दशमं मण्डलम् - सूक्तम् 47

8 ऋचः

ऋषिः: सप्तगुः देवता: इंद्रो वैकुंठः छन्दः: त्रिष्टुप्

सूक्तम् 10.47 - सम्पूर्णम्

1 / 8
ऋक्: 10.47.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (8)
10.47.1
ज॒गृ॒भ्मा ते॒ दक्षि᳚णमिन्द्र॒ हस्तं᳚ वसू॒यवो᳚ वसुपते॒ वसू᳚नाम् ।
वि॒द्मा हि त्वा॒ गोप᳚तिं शूर॒ गोना᳚म॒स्मभ्यं᳚ चि॒त्रं वृष᳚णं र॒यिं दा᳚ः ॥
▶ पदपाठः (Word-by-word)
ज॒गृ॒भ्म । ते॒ । दक्षि᳚णम् । इ॒न्द्र॒ । हस्त᳚म् । व॒सु॒॑यवः᳚ । व॒सु॒॑प॒ते॒ । वसू᳚नाम् ।
वि॒द्म । हि । त्वा॒ । गो॑प᳚तिम् । शू॒र॒ । गोना᳚म् । अ॒स्मभ्य᳚म् । चि॒त्रम् । वृष᳚णम् । र॒यिम् । दाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

जग्भ्मा त इत्यष्टर्चं पञ्चमं सूक्तमाङ्गिरसस्य सप्तगुनाम्न आर्षं त्रैष्टुभम् । विकुण्ठा नामासुरस्त्री। सा चेन्द्रसदृशं पुत्रं कामयमाना कृच्छ्र चान्द्रायणादिकं तपस्तेपे। मत्सिदैशोऽन्यः कश्चिन्मा जनिष्टेति बुद्ध्वेन्द्र एव तस्याः पुत्रोऽजायत। तादृशो वैकुण्ठ इन्द्रो देवता। तथा चानुक्रान्तम्। जगृभ्माष्टौ सप्तगुर्वैकुण्ठमिन्द्रं तुष्टावेत्यादि। गतो विनियोगः॥

वसूनां वसुपते बहूनां धनानां स्वामिन्निन्द्र ते तव दक्षिणं हस्तं वसूयवो वसुकामा वयं जगृभ्म गृह्णीमः। यथा बहुप्रदस्यार्थिनो मह्यमदत्त्वा न गन्तव्यमिति हस्तं गृह्णन्ति तद्वत्। हे शूर विक्रान्तेन्द्र त्वा त्वां गोनां गोपतिम् । अत्र व्रुत्त्यवृत्तिभ्यां स्वामित्वं बहुत्वं च प्रतिपाद्यते। बह्वीणां गवां गोपतिं विद्म। जानीमः। अतोऽस्मभ्यं चित्रं चायनीयं व्रुषणं वर्षकं रयिं धनं दाः। देहि॥१॥

10.47.2
स्वा॒यु॒धं स्वव᳚सं सुनी॒थं चतु᳚ःसमुद्रं ध॒रुणं᳚ रयी॒णाम् ।
च॒र्कृत्यं॒ शंस्यं॒ भूरि᳚वारम॒स्मभ्यं᳚ चि॒त्रं वृष᳚णं र॒यिं दा᳚ः ॥
▶ पदपाठः (Word-by-word)
सु॒॑आ॒यु॒धम् । सु॒॑अव᳚सम् । सु॒॑नी॒थम् । चतुः᳚॑समुद्रम् । ध॒रुण᳚म् । र॒यी॒णाम् ।
च॒र्कृत्य᳚म् । शंस्य᳚म् । भूरि᳚॑वारम् । अ॒स्मभ्य᳚म् । चि॒त्रम् । वृष᳚णम् । र॒यिम् । दाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्वायुधं शोभनवज्राद्यायुधं स्ववसं शोभनरक्षनम् सुगमनं वा सुनीथं सुनयनं चतुः समुद्रं चतुरः समुद्रान्यो यशसा व्याप्नोति तं धरुणं धारकं केषाम्। रयीणां धनानाम्। चर्कृत्यं पुनः पुनः कर्तव्यं शंस्यं स्तुत्यं भूरिवारं भूरीणां दुःखानां वारकं बहुभिर्वरणीयं वा त्वां विद्मेति शेषः। तादृशोऽस्मभ्यमित्यादि पूर्ववत्। यद्वा। हे इन्द्र उक्तगुणविशिष्टं पुत्राख्यं रयिं दाः। देहि॥२॥

