दशमं मण्डलम् - सूक्तम् 135

7 ऋचः

ऋषिः: कुमारो यामायनः देवता: यमः छन्दः: अनुष्टुप्

सूक्तम् 10.135 - सम्पूर्णम्

1 / 7
ऋक्: 10.135.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
10.135.1
यस्मि᳚न्वृ॒क्षे सु᳚पला॒शे दे॒वैः स॒म्पिब᳚ते य॒मः ।
अत्रा᳚ नो वि॒श्पति᳚ः पि॒ता पु᳚रा॒णा{4} अनु᳚ वेनति ॥
▶ पदपाठः (Word-by-word)
यस्मि᳚न् । वृ॒क्षे । सु॒॑प॒ला॒शे । दे॒वैः । स॒म्॑पिब᳚ते । य॒मः ।
अत्र᳚ । नः॒ । वि॒श्पतिः᳚ । पि॒ता । पु॒रा॒णान् । अनु᳚ । वे॒न॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्मिन्निति सप्तर्चं सप्तमं सूक्तं यमगोत्रस्य कुमारस्यार्षम्। आनुष्टुभम् यमदेवत्यम्। तथा चानुक्रान्तम्। यस्मिन्कुमारो यामायनो यममानुष्टुभं त्विति॥

वृक्षे। लुप्तोपममेतत्। वृक्षवत्सुपलाशे शोभनपालशोपेते शोभनोद्यानसहिते। यद्वा। शोभनपर्णोपेते वृक्षे। तादृशस्य वृक्षस्य मुलं यथौष्ण्यजनितश्रमापनोदनेन सुखकरं भवति तद्वत्सुखकरे यस्मिन्स्थाने देवैः परिजनभूतैरमो नियन्ता वैवस्वतः सम्पिबते सह भुङ्क्ते। पिबतीत्यर्थः। विश्पतिर्विशाम्प्रजानामधिपतिः पिता नः। व्यत्ययेन बहुवचनम्। मम नचिकेतसो जनको वाजश्रवसोऽत्रास्मिन्यमस्य स्थाने पुराणान्पुरातनानत्र चिरकालं निवसतः पितॄननु तेषां पश्चात्तत्समीपे निवसत्वयमिति वेनति। मां कामयते। निचिकेता नाम कुमारो वाजश्रवसेन पित्रा यमलोकं प्रस्थापितः सन् यमं दृष्ट्वाप्रसाद्य पुनरपीमं लोकमाजगाम। अयमर्थ इदमादिकैर्मन्त्रैः प्रतिपाद्यते। यद्वा। कुमारो नाम नचीकेतसोऽन्यः कश्चिदृषिः। य्स्च्छतीति यम आदित्यः। शमनेन सूक्तेन तुष्टाव। सुपलाशे व्रुक्ष इव यस्मिञ्शोभने स्थाने यम आदित्यो देवैः। दीव्यन्तीति देवा रश्मयः। तैः सम्पिबते सङ्गच्छते। उपसर्गवशात्पिबतिरत्र गत्यर्थः। व्यत्ययेनात्मनेपदम्। अत्रास्मिन्स्थाने स्थितो विश्पतिर्विशां प्रजानां प्रकाशनप्रवर्शानादिना पालयिता प्रानात्मना सर्वेषां जनकह् स आदित्यह् पुराणांश्चिरन्तनान् स्तोतॄन्नोऽस्मानपि वेनति। अनुग्राह्यत्वेन कामयते। यद्व अत्र स्थाने स्थितान्नोऽस्माकं पुराणान्पूर्वपुरुषाननु वेनति। अनुक्रमेण कामयते॥१॥

