दशमं मण्डलम् - सूक्तम् 71

11 ऋचः

ऋषिः: बृहस्पतिः देवता: ज्ञानं छन्दः: त्रिष्टुप्

सूक्तम् 10.71 - सम्पूर्णम्

1 / 11
ऋक्: 10.71.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
10.71.1
बृह᳚स्पते प्रथ॒मं वा॒चो अग्रं॒ यत्प्रैर᳚त नाम॒धेयं॒ दधा᳚नाः ।
यदे᳚षां॒ श्रेष्ठं॒ यद᳚रि॒प्रमासी᳚त्प्रे॒णा तदे᳚षां॒ निहि᳚तं॒ गुहा॒विः ॥
▶ पदपाठः (Word-by-word)
बृह᳚स्पते । प्र॒थ॒मम् । वा॒चः । अग्र᳚म् । यत् । प्र । ऐर᳚त । ना॒म॒॑धेय᳚म् । दधा᳚नाः ।
यत् । ए॒षा॒म् । श्रेष्ठ᳚म् । यत् । अ॒रि॒प्रम् । आसी᳚त् । प्रे॒णा । तत् । ए॒षा॒म् । नि॑हि᳚तम् । गुहा᳚ । आ॒विः ॥
▶ सायणभाष्यम् (Sayana Commentary)

बृहस्पत इत्येकादशर्चं तृतीयं सूक्तम् । आङ्गिरसस्य बृहस्पतेरार्षं नवमी जगती शिष्टा दश त्रिष्टुभः। अनेन सूक्तेनर्षिः परमपुरुषार्थसाधनं परब्रह्मज्ञानं स्तुतवान्। अतस्तद्देवत्यमिदम् । उक्तं हि बृहद्देवतायाम् । सुज्ज्योतिः परमं ब्रह्म यद्योगात् समुपाश्नुते। तज्ज्ञानमभितुष्टाव सूक्तेनाथ बृहस्पतिः। बृ. ७-१०४४। इति। अनुक्रान्तं च। ब्रुहस्पते बृहस्पतिर्ज्ञानं तुष्टाव नवमी जगती। सूक्तविनियोगो गतः। देवासुवां हविःषु बृहस्पतिर्वाचस्पतिरित्यस्य प्रथमानुवाक्या। सूत्रितं च। बृहस्पते प्रथमं वाचो अग्रं हंसैरिव सखिभिर्वावद्भिः। आ. ४-११। इति॥

बृहस्पतिरनेन सूक्तेन विदितवेदार्थन्बालान्दृष्ट्वा स्मयमानः स्मात्मानं सम्बोध्याह। हे ब्रुहस्पतेऽन्तरात्मन् प्रथममुत्पत्त्यनन्तरमितरवागुच्चारणात्प्रागेव नामधेयं नाम दधानाः पदार्थेषु निदधाना बाला यत्रैरत प्रेरितवन्तः तद्वाचोऽग्रं भवति। यत्तत तातेत्यादिकं वाक्यं पूर्वमभिधाय पश्चादन्या वाचो वदिष्यन्ति खलु तस्माद्वाचोऽग्रम् । अस्यां दतायामवस्थितान्बालान्पश्य। तथेदानीमेषां श्रेष्ठं प्रशस्यतमं यद्यच्चारिप्रं पापरहितं वेदार्थज्ञानमासित् एषां तज्ज्ञानं गुहा गुहायां निहितं गोप्यं तत्प्रेणा। मकारलोपश्चान्दसः। प्रेम्णाविर्घवति। वेदाभ्यासकाले सरस्वती स्वार्थेमेभ्यः प्रकाशयतीत्यर्थः। एवं विस्मये ब्रुहस्पते प्रथमं वाचो अग्रमित्यादिकमारण्यकमनुसन्धेयम्। ऐ. आ. १-३-६॥१॥