10.47.3
सु॒ब्रह्मा᳚णं दे॒वव᳚न्तं बृ॒हन्त᳚मु॒रुं ग᳚भी॒रं पृ॒थुबु᳚ध्नमिन्द्र ।
श्रु॒तऋ᳚षिमु॒ग्रम᳚भिमाति॒षाह᳚म॒स्मभ्यं᳚ चि॒त्रं वृष᳚णं र॒यिं दा᳚ः ॥
▶ पदपाठः (Word-by-word)
सु॒॑ब्रह्मा᳚णम् । दे॒व॑व᳚न्तम् । बृ॒हन्त᳚म् । उ॒रुम् । ग॒भी॒रम् । पृ॒थु॑बु᳚ध्नम् । इ॒न्द्र॒ ।
श्रु॒त॑ऋ᳚षिम् । उ॒ग्रम् । अ॒भि॒मा॒ति॒॑सह᳚म् । अ॒स्मभ्य᳚म् । चि॒त्रम् । वृष᳚णम् । र॒यिम् । दाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं सुब्रह्माणम् । ब्रह्म परिवृढं स्तुति लक्षनं कर्म। शोभनस्तुतिकमित्यर्थः। देववन्तं बृहन्तं महान्तमुरुं विस्तीर्णं गम्भीरमसुरादिभिरगम्यं पृथुबुध्नं विस्तृतमूलं श्रुतऋषिं श्रुता ऋषयो येन तादृशमृषीणां ख्यापयितारं प्रथितज्ञानं वोग्रमुद्गूर्णबलं अत एवाभिमातिषाहमभिमातीनां शत्रूणामभिभवितारं हन्तारमस्मभ्यं चित्रं पूज्यं वृषणं वर्षक्वं पुत्रं रयिं धनं दाः। देहि। अथवा विशेषणविशेष्यभावः। उक्तलक्षणं पुत्राख्यं रयिं दाः॥३॥

10.47.4
स॒नद्वा᳚जं॒ विप्र᳚वीरं॒ तरु᳚त्रं धन॒स्पृतं᳚ शूशु॒वांसं᳚ सु॒दक्ष᳚म् ।
द॒स्यु॒हनं᳚ पू॒र्भिद᳚मिन्द्र स॒त्यम॒स्मभ्यं᳚ चि॒त्रं वृष᳚णं र॒यिं दा᳚ः ॥
▶ पदपाठः (Word-by-word)
स॒नत्॑वा᳚जम् । विप्र᳚॑वीरम् । तरु᳚त्रम् । ध॒न॒॑स्पृत᳚म् । शू॒शु॒॑वांस᳚म् । सु॒॑दक्ष᳚म् ।
द॒स्यु॒हन᳚म् । पूः॒॑भिद᳚म् । इ॒न्द्र॒ । स॒त्यम् । अ॒स्मभ्य᳚म् । चि॒त्रम् । वृष᳚णम् । र॒यिम् । दाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सनद्वाजं लब्धान्नं विप्रवीरं मेधाविनं पुत्रं तरुत्रं तारकं धनस्पैतं धनानां पूरकं स्प्रष्टारं वा। स्पृणतेः स्पृशतेर्वोत्तरपदम् । शूशुवांसं वर्धमानं सुदक्षं शोभनबलं दस्तुहनं शत्रूणां हन्तारं पूर्भिदं शत्रूणां पुरां भेत्तारं सत्यं सत्यकर्माणम् । शिष्टमुक्तं॥४॥

10.47.5
अश्वा᳚वन्तं र॒थिनं᳚ वी॒रव᳚न्तं सह॒स्रिणं᳚ श॒तिनं॒ वाज᳚मिन्द्र ।
भ॒द्रव्रा᳚तं॒ विप्र᳚वीरं स्व॒र्षाम॒स्मभ्यं᳚ चि॒त्रं वृष᳚णं र॒यिं दा᳚ः ॥
▶ पदपाठः (Word-by-word)
अश्व᳚॑वन्तम् । र॒थिन᳚म् । वी॒र॑व᳚न्तम् । स॒ह॒स्रिण᳚म् । श॒तिन᳚म् । वाज᳚म् । इ॒न्द्र॒ ।
भ॒द्र॑व्रा᳚तम् । विप्र᳚॑वीरम् । स्वः॒॑साम् । अ॒स्मभ्य᳚म् । चि॒त्रम् । वृष᳚णम् । र॒यिम् । दाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अश्वावन्तम् बहुभिरश्वैरुपेतं रथिनं रथवन्तं वीरवन्तं वीरैः पुरुषैरुपेतं सहस्रिणं सहस्रवन्तं शतिनं शतवन्तम् । असंख्यातगवादियुक्तमित्यर्थः। भद्रव्रातं भद्रगणं कल्याण्यैः सेवकैः परिवृतं विप्रवीरं विप्रैर्वीरैश्चोपेतं स्पर्षां सर्वस सम्भक्तारं वाजं बलवन्तं हे इन्द्र। शिष्टमुक्तं॥५॥

