्माण᳚म॒र्हसे᳚ ग॒णम᳚स्तोष्येषां॒ न शो॒भसे᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒भ्र॒॑प्रुषः᳚ । न । वा॒चा । प्रु॒ष॒ । वसु᳚ । ह॒विष्म᳚न्तः । न । य॒ज्ञाः । वि॒॑जा॒नुषः᳚ ।
सु॒॑मारु᳚तम् । न । ब्र॒ह्माण᳚म् । अ॒र्हसे᳚ । ग॒णम् । अ॒स्तो॒षि॒ । ए॒षा॒म् । न । शो॒भसे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अभ्रप्रुष इत्यष्टर्चम् नवमं सूक्तं भृगुगोत्रस्य स्यूमरश्मेरार्षम् मरुद्देवताकम् । पञ्चमि जगती शिष्टाः सप्त त्रिष्टुभः। तथा चानुक्रान्तम्। अभ्रप्रुषः स्यूमरश्मिर्भार्गवो मारुतं तु पञ्चमी जगतीति। गतो विनियोगः॥

अभ्रप्रुषो न मेघान्निर्गच्छन्त उदकबिन्दव इव वाचा स्तुत्या प्रिता मरुतो वसु धनं प्रुष। सिञ्चन्ति। व्यत्ययेन बहुवचनम्। किञ्च हविष्मन्तो न यज्ञा हविर्भिर्युक्ता यागा इव विजानुषो जगतो विजनयितारो भवन्ति। अथ समुदायेनाह। तेषामेषां सुमारुतम् शोभमानानां मरुतां ब्रह्माणं महान्तं गणमर्हसे पुजार्थं नास्तोषि। नास्तोषम्। न स्तुतवानस्मीतः पूर्वम्। तथा शोभसे शोभार्थमपि मारुतं गनम् नास्तौषि। अत इदानीं नूतनेन स्तोत्रेण स्तौमीत्यर्थः॥१॥

10.77.2
श्रि॒ये मर्या᳚सो अ॒ञ्जी{4}र᳚कृण्वत सु॒मारु᳚तं॒ न पू॒र्वीरति॒ क्षपः᳚ ।
दि॒वस्पु॒त्रास॒ एता॒ न ये᳚तिर आदि॒त्यास॒स्ते अ॒क्रा न वा᳚वृधुः ॥
▶ पदपाठः (Word-by-word)
श्रि॒ये । मर्या᳚सः । अ॒ञ्जीन् । अ॒कृ॒ण्व॒त॒ । सु॒॑मारु᳚तम् । न । पू॒र्वीः । अति᳚ । क्षपः᳚ ।
दि॒वः । पु॒त्रासः᳚ । एताः᳚ । न । ये॒ति॒रे॒ । आ॒दि॒त्यासः᳚ । ते । अ॒क्राः । न । व॒वृ॒धुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

श्रिये शोभार्थं मर्यासो मारका मनुष्यरूपा वा मरुतः। पूर्वं मनुष्याः सन्तः पश्चात्सुकृतविशेशेण ह्यमरा आसन्। तेंऽञ्जीनञ्जकान्याभरणान्यकृण्वत। कुर्वन्ति। किमर्थम्। श्रिये स्वशरीरशोभनार्थम्। सुमारुतं शोभमानानां मरुतां गणं पूर्वीर्बह्व्यः क्षपः क्षपयित्र्यः सेना नाति। न पराभावयन्तिति शेशः। इञ्च दिवो द्युदेवतायाः पुत्रास पुत्रा एता गन्तारो न येतिरे निर्गच्छन्ति। त आदित्यासोऽदितेः पुत्रा अक्रा आक्रमणशीला मरुतो न वावृधुः। न वर्धन्ती। यतोऽस्माभिर्न स्तुता अत इति भावः॥२॥

10.77.3
प्र ये दि॒वः पृ᳚थि॒व्या न ब॒र्हणा॒ त्मना᳚ रिरि॒च्रे अ॒भ्रान्न सूर्य᳚ः ।
पाज᳚स्वन्तो॒ न वी॒राः प᳚न॒स्यवो᳚ रि॒शाद᳚सो॒ न मर्या᳚ अ॒भिद्य᳚वः ॥
▶ पदपाठः (Word-by-word)
प्र । ये । दि॒वः । पृ॒थि॒व्याः । न । ब॒र्हणा᳚ । त्मना᳚ । रि॒रि॒च्रे । अ॒भ्रात् । न । सूर्यः᳚ ।
पाज᳚स्वन्तः । न । वी॒राः । प॒न॒स्यवः᳚ । रि॒शाद᳚सः । न । मर्याः᳚ । अ॒भि॑द्य᳚वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये मरुतो दिवः पृथिव्या न पृथिव्याश्च। नेति चार्थे। बर्हना महत्त्वेन त्मनात्मनैव रिरिच्रे अतिरिक्ता अभवन्स्वशरीरेण अभ्रान्नाभ्रादिव सूर्यः। किञ्च पाजस्वन्तो न वीरा बलवन्तो वीरा इव पनस्यवः स्तुतिकामा भवन्ति। किञ्च रिशादसो न मर्या रिशतामसितारो मनुष्या इवाभिद्यवोऽभिगतदीप्तयो भवन्ति॥३॥