10.71.2
सक्तु᳚मिव॒ तित᳚उना पु॒नन्तो॒ यत्र॒ धीरा॒ मन᳚सा॒ वाच॒मक्र᳚त ।
अत्रा॒ सखा᳚यः स॒ख्यानि᳚ जानते भ॒द्रैषां᳚ ल॒क्ष्मीर्निहि॒ताधि᳚ वा॒चि ॥
▶ पदपाठः (Word-by-word)
सक्तु᳚म्॑इव । तित᳚॑उना । पु॒नन्तः᳚ । यत्र᳚ । धीराः᳚ । मन᳚सा । वाच᳚म् । अक्र᳚त ।
अत्र᳚ । सखा᳚यः । स॒ख्यानि᳚ । जा॒न॒ते॒ । भ॒द्रा । ए॒षा॒म् । ल॒क्ष्मीः । नि॑हि᳚ता । अधि᳚ । वा॒चि ॥
▶ सायणभाष्यम् (Sayana Commentary)

तितौना। परिपुयतेऽनेनेति। यद्वा। तता विस्तृत भृष्टयवा अत्रेति तितौः। तनोतेर्डौः सन्वच्च। उ. ५-५२। इति ड उ प्रत्ययः। सन्वद्भावादित्वम्। उक्तनिर्वचनेन सूर्पेण सक्तुमिव यथा कश्चित्सक्तुं दुर्धावं पुनाति तद्वत् प्रकृतितः प्रत्ययतश्च शब्दानुत्पुनन्तो धीरा धीमन्तो विद्वांसो यत्र यस्मिन्काले विद्वस्तङ्घे वा मनसा प्रज्ञायुक्तेन वाचमक्रत अकृषत कुर्वन्ति। करोतेर्लुङि रुपम्। अत्र तत्र काले सखायः समानख्यानाः शास्त्रादिविषयज्ञानास्ते सख्यानि तेषु भवानि यज्ञानानि जानते। जानन्ति। यद्वा। सखायो वाचा बद्धसख्यास्ते तस्यास्तस्या वाचः सख्यानि जानन्ति। वाक्ययुक्तानभ्युदयांल्लभन्त इत्यर्थः। तस्मादेषां वाचि भद्रा कल्याणी निहिता लक्षीर्भवति। अधिः सप्तम्यर्थद्योतकः। अर्थज्ञानं वाचि पश्याम इत्यर्थः। तितौ परिपवनं भवति ततवद्वा तुन्नवद्वा तिलमात्रतुन्नमिति वा सक्तुमिव तितौनेत्यादि निरुक्तमनुसन्धेयम्। नि. ४-१०॥२॥

10.71.3
य॒ज्ञेन᳚ वा॒चः प᳚द॒वीय᳚माय॒न्तामन्व᳚विन्द॒न्नृषि᳚षु॒ प्रवि᳚ष्टाम् ।
तामा॒भृत्या॒ व्य᳚दधुः पुरु॒त्रा तां स॒प्त रे॒भा अ॒भि सं न᳚वन्ते ॥
▶ पदपाठः (Word-by-word)
य॒ज्ञेन᳚ । वा॒चः । प॒द॒॑वीय᳚म् । आ॒य॒न् । ताम् । अनु᳚ । अ॒वि॒न्द॒न् । ऋषि᳚षु । प्र॑वि᳚ष्टाम् ।
ताम् । आ॒॑भृत्य᳚ । वि । अ॒द॒धुः॒ । पु॒रु॒॑त्रा । ताम् । स॒प्त । रे॒भाः । अ॒भि । सम् । न॒व॒न्ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वाग्देवत्यपशोर्वपापुरोडाशयोर्यज्ञेन वाच इत्यादिके द्वे क्रमेन याज्ये। सूत्रितं च। यज्ञेन वाचः पदवीयमायन्निति द्वे देवीं वाचमजनयन्त देवाः। आ. ३-८। इति॥

विदितार्था धीराः पदवीयम् । वेतेरचोयत्। संज्ञापूर्वकस्य विधेरनित्यत्वाद्गुणाभावः। पदेन यातव्यः पन्थाः पदवीयः। तं वाचो मार्गं यज्ञेनायन्। प्राप्तवन्तः। ऋषिष्वतीन्द्रियार्थदर्षिषु प्रविष्टां तां वाचमविन्दन्। अलभन्त। अनन्तरं तां वाचमाभृत्याहृत्य पुरुत्रा बहुषु देशेशु व्यदधुः। व्यकार्षुः। सवान्मनुष्यानध्यापयामासुरित्यर्थः। एतादृशीं वाचं रेभाः शब्दायमानाः पक्षिणः पक्षिरुपाणि गायत्र्यादीनि सप्त छन्दांस्यभि सं नवन्ते। अभितः सङ्गच्छन्ते॥३॥

