दशमं मण्डलम् - सूक्तम् 138

6 ऋचः

ऋषिः: अङ्ग औरवः देवता: इंद्रः छन्दः: जगती

सूक्तम् 10.138 - सम्पूर्णम्

1 / 6
ऋक्: 10.138.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
10.138.1 समानपद
तव॒ त्य इ᳚न्द्र स॒ख्येषु॒ वह्न᳚य ऋ॒तं म᳚न्वा॒ना व्य᳚दर्दिरुर्व॒लम् ।
यत्रा᳚ दश॒स्यन्नु॒षसो᳚ रि॒णन्न॒पः कुत्सा᳚य॒ मन्म᳚न्न॒ह्य᳚श्च दं॒सयः᳚ ॥
▶ पदपाठः (Word-by-word)
तव᳚ । त्ये । इ॒न्द्र॒ । स॒ख्येषु᳚ । वह्न᳚यः । ऋ॒तम् । म॒न्वा॒नाः । वि । अ॒द॒र्दि॒रुः॒ । व॒लम् ।
यत्र᳚ । द॒श॒स्यन् । उ॒षसः᳚ । रि॒णन् । आ॒पः । कुत्सा᳚य । मन्म᳚न् । अ॒ह्यः᳚ । च॒ । दं॒सयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तव त्य इति षड्रुचम् दशमं सूक्तमुरुनाम्नः पुत्रस्याङ्गाख्यस्यार्षं जागतमैन्द्रम्। तथा चानुक्रान्तम्। तव त्ये षलङ्ग औरवो जागतमिति। गतो विनियोगः॥

हे इन्द्र तव स्ख्येषु सखित्वेषु सत्सु त्ये ते प्रसिद्धा वह्नयो वोढारो हविषां स्तुतीनां वा अत एवत्रम् यज्ञं मन्वाना अवबुध्यमाना अङ्गिरसो वलं गवामपहर्तारमेतत्संज्ञकमसुरं व्यवर्दिरुः। अथर्थं व्यदारयन्। दॄ विदारणे। अस्माद्यङ् लुगान्ताल्लुङ्। सिजभ्यस्तेतिझेर्जुः। जुसि चेति गुणः। व्यत्ययेनेत्वम्। आपि च यत्र यस्मिन्काले मन्मन् मन्मनि स्तोत्रे सति कुत्साय महर्षय उषस उषह् कालान्व्रुत्रेणावृतत्वात्पूर्वमसत्प्रायांस्तदपनोदनेन दशस्यन्प्रयच्छन् तथापो वृत्रेणावृतान्युदकानि च रिणंस्तस्मान्निर्गमयन्वर्तसे। री गतिरेषणयोः। क्रैयादिकः। प्वादीनां ह्रस्वत्वम्। तदानीमह्योऽहेर्व्रुत्रस्य च दंसयः कर्माणि वितथान्यासन्नित्यर्थः॥१॥

