दशमं मण्डलम् - सूक्तम् 59

10 ऋचः

ऋषिः: बंधुः श्रुतबंधुर्विप्रबंधुर्गौपायनाः देवता: निऋतिः छन्दः: त्रिष्टुप्

सूक्तम् 10.59 - सम्पूर्णम्

1 / 10
ऋक्: 10.59.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
10.59.1
प्र ता॒र्यायु᳚ः प्रत॒रं नवी᳚य॒ः स्थाता᳚रेव॒ क्रतु᳚मता॒ रथ᳚स्य ।
अध॒ च्यवा᳚न॒ उत्त᳚वी॒त्यर्थं᳚ परात॒रं सु निरृ᳚तिर्जिहीताम् ॥
▶ पदपाठः (Word-by-word)
प्र । ता॒रि॒ । आयुः᳚ । प्र॒॑त॒रम् । नवी᳚यः । स्थाता᳚रा॑इव । क्रतु᳚॑मता । रथ᳚स्य ।
अध᳚ । च्यवा᳚नः । उत् । त॒वी॒ति॒ । अर्थ᳚म् । प॒रा॒॑त॒रम् । सु । निः॑ऋ᳚तिः । जि॒ही॒ता॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्र तारीति दशर्चं सप्तदशं सूक्तं बन्ध्वादीनां त्रयाणां गौपायनानामार्षं आदितः सप्त त्रिष्टुभः। अष्टमी पञ्चाष्टका पङ्क्तिः। नवमी षडष्टका महापङ्क्तिः। दशमी पङ्क्त्युत्तरा। आदौ दशकावष्टकास्त्रयः। आनु. ९-११। इत्युक्तलक्षणसद्भावात्। एकाक्षराधिक्याद्भूरिग्विशेषेणेयं वेदितव्या। सूक्तस्यादितश्चतस्रो देहात्प्राणान्निर्गमयित्र्या निरृतेर्निवृत्त्यर्थं बन्ध्वादयोऽजपन्। मो षु णः सोमेति चतुर्थ्या मेव मृत्युनिवृत्त्यर्थं सोममस्तुवन्। अतश्चतसृणां निरृतिर्देवता चतुर्थ्याः सोमश्च। असुनीते मन इति द्वाभ्यामसुनीतिनाम्नीं देवीमस्तुवन्। अतस्तयोः सा देवता। पुनर्नो असुमित्यस्याः पृथिव्याद्या लिङ्गोक्ता देवताः। ततस्तिसृभिः शिष्ताभिः पङ्किमहापङ्क्तिपङ्क्त्युत्तराभिर्द्यावपृथिव्याविति द्यावापृथिव्यौ देवते। समिन्द्रेत्यर्धर्चस्येन्द्रो देवता। तथा चानुक्रान्तम्। प्र तारीति दशर्चे चतस्रो निरृत्यपनोदनार्थं जेपुश्चतुर्थ्यां सोमं चास्तुवन्मृत्योरपगमायोत्तराभ्यां दैवीमसुनीतिं सप्तम्यां लिङ्गोक्तदेवताः शिष्टाभिः पङ्क्तिमहापङ्क्तिपङ्क्त्युत्तराभिर्द्यावापृथिव्यौ समिन्द्रेतीन्द्रं चार्धर्चेनेति। गतो विनियोगः॥

सुबन्धोरायुरायुष्यं प्र तारि। प्रवर्धताम्। प्रपूर्वस्तिरतिर्वर्धनार्थः। कथं प्रवर्धतामिति उच्यते। प्रतरं प्रवृद्धतरं नवीयो नवतरम्। यौवनोपेतमित्यर्थः। निरृत्यनुग्रहादेवमायुर्वर्धताम्। तत्र दृष्टान्तः। क्रतुमता कर्मवता रारथिना रथस्य स्थातारेव रथे स्तिताविव वर्धेति तद्वत्। आधाथच्यवानो जीवितात्प्रच्यवमानोऽर्थं स्वाभिलषितमायुर्लक्षणमुत्तवीति। वर्धयति। सुबन्धुप्राणापहर्त्री निरृतिः पापदेवता परातरमत्यन्तं दूरतरं जिहीताम्। परित्यजतु। गच्छतु॥१॥