10.71.4
उ॒त त्व॒ः पश्य॒न्न द᳚दर्श॒ वाच᳚मु॒त त्व᳚ः शृ॒ण्वन्न शृ᳚णोत्येनाम् ।
उ॒तो त्व᳚स्मै त॒न्वं१॒᳚ वि स᳚स्रे जा॒येव॒ पत्य᳚ उश॒ती सु॒वासा᳚ः ॥
▶ पदपाठः (Word-by-word)
उ॒त । त्वः॒ । पश्य᳚न् । न । द॒द॒र्श॒ । वाच᳚म् । उ॒त । त्वः॒ । शृ॒ण्वन् । न । शृ॒णो॒ति॒ । ए॒ना॒म् ।
उ॒तो इति᳚ । त्व॒स्मै॒ । त॒न्व᳚म् । वि । स॒स्रे॒ । जा॒या॑इ᳚व । पत्ये᳚ । उ॒श॒ती । सु॒॑वासाः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

श्वशब्द एकवाची। एकः । उतशब्दोऽप्यर्थे। पश्यन्नपि मनसा पर्यालोचयन्नपि वाचं न ददर्श। दर्शनफलाभावान्न पश्यति। त्व एकः श्वण्वन्नप्येनां वाचं न शृणॊति श्रवणफलाभावात्। इत्यनेनार्धेनाविद्वानभिहितः। तृतीयपादेन विदितवेदार्थमाह। त्वस्मा एकस्मा अपि तन्वमात्मीयं शरीरं वि सस्रे। स्वयं वाग्विविधं गमयति। आत्मानं विवृणुते प्रकाशयतीत्यर्थः। तत्र दृष्टान्तः। जायेव यथोशती सम्भोगं कामयमाना सुवासाः शोभनवसना जाया पत्ये भर्त्र ऋतुकाले सम्भोगार्थं स्वयमात्मानं विवृणुते तद्वदेनाम् पश्यते शृणोति चेति विदित वेदार्थस्य प्रशंसा। अप्येकः पश्यन्न पश्यति वाचमित्यादि निरुक्तमत्र द्रष्टव्यम् । नि. -१-१९॥४॥

10.71.5
उ॒त त्वं᳚ स॒ख्ये स्थि॒रपी᳚तमाहु॒र्नैनं᳚ हिन्व॒न्त्यपि॒ वाजि᳚नेषु ।
अधे᳚न्वा चरति मा॒ययै॒ष वाचं᳚ शुश्रु॒वा{4} अ᳚फ॒लाम᳚पु॒ष्पाम् ॥
▶ पदपाठः (Word-by-word)
उ॒त । त्व॒म् । स॒ख्ये । स्थि॒र॑पी᳚तम् । आ॒हुः॒ । न । ए॒न॒म् । हि॒न्व॒न्ति॒ । अपि᳚ । वाजि᳚नेषु ।
अधे᳚न्वा । च॒र॒ति॒ । मा॒यया᳚ । ए॒षः । वाच᳚म् । शु॒श्रु॒॑वान् । अ॒फ॒लाम् । अ॒पु॒ष्पाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्वमुतैकमपि सख्ये विदुषां संसदि। या सत्कथा सा सखिकर्मत्वात्सख्यमित्युच्यते। सा च वाचा क्रियते। अतो वाक्संबन्धाद्वाक्सख्ये स्थिरपीतं मधु यस्य हृदये स्थितं भवति। यद्वा। स्थिरपीतं स्थिरप्राप्तिमाहुः । यद्वा। तस्मिञ्जातार्थमाहुः। लोके यता ज्ञातार्थं पुरुषं पीतार्थमिति वदन्ति। किञ्चैनं विज्ञाताअर्थं पुरुषं वाजिनेशु। वागिनेश्वा येषां ते वाजिना आर्था वाच आयुत्ताः खलु। वाग्ज्ञेयेष्वर्थेषु नापि हिन्वन्ति। अपिशब्दोऽन्वर्थे। केचिदपि नानुगच्छन्ति। अयमेवातिशयेन विद्वानित्यर्थः। यद्वा। वाजिनेशु सारभूतेशु निरूपणीयेष्वर्थेष्वेनं न हिन्वन्ति। न वहिः कुर्वन्ति। एनं पुरस्कृत्यैव सर्वं वेदार्थं विचारयन्तीत्यर्थः। इत्यर्थज्ञः प्रशस्तः। अनन्तरमुत्तरार्धेन केवलपाठको निन्द्यते। एषोऽविज्ञातार्थः पुरुषोऽधेन्वा धेनुत्वविवर्जितया कामानामदोग्ध्र्या वेवमनुष्यस्थानेषु वाप्रतिरूपाअ मयया चरति। किं कुर्वन्। अफलामपुष्पाम् । वाचोऽर्थः पुष्पफलम् । अर्थवर्जिताम् । यद्वा। वाचोऽर्थो याज्ञदैवते। यज्ञे भवं ज्ञानं दैवतम् । तद्वर्जितं कर्मादिविषयज्ञानवर्जितां वाचं शुश्रुवाञ्श्रुतवान्। केवलं पाठमात्रेणैव श्रुतवान् स चरति। यथा वन्ध्या पीना गौः किं द्रोणमात्रं क्षीरं दोग्धीति मायामुत्पादयन्ती चरति यथा वन्ध्यो वृक्षोऽकाले पल्लवादियुक्तः सन्पुष्यति फलतीति भ्रान्तिमुत्पादयंस्तिष्थति तथा पाठं प्रब्युवाणश्चरतीत्यर्थः। अप्येकं वाक्सख्ये स्थिरपीतमित्यादि निरुक्तमनुसन्धेयम्। नि . १-२०॥५॥

