श्रवणम्

10.77.7
य उ॒दृचि᳚ य॒ज्ञे अ᳚ध्वरे॒ष्ठा म॒रुद्भ्यो॒ न मानु᳚षो॒ ददा᳚शत् ।
रे॒वत्स वयो᳚ दधते सु॒वीरं॒ स दे॒वाना॒मपि᳚ गोपी॒थे अ᳚स्तु ॥
▶ पदपाठः (Word-by-word)
यः । उ॒त्॑ऋचि᳚ । य॒ज्ञे । अ॒ध्व॒रे॒॑स्थाः । म॒रुत्॑भ्यः᳚ । न । मानु᳚षः । ददा᳚शत् ।
रे॒वत् । सः । वयः᳚ । द॒ध॒ते॒ । सु॒॑वीर᳚म् । सः । दे॒वाना᳚म् । अपि᳚ । गो॒॑पी॒थे । अ॒स्तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अध्वर्रेष्ठा यागे सीदन्मानुषो यो यजमानो यज्ञ उदृचि सति। ऋक्शब्देन स्तोत्रमुपलक्ष्यते। यज्ञे समाप्तस्तुतिके सति सम्पूर्णे सति मरुद्भ्यो न मरुद्भ्य इवान्येषामध्वर्युभ्य ऋत्विगादिभ्यो ददाशत् दद्यात्। यद्वा। यज्ञ उदृच्युपक्रान्त इत्यर्थः। यस्मिन्यज्ञे मरुद्भ्य इवान्यस्मा इन्द्राय ददाशत् ददाति। स यजमानो रेवद्धनवत्सुवीरं शोभनपुत्राद्युपेतं वयोऽन्नं दधते। धारयति। व्यत्ययेनैकवचनम्। स देवानामिन्द्रादीनामपि गोपीथे सोमपानेऽस्तु। भवतु॥७॥