श्रवणम्

10.82.4
त आय᳚जन्त॒ द्रवि᳚णं॒ सम᳚स्मा॒ ऋष᳚य॒ः पूर्वे᳚ जरि॒तारो॒ न भू॒ना ।
अ॒सूर्ते॒ सूर्ते॒ रज᳚सि निष॒त्ते ये भू॒तानि᳚ स॒मकृ᳚ण्वन्नि॒मानि᳚ ॥
▶ पदपाठः (Word-by-word)
ते । आ । अ॒य॒ज॒न्त॒ । द्रवि᳚णम् । सम् । अ॒स्मै॒ । ऋष᳚यः । पूर्वे᳚ । ज॒रि॒तारः᳚ । न । भू॒ना ।
अ॒सूर्ते᳚ । सूर्ते᳚ । रज᳚सि । नि॒॑स॒त्ते । ये । भू॒तानि᳚ । स॒म्॑अकृ᳚ण्वन् । इ॒मानि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ते पूर्व ऋषयोऽस्मै विश्वकर्मणे द्रविणं चरुपुरोडाशादिलक्षणं धनं सं सम्यगायजन्त। सर्वतो यजन्ते। जरितारो न भूना स्तोतारो यथा भूम्ना महता स्तोत्रेण यजन्ति तद्वत्। ये महर्षयोऽसूर्ते सरणवर्जिते सूर्ते सरन सहिते स्थावरजङ्गमात्मके रजसि लोके निषत्ते निषण्णे निश्चलमवस्थित इमानि भूतानि भुवनानि। प्राणिन इत्यर्थः। समकृण्वन् सम्यग्धनादिनापूजयन्। अथवायमर्थः। ये स्थावरजङ्गमात्मके जगति वर्तमानानेतान्प्राणिनस्तेजसा समकृण्वन् ते पूर्व ऋषयो द्रष्टारो रश्मयोऽस्मा आदित्यात्मकाय विश्वकर्मणे द्रविणं तेज अयजन्त॥४॥