10.135.2
पु॒रा॒णा{4} अ᳚नु॒वेन᳚न्तं॒ चर᳚न्तं पा॒पया᳚मु॒या ।
अ॒सू॒यन्न॒भ्य᳚चाकशं॒ तस्मा᳚ अस्पृहयं॒ पुनः᳚ ॥
▶ पदपाठः (Word-by-word)
पु॒रा॒णान् । अ॒नु॒॑वेन᳚न्तम् । चर᳚न्तम् । पा॒पया᳚ । अ॒मु॒या ।
अ॒सू॒यन् । अ॒भि । अ॒चा॒क॒श॒म् । तस्मै᳚ । अ॒स्पृ॒ह॒य॒म् । पुन॒रिति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुरानान्पुरातनान्पितॄननुवेनन्तं मामनुगतम् कामयमानममुयानया पापया निकृष्तया बुद्ध्य सह चरन्तं वर्तमानं पितरं वाजश्रवसमसूयन् सुखेन जीवन्तं मां मृत्युसमीपं प्रेईत्युक्तवानिति मानसेनोपतापेन युक्तः सन् प्रथममभ्यचकशम् । अयं पश्यतिकर्मा। अभ्यपश्यम् । असुञ् मानस उपतापे। कण्ड्वादिः। पुनः पश्चात्तस्मा अस्पृहयम् । पितुराज्ञया तं म्रुत्युं प्राप्तुमैच्छम्। स्पृह ईप्सायाम् । चुरादिरदन्तः। स्पृहेरीप्सितः। पा. १-४-३६। इति सम्प्रदानसंज्ञायां तच्छब्दाच्चतुर्थी। यद्वा। पुराणांश्चिरन्तनान् स्तोतॄन्पूर्वपुरुषान्पितॄन्वानुवेनन्तमनुक्रमेण कामयमानं चरन्तमुदयास्तमयाभ्यां दिवि परिवर्तमानमनया पापया निक्रुश्टया सोत्तुमसमर्थया बुद्ध्यासूयन्। गुणेषु दोषाविष्करनमसूया। परकीयगुनेषु दूशनान्याविष्कुर्वन्नभ्यचाकशम् । अयमपि कश्चिदिति सामान्यरूपेणाभ्यपश्यम्। इदानीं शु पुनस्तस्यादित्यस्य माहात्म्यम् जानंस्तस्मा अस्पृहयम् । तमेवादित्यम् स्तुतिभिः परिचरनात्मिकैः कर्मभिश्च प्राप्तुमैच्छम्॥२॥

10.135.3
यं कु᳚मार॒ नवं॒ रथ᳚मच॒क्रं मन॒साकृ᳚णोः ।
एके᳚षं वि॒श्वत॒ः प्राञ्च॒मप᳚श्य॒न्नधि᳚ तिष्ठसि ॥
▶ पदपाठः (Word-by-word)
यम् । कु॒मा॒र॒ । नव᳚म् । रथ᳚म् । अ॒च॒क्रम् । मन᳚सा । अकृ᳚णोः ।
एक᳚॑ईषम् । वि॒श्वतः᳚ । प्राञ्च᳚म् । अप᳚श्यन् । अधि᳚ । ति॒ष्ठ॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नचिकेतः संज्ञं कुमारं यमोऽनयोत्तरया च प्रलोभयति। हे कुमार नवमभिनवमितः पूर्वमदृष्टम्न्। अभिनवत्वमेव व्यनक्ति। अचक्रं चक्ररहितं तमेकेषमेकेषा यस्य तादृशं तथापि विश्वतः सर्वतः प्राञ्चं प्रकर्षेणाञ्चन्तं गच्छन्तं यं रथं मनसाकृणोर्मत्समीपं प्रतिगमनायाध्यवसायात्मकमीदृशं यं रथमकरोः क्रुत्वा चापश्यन् कर्तव्या कर्तव्यविभागमजानन्निधि तिष्थसि। रथमारोहसि। यद्वा। स्तोतारं कुमाराख्यमृषिमादित्यः प्रत्यक्षः सन् देहात्मनोर्विवेकं बोधयति। हे कुमारर्षे चक्ररहितमेकेषम् । एकः प्राण ईषास्थानीयो यस्य। ईदृशमभिनवं सर्वतो गच्छन्तं शरीरात्मकं यं रथं मनसान्तःकरणेनाकृणोः अकरोः। सङ्कल्पात्मकेन मनसा हि कामो जायते। सत्यां हि कामनायां पुण्यापुण्यात्मकं कर्म क्रियते। तेन च भोगप्रदानायेदं शरीरमारभ्यत इति परम्परया मनसः शरीरनिष्पादकत्वम्। तं शरीरात्मकं रथमपश्यन्नजानन्। लक्षनहेत्वोः। पा. ३-२-१२६। इति हेतौ शतृप्रत्ययः। मत्स्वरूपापरिज्ञानाद्धेतोरधितिष्ठसि। भोगायतनत्वेन स्वीकरोषि॥३॥