10.47.6
प्र स॒प्तगु᳚मृ॒तधी᳚तिं सुमे॒धां बृह॒स्पतिं᳚ म॒तिरच्छा᳚ जिगाति ।
य आ᳚ङ्गिर॒सो नम᳚सोप॒सद्यो॒॑स्मभ्यं᳚ चि॒त्रं वृष᳚णं र॒यिं दा᳚ः ॥
▶ पदपाठः (Word-by-word)
प्र । स॒प्त॑गु᳚म् । ऋ॒त॑धी᳚तिम् । सु॒॑मे॒धाम् । बृह॒स्पति᳚म् । म॒तिः । अच्छ᳚ । जि॒गा॒ति॒ ।
यः । आ॒ङ्गि॒र॒सः । नम᳚सा । उ॒प॒॑सद्यः᳚ । अ॒स्मभ्य᳚म् । चि॒त्रम् । वृष᳚णम् । र॒यिम् । दाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सप्तगुं मां मतिः स्तुतिर्देवविषयाच्छ जिगाति। कीदृषं सप्तगुम् । ऋतधीतिं सत्यकर्माणं सुमेधां शोभनप्रज्ञं बृहस्पतिं बृहतो मन्त्रस्य स्वामिनं य सप्तगुराङ्गिरसोऽङ्गिरोगोत्रोत्पन्नोऽहं नमसा समस्कारेण देवानुपसदः। उपगतः। यद्वा। नमसान्नेनोपसद्य उपसदनीयः। देवैरनुग्राह्य इत्यर्थः। ताद्रुशायास्मभ्यं मह्यं चित्रं वृषणं रयिं दाः॥६॥

10.47.7
वनी᳚वानो॒ मम᳚ दू॒तास॒ इन्द्रं॒ स्तोमा᳚श्चरन्ति सुम॒तीरि᳚या॒नाः ।
हृ॒दि॒स्पृशो॒ मन᳚सा व॒च्यमा᳚ना अ॒स्मभ्यं᳚ चि॒त्रं वृष᳚णं र॒यिं दा᳚ः ॥
▶ पदपाठः (Word-by-word)
वनी᳚वानः । मम᳚ । दू॒तासः᳚ । इन्द्र᳚म् । सोमाः᳚ । च॒र॒न्ति॒ । सु॒॑म॒तीः । इ॒या॒नाः ।
हृ॒दि॒॑स्पृशः᳚ । मन᳚सा । व॒च्यमा᳚नाः । अ॒स्मभ्य᳚म् । चि॒त्रम् । वृष᳚णम् । र॒यिम् । दाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वनीवानो वननवन्तः। छन्दसीवनिपाविति मत्वर्थीयोवनिप्। मम सप्तगोर्दूतासो दूतसदृशाः दूता यथा भर्तुरभिमतार्थं प्रापणीयं प्रापयन्ति तद्वत्स्तुत्यान्गुणान्प्रापयन्तः स्तोमाः स्तवाः सुमतीस्तस्येन्द्रस्यास्मद्विषया अनुकूला बुद्धीरियाना याचमाना इन्द्रं चरन्ति। प्राप्नुवन्ति। पुनश्च त एव विशेष्यन्ते। हृदिस्पृशो हृदये स्पृशन्तः। स्तुत्यस्य प्रियभूता इत्यर्थः। हृद्द्युभ्यामित्युपसङ्ख्यानात् ङेरलुक्। मनसा सत्त्वोद्रिक्तेन वच्यमाना उच्यमानाः। अस्मभ्यमित्यादि गतम्॥७॥

10.47.8
यत्त्वा॒ यामि᳚ द॒द्धि तन्न᳚ इन्द्र बृ॒हन्तं॒ क्षय॒मस᳚मं॒ जना᳚नाम् ।
अ॒भि तद्द्यावा᳚पृथि॒वी गृ᳚णीताम॒स्मभ्यं᳚ चि॒त्रं वृष᳚णं र॒यिं दा᳚ः ॥
▶ पदपाठः (Word-by-word)
यत् । त्वा॒ । यामि᳚ । द॒द्धि । तत् । नः॒ । इ॒न्द्र॒ । बृ॒हन्त᳚म् । क्षय᳚म् । अस᳚मम् । जना᳚नाम् ।
अ॒भि । तत् । द्यावा᳚पृथि॒वी इति᳚ । गृ॒णी॒ता॒म् । अ॒स्मभ्य᳚म् । चि॒त्रम् । वृष᳚णम् । र॒यिम् । दाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वा त्वां यद्वक्षमाणं यामि याचामि। वर्णलोपश्छान्दसः। याच्यमानं तद्दद्धि। देहि। ददातेर्लोटि व्यत्ययेन परस्मैपदम् । बहुलं छन्दसीति शपो लुक्। तदिति सामान्येन निर्दिष्टं विशेषयति। बृहन्तं महान्तं क्षयं निवासं जनानामन्येषामसममसाधारणं देहि। त्वया दातव्यं द्यावापृथिवी अभि गृणीताम् । अस्मभ्यमित्यादि गतं॥८॥