10.59.2
साम॒न्नु रा॒ये नि᳚धि॒मन्न्वन्नं॒ करा᳚महे॒ सु पु᳚रु॒ध श्रवां᳚सि ।
ता नो॒ विश्वा᳚नि जरि॒ता म᳚मत्तु परात॒रं सु निरृ᳚तिर्जिहीताम् ॥
▶ पदपाठः (Word-by-word)
साम᳚न् । नु । रा॒ये । नि॒धि॒॑मत् । नु । अन्न᳚म् । करा᳚महे । सु । पु॒रु॒ध । श्रवां᳚सि ।
ता । नः॒ । विश्वा᳚नि । ज॒रि॒ता । म॒म॒त्तु॒ । प॒रा॒॑त॒रम् । सु । निः॑ऋ᳚तिः । जि॒ही॒ता॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सामन्नु सामिन् गीयमाने सति। नु चार्थे। राये जीवायूरूपधनार्थं निधिमन्निधानवदन्नं हविष्च करामहे। कुर्मः। अत्र न्विति चार्थे। निरृत्यै स्तुतिं हविश्चोभयं कुर्म इत्यर्थः। तदेवाह। सु सुष्ठु पुरुध पुरुधा बहुप्रकारं श्रवांस्यन्नानि हवींषि करामहे। ता तानि हवींषि नोऽस्माकं सम्बन्धीनि विश्वानि सर्वाणि जरिता जीर्णा स्तुता वा। जरा स्तुतिः। नि. १०-८। ममत्तु। स्वदताम् । आस्वाद्य च निरृतिः परापतरमत्यन्तं दूरदेशं जिहीताम् । गच्छताम्॥२॥

10.59.3
अ॒भी ष्व१॒᳚र्यः पौंस्यै᳚र्भवेम॒ द्यौर्न भूमिं᳚ गि॒रयो॒ नाज्रा᳚न् ।
ता नो॒ विश्वा᳚नि जरि॒ता चि᳚केत परात॒रं सु निरृ᳚तिर्जिहीताम् ॥
▶ पदपाठः (Word-by-word)
अ॒भि । सु । अ॒र्यः । पौंस्यैः᳚ । भ॒वे॒म॒ । द्यौः । न । भूमि᳚म् । गि॒रयः᳚ । न । अज्रा᳚न् ।
ता । नः॒ । विश्वा᳚नि । ज॒रि॒ता । चि॒के॒त॒ । प॒रा॒॑त॒रम् । सु । निः॑ऋ᳚तिः । जि॒ही॒ता॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वयमर्योऽरीञ्शत्रून्पौंस्यैः पुंस्त्वैर्बलैः सु सुष्ठ्वभिभवेम। दौर्नभूमिं सूर्यो यथा स्वरश्मिभिर्भूमिमभिभवति तद्वत्। गिरयो नाज्रान्। गिरिर्वज्रः। ते यथाज्रानजनशीलान्मेघानभिभवन्ति तद्वत्। ता तानि यानि न्ऽस्माभिः कृतानि स्तोत्राणि तानि विश्वानि सर्वाणि जरिता स्तुता सती निरृतिश्चिकेत। जानाति। शिष्टमुक्तम्॥३॥

10.59.4
मो षु णः᳚ सोम मृ॒त्यवे॒ परा᳚ दा॒ः पश्ये᳚म॒ नु सूर्य᳚मु॒च्चर᳚न्तम् ।
द्युभि᳚र्हि॒तो ज᳚रि॒मा सू नो᳚ अस्तु परात॒रं सु निरृ᳚तिर्जिहीताम् ॥
▶ पदपाठः (Word-by-word)
मो इति᳚ । सु । नः॒ । सो॒म॒ । मृ॒त्यवे᳚ । परा᳚ । दाः॒ । पश्ये᳚म । नु । सूर्य᳚म् । उ॒त्॑चर᳚न्तम् ।
द्यु॑भिः᳚ । हि॒तः । ज॒रि॒मा । सु । नः॒ । अ॒स्तु॒ । प॒रा॒॑त॒रम् । सु । निः॑ऋ᳚तिः । जि॒ही॒ता॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम नोऽस्मान् सु सुष्ठु मृत्यवे मो परा दाः। मैव परादानं कुरु। मृत्य्वधीनान्नोऽस्मान्माकार्षीः। किन्तु न्विदानीमुच्चरन्तमूर्ध्वं गच्छन्तमुदयन्तं सूर्यं पश्येम। चिरकालं जीवेमेत्यर्थः। जीवाभावे सूर्यादर्शनादित्यभिप्रायः। किञ्च द्युभिः। अहर्नामैतत्। अहोभिर्दिवसैर्हितः प्रेरितो जरिमा जराभावो नोऽस्माकं सु सुखकरोऽस्तु। शिष्टमुक्तम्॥४॥

