य॒देदन्ता॒ अद᳚दृहन्त॒ पूर्व॒ आदिद्द्यावा᳚पृथि॒वी अ᳚प्रथेताम् ॥
पदपाठः (Word-by-word)
य॒दा । इत् । अन्ताः᳚ । अद᳚दृहन्त । पूर्वे᳚ । आत् । इत् । द्यावा᳚पृथि॒वी इति᳚ । अ॒प्र॒थे॒ता॒म् ॥
सायणभाष्यम् (Sayana Commentary)
चक्षुष इति सप्तर्चं चतुर्दशं सूक्तम्। ऋष्याद्याः पूर्ववत्। चक्षुष इत्यनुक्रान्तम्। गतः सूक्त विनियोगः॥
चक्षुषश्चक्षुरुपलक्षितस्येन्द्रियसङ्घात्मकस्य शरीरस्य पितोत्पादयिता। यद्वा। चक्षुः ख्यापकं तेजः। तस्योत्पादयिता। मनसा न हि मत्समोऽस्ति कश्चिदिति बुद्ध्या हि खलु धीरो धृष्टो विश्वकर्मा प्रथमं घृतमुदकमजनत्। अजनयत्। आपो वा इदमग्रे। तै. सं. ७-१-५-१। अप एव ससर्जादौ। मनु १-८। इत्यादिश्रुतिस्मृती स्याताम् । पश्चादेने द्यावापृथिव्यौ नम्नमाने तस्मिन्नुदक इतस्ततश्चलन्तौ योऽजनयत्। अथ यदेद्यदैवांताः पर्यन्तप्रदेशाः पूर्वे पुराणा द्यावापृथिव्योः सम्बन्धिनोऽददृहन्त दृढा अभवन्। विश्वकर्मणा दृढाः सम्पादिता इत्यर्थः। आदिदनन्तरमेव द्यावापृथिवी द्यावापृथिव्यावप्रथेताम्। यथाकामं प्रथिते अभूताम्॥१॥