10.135.4
यं कु᳚मार॒ प्राव᳚र्तयो॒ रथं॒ विप्रे᳚भ्य॒स्परि᳚ ।
तं सामानु॒ प्राव᳚र्तत॒ समि॒तो ना॒व्याहि᳚तम् ॥
▶ पदपाठः (Word-by-word)
यम् । कु॒मा॒र॒ । प्र । अव᳚र्तयः । रथ᳚म् । विप्रे᳚भ्यः । परि᳚ ।
तम् । साम᳚ । अनु᳚ । प्र । अ॒व॒र्त॒त॒ । सम् । इ॒तः । ना॒वि । आ॑हि᳚तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे कुमार नचिकेतः यं पूर्वोक्तमधिष्ठितं रथं प्रावर्तयः मत्समीपं प्रत्यगमयो विप्रेभ्यो मेधाविभ्यः पर्युपरि भूलोके वर्तमानानां मेधाविनां बान्धवानामुपरिष्टात्। अन्तरिक्ष इत्यर्थः। पञ्चम्याः परावध्यर्थ इति विसर्जनीयस्य सत्वम्। तं रथं साम पित्रा कृतं सान्त्वनं यमसमीपं गत्वैवमेव त्वया वक्तव्यमिति प्रत्यागमनकारणमुउपायोपदेशनमनु प्रावर्तत। इतोऽस्माल्लोकादन्वगच्छत्। कथं भूतम्। नावि नौवत्तरणसाधनायां बुद्धौ समाहितं सम्यग्द्धृतम्। यद्वा। हे कुमारर्षे यं शरीरात्मकं रथमधिष्ठितं प्रावर्तयः संसारे प्रवर्तितवानसि मेधाविनां मध्ये तं रथमनु साम। उपलक्षणमेतत्। ऋक्सामादिसाध्यं स्तोत्रं नावि नौवत्तारयित्र्यां वाचि वेदात्मिकायां समाहितं सम्यक्प्रतिपाद्यत्वेन हितं कर्म चेतोऽस्माल्लोकात्प्रावर्तत। प्रव्रुत्तमभूत्। इत्थमात्मस्वरूपापरिज्ञानेन शरीरबन्धनं तेन कर्तव्यं व्यवहारजातं चोक्तम्। अथ तु सत्यज्ञानादि स्वरूपमकर्तारं परमात्मानं यदि स्वात्मतया साक्षात्करोति तदोक्तं न सम्भवतीत्यभिप्रायः॥४॥

10.135.5
कः कु᳚मा॒रम᳚जनय॒द्रथं॒ को निर᳚वर्तयत् ।
कः स्वि॒त्तद॒द्य नो᳚ ब्रूयादनु॒देयी॒ यथाभ᳚वत् ॥
▶ पदपाठः (Word-by-word)
कः । कु॒मा॒रम् । अ॒ज॒न॒य॒त् । रथ᳚म् । कः । निः । अ॒व॒र्त॒य॒त् ।
कः । स्वि॒त् । तत् । अ॒द्य । नः॒ । ब्रू॒या॒त् । अ॒नु॒॑देयी᳚ । यथा᳚ । अभ᳚वत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

कः पुरुष इमं कुमारमजनयत्। अधिक्षेपे किंशब्दः। ईदृशं बालं यमसमीपं प्रहिण्वन् कथं पिता समीचीनः स्यात्। तत्तावदास्ताम्। को वा पुरुषोऽस्य बालस्य यमसमईपं प्रतिगमनाय तं रथंनिरवर्तयत्। निर्वर्तितवान्। सोऽपि मूर्ख इत्यर्थः। यथा येन प्रकारेणायां कुमारोऽनुदेय्यनुदातव्योऽभवत् भवति तत्तदनुगुणम् वचनमुपायकथनमद्यास्मिन्काले नोऽस्माकं कः स्वित् को नाम ब्रूयात्। अभिदध्यात्। प्रथमं यमसमीपं गत्वा पश्चात्ततो निर्गमनोपायं ब्रुवन्नपि न प्राज्ञ इत्यर्थः। अथवा। कुमाराख्य ऋषिरात्मनः सर्वात्म्यमवगच्छन् स्वव्यतिरिक्तस्यान्यस्यासम्भवं किं शब्देनाक्षेपवाचिना दर्शयति। कुमारं मां कः पिताजनयत्। न कोऽपि। अजो नित्यः शाश्वतः । क. उ. २-१८। इति श्रुत्युक्तरूपोऽहं भवामि। कश्च शरीरात्मकं रथं निरवर्तयत्। निर्वर्तयति। मद्व्यतिरिक्तस्य निर्वर्तयितुरभावात् तथा निर्वर्त्यस्यान्यस्यासम्भवाच्च। अद्यास्मिन्काले सर्वात्म्यानुभवदशायां तं तं प्रकारं कः स्वित्को नाम नोऽस्माकं ब्रूयात् यथा येन प्रकारेनानुदेय्यनुदातव्या मद्व्यतिरिक्तान्यपदार्थसत्ताभवत् भवति। स प्रकारोऽपि दुर्वचन इत्यर्थः॥५॥