10.71.6
यस्ति॒त्याज᳚ सचि॒विदं॒ सखा᳚यं॒ न तस्य᳚ वा॒च्यपि᳚ भा॒गो अ᳚स्ति ।
यदीं᳚ शृ॒णोत्यल᳚कं शृणोति न॒हि प्र॒वेद᳚ सुकृ॒तस्य॒ पन्था᳚म् ॥
▶ पदपाठः (Word-by-word)
यः । ति॒त्याज᳚ । स॒चि॒॑विद᳚म् । सखा᳚यम् । न । तस्य᳚ । वा॒चि । अपि᳚ । भा॒गः । अ॒स्ति॒ ।
यत् । ई॒म् । शृ॒णोति᳚ । अल᳚कम् । शृ॒णो॒ति॒ । न॒हि । प्र॒॑वेद᳚ । सु॒॑कृ॒तस्य᳚ । पन्था᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सचिविदम् । शचिशब्दः सखिवाची। सखिविदम्। योऽध्येता स वेदस्य सखा सम्पदायोच्छेदनिवारकत्वेन वेदं प्रत्युपकारित्वत्। तादृशमुपकारिनमध्येतारं वेत्तीति सचिवित् तमभिज्ञं सखायमध्येतॄणाम् पुरुषाणां सार्थबोधनेनोपकारित्वात्सखिभूतं वेदं यः पुमांस्तित्याज परार्थविनियोगेन परित्यजति। त्यजतेर्लिट्यपस्पैधेथामानृचुरित्यादिना निपातितः। तस्य पुरुषस्य वाचि सर्वस्यां लौकिक्यां शास्त्रीयायां वाच्यपि भागो भजनीयः कश्चिदर्थो नास्ति। ईमयं पुरुषो यद्वेदव्यतिरिक्तं शृणोति तदलकमलीकं व्यर्थमेव शृणॊति। हि यस्मात्कारणात्सुकृतस्य पन्थां पन्थानं न प्रवेद। श्रद्धाराहित्यदनुष्थानमार्गं न जानाति। तस्मात्तदीयशरवणमपि निश्फलमित्यर्थः। द्वितीयचतुर्थाअदयोरभिप्राय आरण्यके दर्शितो न तस्यानूक्ते भागोऽस्तीत्यादिना । ऐ. आ. ३-२-४। तथा तम् योनूत्सृजत्यभागो वाचि भवत्यभागो नाके तदेषभ्युक्ता। तै. आ. २-१५-५॥ इत्यध्वर्युभिश्च॥६॥