10.59.5
असु᳚नीते॒ मनो᳚ अ॒स्मासु᳚ धारय जी॒वात᳚वे॒ सु प्र ति᳚रा न॒ आयु᳚ः ।
रा॒र॒न्धि न॒ः सूर्य᳚स्य सं॒दृशि᳚ घृ॒तेन॒ त्वं त॒न्वं᳚ वर्धयस्व ॥
▶ पदपाठः (Word-by-word)
असु᳚॑नीते । मनः᳚ । अ॒स्मासु᳚ । धा॒र॒य॒ । जी॒वात᳚वे । सु । प्र । ति॒र॒ । नः॒ । आयुः᳚ ।
र॒र॒न्धि । नः॒ । सूर्य᳚स्य । स॒म्॑दृशि᳚ । घृ॒तेन᳚ । त्वम् । त॒न्व᳚म् । व॒र्ध॒य॒स्व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे असुनीते मनुष्याणामसूनां नेत्रि देवि अस्मासु मनः पुनर्धारय। किञ्च जीवातवे जीवितुं सु प्र तिर सुष्ठु वर्धय नोऽस्माकमायुः। किञ्च रारन्धि स्थापय नोऽस्मान् सूर्यस्य संदृशि चिरसन्दर्शने। त्व च घृतेनास्माभिर्दत्तेन तन्वं शरीरं वर्धय। वर्धयस्व॥५॥

10.59.6
असु᳚नीते॒ पुन᳚र॒स्मासु॒ चक्षु॒ः पुनः᳚ प्रा॒णमि॒ह नो᳚ धेहि॒ भोग᳚म् ।
ज्योक्प᳚श्येम॒ सूर्य᳚मु॒च्चर᳚न्त॒मनु᳚मते मृ॒ळया᳚ नः स्व॒स्ति ॥
▶ पदपाठः (Word-by-word)
असु᳚॑नीते । पुनः᳚ । अ॒स्मासु᳚ । चक्षुः᳚ । पुन॒रिति᳚ । प्रा॒णम् । इ॒ह । नः॒ । धे॒हि॒ । भोग᳚म् ।
ज्योक् । प॒श्ये॒म॒ । सूर्य᳚म् । उ॒त्॑चर᳚न्तम् । अनु᳚॑मते । मृ॒ळय᳚ । नः॒ । स्व॒स्ति ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे असुनीते प्राणदायिनि देवि अस्मासु। अस्मदीये सुबन्धावित्यर्थः। पुनश्चक्षुः प्रकाशकं नयनम् । ईक्षणसामर्थ्यमित्यर्थः। किञ्च पुनः प्रानमस्मासुधेहि। स्थापय। वयं च ज्योक्चिरमुच्चरन्तमुद्गच्छन्तं सूर्यं पश्येम। हे अनुमते देवि स्वस्त्यविनाशं यथा स्यात्तथा नोऽस्मान्मृळय। सुखय॥६॥

10.59.7 समानपद
पुन᳚र्नो॒ असुं᳚ पृथि॒वी द᳚दातु॒ पुन॒र्द्यौर्दे॒वी पुन᳚र॒न्तरि᳚क्षम् ।
पुन᳚र्न॒ः सोम᳚स्त॒न्वं᳚ ददातु॒ पुनः᳚ पू॒षा प॒थ्यां॒३॒᳚ या स्व॒स्तिः ॥
▶ पदपाठः (Word-by-word)
पुनः᳚ । नः॒ । असु᳚म् । पृ॒थि॒वी । द॒दा॒तु॒ । पुनः᳚ । द्यौः । दे॒वी । पुनः᳚ । अ॒न्तरि᳚क्षम् ।
पुनः᳚ । नः॒ । सोमः᳚ । त॒न्व᳚म् । द॒दा॒तु॒ । पुन॒रिति᳚ । पू॒षा । प॒थ्या᳚म् । या । स्व॒स्तिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

पृथिवी देवी नोऽस्मभ्यमसुं प्राणं ददातु पुनः। दौर्देवतासुं ददातु । तथान्तरिक्षमन्तरिक्षदेवतासुं ददातु। तथा सोमो नस्तन्वं शरीरं पुनर्ददातु। तथा पूषा पोषाभिमानिनी देवता पथ्याम् । पन्था अन्तरिक्षम् । नि-११-४५। तत्र भवां वाचम् । वागात्मकः शब्दो ह्याकाशादुत्पद्यते। तां पुनर्ददातु। किञ्च या स्वस्तिर्यालोके वेदे च स्वस्तिरुच्यते तामपि पूषा प्रयच्छतु। यद्वा। पूषा पॊषं प्रयच्छतु। या स्वस्तिर्वाग्नाम्नी देव्यस्ति सा पथ्यां वाचं प्रयच्छतु। वाग्वै पथ्या स्वस्तिः। शत्त. ३-२-३-८। इति ब्राह्मणम्॥७॥