10.138.2
अवा᳚सृजः प्र॒स्व᳚ः श्व॒ञ्चयो᳚ गि॒रीनुदा᳚ज उ॒स्रा अपि᳚बो॒ मधु᳚ प्रि॒यम् ।
अव᳚र्धयो व॒निनो᳚ अस्य॒ दंस᳚सा शु॒शोच॒ सूर्य᳚ ऋ॒तजा᳚तया गि॒रा ॥
▶ पदपाठः (Word-by-word)
अव᳚ । अ॒सृ॒जः॒ । प्र॒॑स्वः᳚ । श्व॒ञ्चयः᳚ । गि॒रीन् । उत् । आ॒जः॒ । उ॒स्राः । अपि᳚बः । मधु᳚ । प्रि॒यम् ।
अव᳚र्धयः । व॒निनः᳚ । अ॒स्य॒ । दंस᳚सा । शु॒शोच᳚ । सूर्यः᳚ । ऋ॒त॑जा᳚तया । गि॒रा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र प्रस्वः। प्रसूतिर्जन्म। तद्धेतुभूता आपोऽवास्रुजः। आवारकान्मेघादधः पातितवानसि। तथा गिरीन्पर्वतान्वलेन गोमतो बिलस्य पिधानायनिहिताञ्श्वंचयः। अभैत्सीरित्यर्थः। श्वचि गतौ। अस्माण्ण्यन्ताल्लङि बहुलं छन्दस्यमाङ्योगेऽपीत्यडभावः। समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः। पा. ८-१-१८-५। इति वचनात्पूर्वपदस्यासमानवाक्यगतत्वेनास्य तिङ्गतिङ इति निघाताभावः। तथा वलासुरेण बिले निहिता उस्रा गाः पर्वतभेदानानन्तरमुदाजः। उदगमयः। ततः पयोदध्याज्यादिकं प्रियमनुकूलं मधुमधुरं हविरपिबः। पीतवानसि। यद्वा। श्रयणसाधनासु तासु गोष्वागतासु यजमानैः प्रियमभीष्टम् मधु सोमात्मकमपिबः। पिबसि। तथा वनिनो वनसंबद्धान्वृक्षान्। यद्वा। वनमित्युदकनाम। तद्युक्तान्समुद्रान् अवर्धयः। वृष्तिप्रदान्न वर्धयसि। ऋजताजया। ऋतं यज्ञम् । तदर्थं जातं जन्म यस्याः तया गिरा वेदात्मिकया वाचा स्तूयमानस्यास्येन्द्रस्य दंससा कर्मणावृण्वतो वृत्रादेरपि नोदनात्मकेन सूर्यः शुशोच। नभसि प्रदिदीपे। यद्वा। ऋतजातया गिरेति सुर्यस्यैव विशेशणम् । त्रयीरूपया वाचा प्रदीप्यत इत्यर्थः। ऋग्भिः पूर्वाह्णे दिवि देव ईयत इत्यादिकं तैत्तिरीयकमंत्रानुसन्धेयम्। तै. ब्रा. ३-१२-९-१। शुशोचेत्यस्य पदात्परत्वेऽपि पादादित्वादपादादाविति पर्युदासस्यानुवृत्तेर्निघाताभावः॥२॥

10.138.3
वि सूर्यो॒ मध्ये᳚ अमुच॒द्रथं᳚ दि॒वो वि॒दद्दा॒साय᳚ प्रति॒मान॒मार्य᳚ः ।
दृ॒ळ्हानि॒ पिप्रो॒रसु᳚रस्य मा॒यिन॒ इन्द्रो॒ व्या᳚स्यच्चकृ॒वा{4} ऋ॒जिश्व᳚ना ॥
▶ पदपाठः (Word-by-word)
वि । सूर्यः᳚ । मध्ये᳚ । अ॒मु॒च॒त् । रथ᳚म् । दि॒वः । वि॒दत् । दा॒साय᳚ । प्र॒ति॒॑मान᳚म् । आर्यः᳚ ।
दृ॒ळ्हानि᳚ । पिप्रोः᳚ । असु᳚रस्य । मा॒यिनः᳚ । इन्द्रः᳚ । वि । आ॒स्य॒त् । च॒कृ॒॑वान् । ऋ॒जिश्व᳚ना ॥
▶ सायणभाष्यम् (Sayana Commentary)

दिवो द्युलोकस्य मध्ये सूर्य आदित्यो रथं प्रस्थानाय व्यमुचत्। विमिक्तवान्। मुचेर्लुङि लृदित्त्वाच्च्लेरङादेशः। कदेति चेदुच्यते। यदार्योऽभिज्ञ इन्द्रो दासायोपक्शपयित्रे वृत्राददये प्रतिमानं प्रतिकृतिं प्रतीकारं विदत् वेत्ति जानाति। अलभत वा। अपि च मायिनो मायाविनः। मायाशब्दस्य व्रीह्यादिषु पाठाद्व्रीह्यादिभ्यश्चेतीनिप्रत्ययः। पिप्रोरेतन्नाम्नोऽसुरस्य दृळ्हानि दृढानि स्थिराणि पुराणि बलानि वर्जिश्वना राजर्षिणा चकृवान् सख्यं कुर्वन्निन्द्रो व्यास्यत्। व्यक्षिपत्। विविधमाक्षिप्तवान्। व्यनीनशदित्यर्थः। असु क्षेपणे॥३॥