10.71.7
अ॒क्ष॒ण्वन्त॒ः कर्ण᳚वन्त॒ः सखा᳚यो मनोज॒वेष्वस᳚मा बभूवुः ।
आ॒द॒घ्नास᳚ उपक॒क्षास᳚ उ त्वे ह्र॒दा इ᳚व॒ स्नात्वा᳚ उ त्वे ददृश्रे ॥
▶ पदपाठः (Word-by-word)
अ॒क्ष॒ण्॑वन्तः᳚ । कर्ण᳚॑वन्तः । सखा᳚यः । म॒नः॒॑ज॒वेषु᳚ । अस᳚माः । ब॒भू॒वुः॒ ।
आ॒द॒घ्नासः᳚ । उ॒प॒॑क॒क्षासः᳚ । ऊं॒ इति᳚ । त्वे॒ । ह्र॒दाः॑इ᳚व । स्नात्वाः᳚ । ऊं॒ इति᳚ । त्वे॒ । द॒दृ॒श्रे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अक्षण्वन्तोऽक्षिमन्तः। छन्दस्यपि दृश्यत इत्यक्शिशब्दादनङ्। अनो नुदिति नुट्। अनेन दृश्यते सर्वमित्यक्शि। यद्वा। तैजसत्वादन्येभ्योऽङ्गेभ्यो व्यक्ततरम्। तथा च श्रूयते। तस्मादेते व्यक्ततरे इवेति। तादृशाक्षियुक्ताः। कर्णवन्तः। कर्णॊनिक्रुत्तद्वारः। बर्भावस्थायामेव केनापि निर्मितबिल इत्यर्थः। यद्वा। शरीरस्य शिरसो वोर्ध्वं गते उच्चैः स्थिते। कर्णविलक्षणाकाशवन्तह् तथा चाम्नायते। ऋच्छन्ती इव खे उदगन्तामिति। तादृशाः सखायः। समानं ख्यानं ज्ञानं येशामिति सखायः। तेषु वाक्येषु बाह्येष्विन्द्रियेशु समानज्ञाना इत्यर्थः। ते मनोजवेशु। मनसा गम्यन्ते ज्ञायन्त इति मनोजवाः प्रज्ञाद्याः। तेष्वसमा अतुल्या बभूवुः। भवन्ति। तेषु मध्ये केचिदादघ्नासः। आस्यशब्दस्य पृषोदरादित्वादाकारादेशः। आस्यदघ्ना आस्यप्रमाणोदका ह्रदा इवेति मध्यमप्रज्ञानाह। अथ त्व एके। सर्वनामत्वाज्जसः शीभाअः। उपकक्षासः कक्षसमीपप्रमाणोदका ह्रदा इव। अल्पोदका इत्यर्थः। अनेनाल्पप्रज्ञानाह। तथा त्व एके स्नात्वाः। स्नातेः कृत्यर्थे त्वन्प्रत्ययः। पा. ३-४-१४। स चार्हे कृत्यतृचश्च। पा. ३-३-१६९। इत्यर्हार्थे च भवति। स्नानार्हा अक्षोभ्योदका ह्रदा इव वदृश्रे। दृश्यन्ते। अनेन महाप्रज्ञानाह। उः पूरणः। अक्षिमन्तः ळर्णवन्तः सखायोऽक्शि चष्टेरित्यादिकं निरुक्तमन्त्रे द्रष्टव्यम् । नि. १-९॥७॥

10.71.8
हृ॒दा त॒ष्टेषु॒ मन᳚सो ज॒वेषु॒ यद्ब्रा᳚ह्म॒णाः सं॒यज᳚न्ते॒ सखा᳚यः ।
अत्राह᳚ त्वं॒ वि ज᳚हुर्वे॒द्याभि॒रोह᳚ब्रह्माणो॒ वि च᳚रन्त्यु त्वे ॥
▶ पदपाठः (Word-by-word)
हृ॒दा । त॒ष्टेषु᳚ । मन᳚सः । ज॒वेषु᳚ । यत् । ब्रा॒ह्म॒णाः । स॒म्॑यज᳚न्ते । सखा᳚यः ।
अत्र᳚ । अह᳚ । त्व॒म् । वि । ज॒हुः॒ । वे॒द्याभिः᳚ । ओह᳚॑ब्रह्माणः । वि । च॒र॒न्ति॒ । ऊं॒ इति᳚ । त्वे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सखायः समानख्याना ब्राह्मणा हृदा बुद्धिमतां हृदयेन तष्टेषु निश्चितेषु परिकल्पितेषु मनसो जवेषु गन्तव्येषु वेदार्थेषु गुणदोषनिरूपणा यद्यदा संयजन्ते सङ्गच्छन्ते। यजिरत्र सङ्गतिकरनवाची। अत्रास्मिन्ब्राह्मणसङ्घे त्वमविज्ञातार्थमेकं पुरुषं वेद्याभिर्वेदितव्याभिर्विद्याभिः प्रवृत्तिभिर्वा वि जहुः। विशेशेण परित्यजन्ति। अहेति विनिश्चये। ओहब्रह्मानः। ऊह्यमानं ब्रह्म विद्याश्रुतिमतिबुद्धिलक्षणं येशां ते तथोक्ताः। तादृशास्त एके विद्वांसो वि चरन्ति। यथाकामं वेदार्थेषु विनिश्चयार्थं प्रवर्तन्ते। उः प्रसिद्धौ। हृदा तष्टेषु मनसां जवेष्वित्यादिकं निरुक्तं द्रष्टव्यम्। नि. १३-१३॥८॥