10.77.4
यु॒ष्माकं᳚ बु॒ध्ने अ॒पां न याम᳚नि विथु॒र्यति॒ न म॒ही श्र᳚थ॒र्यति᳚ ।
वि॒श्वप्सु᳚र्य॒ज्ञो अ॒र्वाग॒यं सु व॒ः प्रय᳚स्वन्तो॒ न स॒त्राच॒ आ ग᳚त ॥
▶ पदपाठः (Word-by-word)
यु॒ष्माक᳚म् । बु॒ध्ने । अ॒पाम् । न । याम᳚नि । वि॒थु॒र्यति᳚ । न । म॒ही । श्र॒थ॒र्यति᳚ ।
वि॒श्व॑प्सुः᳚ । य॒ज्ञः । अ॒र्वाक् । अ॒यम् । सु । वः॒ । प्रय᳚स्वन्तः । न । स॒त्राचः᳚ । आ । ग॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतः युष्माकं बुध्ने परस्परसङ्घातेऽपां न यामनि प्रवृद्धानामुदकानां गमन इव मही महती भुर्न मिथुर्यति। न व्यथते। नापि श्रथर्यति। न विशिर्णा भवति। शीर्घ्रगतयोऽपि यूयमेनां न पीडयध्वमित्यर्थः। विश्वप्सुर्विश्वरूपोऽयं यज्ञो यागसाधनं हविर्वो युश्माकमर्वागभिमुखं सु सुष्थु गच्छति। प्रयस्वन्तो नान्नवन्तः परिष्कर्तार इव सुखप्रदाः सन्तः सत्राचः सहाञ्चना आ गत। आगच्छत। सङ्घाकारेणागच्छतेत्यर्थः। सप्तगणा वै मरुतः। तै. सं. २-२-५-७। इति श्रुतेः॥४॥

10.77.5
यू॒यं धू॒र्षु प्र॒युजो॒ न र॒श्मिभि॒र्ज्योति᳚ष्मन्तो॒ न भा॒सा व्यु᳚ष्टिषु ।
श्ये॒नासो॒ न स्वय᳚शसो रि॒शाद᳚सः प्र॒वासो॒ न प्रसि᳚तासः परि॒प्रुषः᳚ ॥
▶ पदपाठः (Word-by-word)
यू॒यम् । धूः॒॑सु । प्र॒॑युजः᳚ । न । र॒श्मि॑भिः᳚ । ज्योति᳚ष्मन्तः । न । भा॒सा । वि॑उ᳚ष्टिषु ।
श्ये॒नासः᳚ । न । स्व॑य᳚शसः । रि॒शाद᳚सः । प्र॒वासः᳚ । न । प्र॑सि᳚तासः । प॒रि॒॑प्रुषः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतः यूयं धूर्षु रथसम्बन्धिनीषु रश्मिभिर्योक्त्रैः प्रयुजः प्रयुक्ता बद्धा अश्वा इव परिप्रुषः परितो गन्तारः स्थ। तथा ज्योतिष्मन्तो न तेजोवन्त आदित्यादय इव भासा युक्ता भवथ ब्युष्टिषूषह् सूदितासु। किञ्च श्येनासो न श्येना इव स्वयशसः स्वायत्तयशसः ते यथा रिशादसो रिशतामसितारस्तद्वद्रितादसः स्वायत्तयशसश्च। किञ्च प्रवासो न प्रवासिन इव पथिका इव प्रसितासः प्रसिद्धयानाः। उक्तरूपा मरुतः परिपुर्षः परितो गन्तारो भवथ॥५॥