10.135.6 समानपद
यथाभ᳚वदनु॒देयी॒ ततो॒ अग्र᳚मजायत ।
पु॒रस्ता᳚द्बु॒ध्न आत᳚तः प॒श्चान्नि॒रय᳚णं कृ॒तम् ॥
▶ पदपाठः (Word-by-word)
यथा᳚ । अभ᳚वत् । अ॒नु॒॑देयी᳚ । ततः᳚ । अग्र᳚म् । अ॒जा॒य॒त॒ ।
पु॒रस्ता᳚त् । बु॒ध्नः । आ॑त᳚तः । प॒श्चात् । निः॒॑अय᳚नम् । कृ॒तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनुदेय्यनुदातव्यो यथा येन प्रकारेण पितरमनुलक्ष्यायम् कुमारो यमेन दत्तोऽभवत् भवति तथा ततस्तस्माद्वाजश्रवसात्पितुरग्रं यमसमीपं गच्छेति वचनस्याग्रतो वर्तमानं नचिकेतसा यमेन सह वदितव्यं तं वै प्रवसन्तं गन्तासीति होवाचेत्यादिकम्। तै. ब्रा. ३-११-८-२। ब्राह्मणान्तरोक्तमजायत। प्रादुरभवत्। पितोपदिष्टवानित्यर्थः। पुरस्तात्ततः पूर्वं बुध्न उक्तस्याग्रस्य मूलभूतं यमस्य ग्रुहं प्रतिगच्छेति वचनमाततः। अतिविस्तृतमासीत्। अतस्तदशक्यपरिहारमिति पश्चात्क्रोधं परित्यज्य निरयणं तस्माद्यमान्निर्गमनोपायं कृतम्। पित्राचरितम्। यद्वा। अनुदेय्यात्मानमनु दातव्यात्मस्वरूपव्यतिरिक्तान्यपदार्थसत्ता यथाभवत् भवति तदनुगुणं ततस्तस्मान्मायाविशिष्टादात्मनोऽग्रम् स्रष्टव्यस्य विकारजातस्याद्यं मनस्तत्त्वं सिस्रुक्शाकारणमजायत। उदपद्यत। पुरस्तात्सृष्टेः प्रागवस्थायां बुध्नो मूलमव्याकृतं मायात्मकं कारनमेवाततः। आ समन्तात्ततं विस्तृतमासित्। पश्चात्तमस उत्पत्त्यनन्तरं निरयणं तद्गतानां कार्यानां तस्मात्कारणान्निर्गमनं घटपटादिभेदेन स्वरूपालम्भनं कृतम्। ब्रह्मणा निर्मितम्। तथा मृद्विकारो घटादिर्मृदोऽन्यो नभवति। आदित्यानुग्रहाद्ब्रह्मभावं प्राप्तस्य मम विकारः प्रपञ्चो मदन्यो न भवतीति व्यतिरिक्तस्य पित्रादेराक्षेपः पूर्वोक्तः समर्थितः॥६॥

10.135.7
इ॒दं य॒मस्य॒ साद᳚नं देवमा॒नं यदु॒च्यते᳚ ।
इ॒यम᳚स्य धम्यते ना॒ळीर॒यं गी॒र्भिः परि᳚ष्कृतः ॥
▶ पदपाठः (Word-by-word)
इ॒दम् । य॒मस्य᳚ । सद᳚नम् । दे॒व॒॑मा॒नम् । यत् । उ॒च्यते᳚ ।
इ॒यम् । अ॒स्य॒ । ध॒म्य॒ते॒ । ना॒ळीः । अ॒यम् । गीः॒॑भिः । परि᳚॑कृतः ॥
▶ सायणभाष्यम् (Sayana Commentary)

इदं यमस्य नियन्तुरादित्यस्य वैवस्वतस्य वा सदनं स्थानम् । छान्दसः सांहितिकोदीर्घः। यत्सदनं देवमानं देवैर्निर्मितमित्युच्यते सर्वत्राभिधीयते। यद्वा। देवानां रश्मीनां निर्माणसाधनमिति गीयते। अस्य यमस्य प्रीणनायेयं नाळीर्वाद्यविशेषो वेणुर्धम्यते। वाद्यते। यद्वा। नाळीति वाङ्नाम। इयं स्तुतिरूपा वागस्य प्रीणनाय धम्यते। उच्चार्यते। एवं सत्ययं यमो गीर्भिः स्तुतिभिः परिष्कृतः। आलङ्क्रुतोऽभूत्। सम्पर्युपेभ्य इति सुडागमः। परिनिविभ्य इति षत्वम्। गतिरनन्तर इति गतेः प्रकृतिस्वरत्वम्॥७॥