10.71.9
इ॒मे ये नार्वाङ्न प॒रश्चर᳚न्ति॒ न ब्रा᳚ह्म॒णासो॒ न सु॒तेक᳚रासः ।
त ए॒ते वाच᳚मभि॒पद्य᳚ पा॒पया᳚ सि॒रीस्तन्त्रं᳚ तन्वते॒ अप्र᳚जज्ञयः ॥
▶ पदपाठः (Word-by-word)
इ॒मे । ये । न । अ॒र्वाक् । न । प॒रः । चर᳚न्ति । न । ब्रा॒ह्म॒णासः᳚ । न । सु॒ते॑क᳚रासः ।
ते । ए॒ते । वाच᳚म् । अ॒भि॒॑पद्य᳚ । पा॒पया᳚ । सि॒रीः । तन्त्र᳚म् । त॒न्व॒ते॒ । अप्र᳚॑जज्ञयः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनया वेदार्थानभिज्ञा निन्द्यन्ते। इमे येऽविद्वांसोऽर्वागर्वाचीनमधोभाविन्यस्मिन्लोके ब्राह्मणैः सह न चरन्ति ये परह् परस्ताद्देवैः सह न चरन्ति ते ब्राह्मणासो ब्राह्मणा वेदार्थतत्परा न भवन्ति। तथा सुतेकरासः सोमम् सुतमभिषुतं कुर्वन्तीति सुतेकरा ऋत्विजः। तेपि न भवन्ति। अप्रजज्ञयः। जानातेरादृगमहन इति किरत्ययः। अविद्वांसस्त एते मनुष्या वाचम् लोइकिकीमभिपद्यप्राप्य तया पापाय पापकारिण्या वाचा युक्तास्ते सिरीः। छन्दसीवनिपावितीप्रत्ययः सुपां सुलुगिति जसः सुः। सीरिणो भुत्वा तन्त्रम् कृषिलक्शनं तन्वते। विस्तारयन्ति। कुर्वन्तीत्यर्थः। सर्वथा वेदार्थो ज्ञेय इत्यभिप्रायः॥९॥

10.71.10
सर्वे᳚ नन्दन्ति य॒शसाग᳚तेन सभासा॒हेन॒ सख्या॒ सखा᳚यः ।
कि॒ल्बि॒ष॒स्पृत्पि᳚तु॒षणि॒र्ह्ये᳚षा॒मरं᳚ हि॒तो भव᳚ति॒ वाजि᳚नाय ॥
▶ पदपाठः (Word-by-word)
सर्वे᳚ । न॒न्द॒न्ति॒ । य॒शसा᳚ । आ॑ग᳚तेन । स॒भा॒॑सा॒हेन᳚ । सख्या᳚ । सखा᳚यः ।
कि॒ल्बि॒ष॒॑स्पृत् । पि॒तु॒॑सनिः᳚ । हि । ए॒षा॒म् । अर᳚म् । हि॒तः । भव᳚ति । वाजि᳚नाय ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोम प्रवहणे सर्वे नन्दन्तीत्येषा। सुत्रितं च। सोम यास्ते मयो भुव इति तिस्रः सर्वे नन्दन्ति यशसागतेन। आ. ४-४-। इति।