10.77.6
प्र यद्वह᳚ध्वे मरुतः परा॒काद्यू॒यं म॒हः सं॒वर᳚णस्य॒ वस्व᳚ः ।
वि॒दा॒नासो᳚ वसवो॒ राध्य᳚स्या॒राच्चि॒द्द्वेषः᳚ सनु॒तर्यु᳚योत ॥
▶ पदपाठः (Word-by-word)
प्र । यत् । वह᳚ध्वे । म॒रु॒तः॒ । प॒रा॒कात् । यू॒यम् । म॒हः । स॒म्॑वर᳚णस्य । वस्वः᳚ ।
वि॒दा॒नासः᳚ । व॒स॒वः॒ । राध्य᳚स्य । आ॒रात् । चि॒त् । द्वेषः᳚ । स॒नु॒तः । यु॒यो॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मरुतः यूयं यद्यदा पराकाद्यत्यन्तम् दूरदेशाद्वहध्वे आगच्छथ तदानीं महो महत्संवरणस्य संवरणीयं राध्यस्य संराधनीयं वस्वो वसु धनं विदानासः प्रयच्छन्तो हे वसवः यूयमाराच्छिद्दूरादेव युयोत। पृथक्कुरुत। कानिति उच्यते। द्वेषो द्वॆष्टॄन् सनुतरन्तर्हितान्। निगूढानित्यर्थः। सनुतरित्यन्तर्हितनाम॥६॥

10.77.7
य उ॒दृचि᳚ य॒ज्ञे अ᳚ध्वरे॒ष्ठा म॒रुद्भ्यो॒ न मानु᳚षो॒ ददा᳚शत् ।
रे॒वत्स वयो᳚ दधते सु॒वीरं॒ स दे॒वाना॒मपि᳚ गोपी॒थे अ᳚स्तु ॥
▶ पदपाठः (Word-by-word)
यः । उ॒त्॑ऋचि᳚ । य॒ज्ञे । अ॒ध्व॒रे॒॑स्थाः । म॒रुत्॑भ्यः᳚ । न । मानु᳚षः । ददा᳚शत् ।
रे॒वत् । सः । वयः᳚ । द॒ध॒ते॒ । सु॒॑वीर᳚म् । सः । दे॒वाना᳚म् । अपि᳚ । गो॒॑पी॒थे । अ॒स्तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अध्वर्रेष्ठा यागे सीदन्मानुषो यो यजमानो यज्ञ उदृचि सति। ऋक्शब्देन स्तोत्रमुपलक्ष्यते। यज्ञे समाप्तस्तुतिके सति सम्पूर्णे सति मरुद्भ्यो न मरुद्भ्य इवान्येषामध्वर्युभ्य ऋत्विगादिभ्यो ददाशत् दद्यात्। यद्वा। यज्ञ उदृच्युपक्रान्त इत्यर्थः। यस्मिन्यज्ञे मरुद्भ्य इवान्यस्मा इन्द्राय ददाशत् ददाति। स यजमानो रेवद्धनवत्सुवीरं शोभनपुत्राद्युपेतं वयोऽन्नं दधते। धारयति। व्यत्ययेनैकवचनम्। स देवानामिन्द्रादीनामपि गोपीथे सोमपानेऽस्तु। भवतु॥७॥

10.77.8
ते हि य॒ज्ञेषु᳚ य॒ज्ञिया᳚स॒ ऊमा᳚ आदि॒त्येन॒ नाम्ना॒ शम्भ᳚विष्ठाः ।
ते नो᳚॑वन्तु रथ॒तूर्म᳚नी॒षां म॒हश्च॒ याम᳚न्नध्व॒रे च᳚का॒नाः ॥
▶ पदपाठः (Word-by-word)
ते । हि । य॒ज्ञेषु᳚ । य॒ज्ञिया᳚सः । ऊमाः᳚ । आ॒दि॒त्येन᳚ । नाम्ना᳚ । शम्॑भ᳚विष्ठाः ।
ते । नः॒ । अ॒व॒न्तु॒ । र॒थ॒॑तूः । म॒नी॒षाम् । म॒हः । च॒ । याम᳚न् । अ॒ध्व॒रे । च॒का॒नाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ते हि ते खलु यज्ञेशु यागेशु यज्ञियासो यज्ञार्हा यश्टव्या ऊमा आवितार आदित्येन नाम्नादित्यसम्बन्धिनोदकेन शम्भविष्ठाः सुखस्य भावयितारः। यद्वा। आदित्याख्येन नाम्नादित्यनामकेन देवेन सह शम्भविष्ठाः। ते मरुतो नोऽस्मानवन्तु। रथतू रथतुरो रथस्य यज्ञगमनसाधनस्य त्वरयितारः सन्तो मनीषां स्तुतिमवन्तु। रक्षन्तु। कीदृशास्ते। अध्वरे यामन्यागगमने महो महद्धविश्चकानाः कामयमानाः॥८॥