10.138.4
अना᳚धृष्टानि धृषि॒तो व्या᳚स्यन्नि॒धी{4}रदे᳚वा{4} अमृणद॒यास्य᳚ः ।
मा॒सेव॒ सूर्यो॒ वसु॒ पुर्य॒मा द᳚दे गृणा॒नः शत्रू{4}᳚रशृणाद्वि॒रुक्म᳚ता ॥
▶ पदपाठः (Word-by-word)
अना᳚धृष्टानि । धृ॒षि॒तः । वि । आ॒स्य॒त् । नि॒॑धीन् । अदे᳚वान् । अ॒मृ॒ण॒त् । अ॒यास्यः᳚ ।
मा॒सा॑इ᳚व । सूर्यः᳚ । वसु᳚ । पुर्य᳚म् । आ । द॒दे॒ । गृ॒णा॒नः । शत्रू᳚न् । अ॒शृ॒णा॒त् । वि॒रुक्म᳚ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

धृषितः शत्रूणाम् धर्षयिता प्रगल्भ इन्द्रोऽनाधृष्टानीतः पूर्वं शत्रुभिरप्रधृष्टान्यबाधितान्यसुरबलानि व्यास्यत्। व्याक्षिप्तवान्। तथायास्योऽयासनीयश्चालयितुमशक्यः। यद्वा। अयास्योऽङ्गिराः। स्तोतृवाचिना शब्देन स्तुत्यो लक्ष्यते। अयास्येनर्षिणा स्तुत्य इन्द्रो निधीनसुरैर्निहितान्धनसमूहान् यद्वा निधातॄन्नितरां बलानां धारयितॄनदेन्देवविरोधिनोऽसुरानमृणत्। अहिंसीत्। मृण हिंसायाम् । तौदादिकः। अपि च सूर्यो मासेव मासेनेव। पव्दन्नित्यादिना मासशब्दस्य मास्भावः। स यथा मासविशेषेण भ्ॐआन्रसानादत्ते तथा पुर्यमसुरानां पुरि भवम्। भवे छन्दसिति यत्। हलि चेति दीर्घस्य न भकुर्छुराम्। पा. ८-२-७९। इति प्रतिषेधः। यतोऽनाव इत्याद्युदात्तत्वम्। ईदृशं वसु धनमाददे। आदत्ते स्म। आङो दोऽनास्यविहरण इत्यात्मनेपदम्। तथा गृणानः स्तोतृभिः स्तूयमानः सन्। व्यत्ययेन कर्मणि कर्तृप्रत्ययः। शत्रूञ्शातयितॄनसुरान्विरुक्मता विरोचनमानेन वज्रेनाशृणात्। अहिंसीत्॥४॥