सखाय समानख्यानाः समानज्ञानाह् सर्वे सभ्या मनुष्याः सभासहेन सभाम् सोढुं शक्नुवता सख्यर्त्विजां प्रतिभुतेन यज्ञं प्रत्यागतेन यशसा यशस्विना सोमेन हेतुना नन्दन्ति। हृष्टा भवन्ति। स हि स एव सोम एषां जनानां किल्बिषस्पृत्। यः स्वस्मादन्यः पुरुषह् श्रॆष्ठतामश्नुते स किल्बिषं भवति बाध्यत्वेन। यथा पापं सदाचारैर्बाधितव्यं भवति तद्वत्। पापरूपस्य शत्रोर्बाधकः। यद्वा। यज्ञे साध्वनुप्रवचनाकरणेन यत्किल्बिषम् येषां सञ्जायते तद्यो बाधते स किल्बिषस्पृत् तथा त्वं पितुषणीः। पितुरित्यन्ननाम दक्षिणा वा। तमनेन सोमेन सनोति यजमानः सम्भजत इति तादृशः तेषामन्नदक्षणादातेत्यर्थः। किञ्च। हितः। पात्रेषु निहितः सोमो वाजिनाय। इन्द्रियं वीर्यं वाजिनम् । तेषां वीर्याय तत्कर्तुमरमलं पर्याप्तः समर्थो भवति। सर्वे नन्दन्ति यशसागतेनेत्यन्वाह यशो वै सोमो राजेत्यादिकमिन्द्रियं वै वीर्यं वाजिनमाजरसं हास्मै वाजिनं नापच्छिद्यत इत्यन्तं ब्राह्मणमत्रानुसन्धेयम्। ऐ. ब्रा. १-१३॥१०॥

10.71.11
ऋ॒चां त्व॒ः पोष᳚मास्ते पुपु॒ष्वान्गा᳚य॒त्रं त्वो᳚ गायति॒ शक्व᳚रीषु ।
ब्र॒ह्मा त्वो॒ वद᳚ति जातवि॒द्यां य॒ज्ञस्य॒ मात्रां॒ वि मि᳚मीत उ त्वः ॥
▶ पदपाठः (Word-by-word)
ऋ॒चाम् । त्वः॒ । पोष᳚म् । आ॒स्ते॒ । पु॒पु॒ष्वान् । गा॒य॒त्रम् । त्वः॒ । गा॒य॒ति॒ । शक्व᳚रीषु ।
ब्र॒ह्मा । त्वः॒ । वद᳚ति । जा॒त॒॑वि॒द्याम् । य॒ज्ञस्य᳚ । मात्रा᳚म् । वि । मि॒मी॒ते॒ । ऊं॒ इति᳚ । त्वः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनया होत्राद्यृत्विक्कर्मणाम् विनियोगमाचष्टे। त्व एको होतर्चां पोषं यथाविधि कर्मणि प्रयोगं पुपुष्वान्। एको धातुरनुवादार्थः। बह्वीरृचः पुष्यञ्यंसन्नास्ते। त्व एक उद्गाता शक्वरीषु। शक्वर्य ऋचः। आभिरृग्भिर्वृत्रं हन्तुमिन्द्रः समर्थोऽभूदिति शक्वर्यः। तासु गायत्रं साम गायति। त्व एको ब्रह्मा च जातविद्यां जाते जाते कर्तव्ये प्रायश्चित्तादौ वेदयित्रीं वाचं वदति। ब्राह्महि सर्वं वेदितुं योग्यो भवति खलु। चादिलोपे विभाषेति न निघातः। त्व एकोऽध्वर्युश्च यज्ञस्य मात्रां यज्ञो यया मीयतेऽभिषवग्रहणादिकया क्रियया ताम् मात्रां यज्ञशरीरं विमिमीते। अत्यर्थः निर्मिमीते। ऋचामेकः पोषमास्ते पुपुष्वान् होतर्गर्चनी। नि. १-८। इत्यादिनिरुक्तानुसारेणार्थोऽब्ह्यधायि। एवं ब्रुहस्पतिर्विदितवेदार्थम् तुष्टाव॥११॥

वेदार्थस्य प्रकाशेन तमे हार्दं निवारयन्। पुमार्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तक श्री वीरबुक्कभुपाल साम्राज्य धुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थ प्रकाशे ऋक्संहिताभाष्ये

अष्टमाष्टके द्वितीयोऽध्यायः समाप्तः॥