10.138.5
अयु᳚द्धसेनो वि॒भ्वा᳚ विभिन्द॒ता दाश᳚द्वृत्र॒हा तुज्या᳚नि तेजते ।
इन्द्र᳚स्य॒ वज्रा᳚दबिभेदभि॒श्नथ॒ः प्राक्रा᳚मच्छु॒न्ध्यूरज᳚हादु॒षा अनः᳚ ॥
▶ पदपाठः (Word-by-word)
अयु᳚द्ध॑सेनः । वि॒॑भ्वा᳚ । वि॒॑भि॒न्द॒ता । दाश᳚त् । वृ॒त्र॒॑हा । तुज्या᳚नि । ते॒ज॒ते॒ ।
इन्द्र᳚स्य । वज्रा᳚त् । अ॒बि॒भे॒त् । अ॒भि॒॑श्नथः᳚ । प्र । अ॒क्रा॒म॒त् । शु॒न्ध्यूः । अज᳚हात् । उ॒षाः । अनः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विभ्वा विभुना व्याप्तेन विभिन्दता विदारयता एवं विधेनापि परकीयबलेनायुद्धसेनोऽप्रहृतसेनः। यद्वा। विभ्वा वुभुर्व्याप्तो विभिन्दता शत्रुबलानि विदारयता वज्रेण। वृत्रहा वृत्रं हतवान् एवं विध इन्द्रो दाशत्। दाशति। स्तोतृभ्यो धनं प्रयच्छति। दाशृ दाने। लेट्यडागमः। तथा तुज्यानि प्रेर्याणि शत्रुबलानि तेजते। तनूकरोति। अल्पीकरोति। तिजनिशाने। यद्वा। शत्रून्प्रति प्रेर्याण्यायुधानि तेजते। निश्यति। तीक्ष्णीकरोति। ईदृशस्येन्द्रस्याभिश्नथोऽभितो हिंसकाद्वज्रात्सर्वं शत्रुजातमबिभेत्। भीतिं प्राप्नोत्। एवमसुरेष्विन्द्रेण निरस्तेषु शुन्ध्यूः शोधयितादित्यः प्राक्रामत्। जगत्प्रकाशनाय गन्तुं प्रक्रान्तवान्। उषा उषोदेवता चानः स्वकीयं शकटं रथमजहात्। गन्तुं प्रयत्यजत्। ओहाक् त्यागे॥५॥

10.138.6 समानपद
ए॒ता त्या ते॒ श्रुत्या᳚नि॒ केव᳚ला॒ यदेक॒ एक॒मकृ᳚णोरय॒ज्ञम् ।
मा॒सां वि॒धान᳚मदधा॒ अधि॒ द्यवि॒ त्वया॒ विभि᳚न्नं भरति प्र॒धिं पि॒ता ॥
▶ पदपाठः (Word-by-word)
ए॒ता । त्या । ते॒ । श्रुत्या᳚नि । केव᳚ला । यत् । एकः᳚ । एक᳚म् । अकृ᳚णोः । अ॒य॒ज्ञम् ।
मा॒साम् । वि॒॑धान᳚म् । अ॒द॒धाः॒ । अधि᳚ । द्यवि᳚ । त्वया᳚ । वि॑भि᳚न्नम् । भ॒र॒ति॒ । प्र॒॑धिम् । पि॒ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्या तानि ते तव त्वदीयानि वीर्यकर्माण्येतैतान्येव केवला केवलानि श्रुत्यानि श्रोतव्यानि स्तुत्यर्हाणि। नान्यदीयानि। कानि पुनस्तानि। एकोऽसहायस्त्वमेकं प्रधानभूतमयज्ञं यज्ञरहितमसुरमकृणॊः अहिंसीरिति यदेतदेकं कर्म। कृवि हिंसाकरणयोः। अत्र हिंसार्थः। इदित्त्वान्नुम्। धिन्विकृण्व्योरच्चेत्युप्रत्ययोऽकारान्तादेशश्च। तस्य लोपे सति स्थानिवद्भावल्लघूपधगुणाभावः। तथा मासां मासानाम् । पद्दन्नित्यादिना मासशब्दस्य मास्भावः। ऊडिदमित्यादिना विभक्तेरुदात्तत्वम्। मासानां विधानं विधातारं कर्तारं सूर्यमधि द्यवि द्युलोक उपर्यदधाः। अधारयः। विपूर्वाद्दधातेः कृत्यल्युटो बहुलमिति कर्तरि ल्युट्। इदमपरं कर्म। तथा पिता पालको द्युलोको विभिन्नं विदारितं वृत्राद्विभक्तं प्रधिं रथचक्रस्य पार्श्वम्। पार्श्वफलके प्रधी इत्युच्येते। ईदृशं सूर्यरथसम्बन्धिनं प्रधिमन्यैर्धारयितुमशक्यं त्वयैव भरति। धारयति। इदमपरं कर्म। एतत्प्रभृतीनि त्वया कृतानि कर्माणि परेषामसाधारनानि सर्वदाम्ना तव्यानीत्यर्थः॥६॥