10.59.8
शं रोद᳚सी सु॒बन्ध᳚वे य॒ह्वी ऋ॒तस्य᳚ मा॒तरा᳚ ।
भर᳚ता॒मप॒ यद्रपो॒ द्यौः पृ᳚थिवि क्ष॒मा रपो॒ मो षु ते॒ किं च॒नाम᳚मत् ॥
▶ पदपाठः (Word-by-word)
शम् । रोद᳚सी॒ इति᳚ । सु॒॑बन्ध᳚वे । य॒ह्वी इति᳚ । ऋ॒तस्य᳚ । मा॒तरा᳚ ।
भर᳚ताम् । अप᳚ । यत् । रपः᳚ । द्यौः । पृ॒थि॒वि॒ । क्ष॒मा । रपः᳚ । मो इति᳚ । सु । ते॒ । किम् । च॒न । आ॒म॒म॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इदमादिभिस्तिसृभिर्द्यावापृथिव्योः स्तुतिः। रोदसी द्यावापृथिव्यौ सुबन्धवे शं सुखं प्रयच्छताम् । कीदृश्यौ ते। यह्वी महतौ ऋतस्य यज्ञस्योदकस्य वा मातरा निर्मात्रौ। यद्रपः पापं कृच्छ्रमस्ति तदप भरताम् । अपहरताम्। अपनयताम्। हे द्यौः हे पृथिवि हे द्यावापृथिव्यौ क्षमा क्षमायां सत्याम्। यद्वा क्षमा प्वथगप्युच्यते। क्षमाप्यपहरतु। एवमुक्त्वा सुबन्धुं बन्ध्वादयो ब्रुवते। हे सुबन्धो ते त्वां मो षु मैव सु सुष्ठु किं चन परं रपः कृच्छ्रमाममत्। हिनस्तु॥८॥

10.59.9
अव᳚ द्व॒के अव᳚ त्रि॒का दि॒वश्च᳚रन्ति भेष॒जा ।
क्ष॒मा च᳚रि॒ष्ण्वे᳚क॒कं भर᳚ता॒मप॒ यद्रपो॒ द्यौः पृ᳚थिवि क्ष॒मा रपो॒ मो षु ते॒ किं च॒नाम᳚मत् ॥
▶ पदपाठः (Word-by-word)
अव᳚ । द्व॒के इति᳚ । अव᳚ । त्रि॒का । दि॒वः । च॒र॒न्ति॒ । भे॒ष॒जा ।
क्ष॒मा । च॒रि॒ष्णु । ए॒क॒कम् । भर᳚ताम् । अप᳚ । यत् । रपः᳚ । द्यौः । पृ॒थि॒वि॒ । क्ष॒मा । रपः᳚ । मो इति᳚ । सु । ते॒ । किम् । च॒न । आ॒म॒म॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

दिवो द्युलोकाद्भेषजा भेषजानि द्वके द्विकं त्रिका त्रिकं चाव चरन्ति। अत्राश्विनौ द्विकमवचरतः। इळा सरस्वती भारती त्रिकमवचरन्ति। क्षमा क्षमायां चरिष्णु चरत्येककमेकं भेषजमित्यभिप्रायमाह। तानि सर्वाणि सुबन्धो प्राणं क्षन्त्विति शेशः॥९॥

10.59.10
समि᳚न्द्रेरय॒ गाम᳚न॒ड्वाहं॒ य आव᳚हदुशी॒नरा᳚ण्या॒ अनः᳚ ।
भर᳚ता॒मप॒ यद्रपो॒ द्यौः पृ᳚थिवि क्ष॒मा रपो॒ मो षु ते॒ किं च॒नाम᳚मत् ॥
▶ पदपाठः (Word-by-word)
सम् । इ॒न्द्र॒ । ई॒र॒य॒ । गाम् । अ॒न॒ड्वाह᳚म् । यः । आ । अव᳚हत् । उ॒शी॒नरा᳚ण्याः । अनः᳚ ।
भर᳚ताम् । अप᳚ । यत् । रपः᳚ । द्यौः । पृ॒थि॒वि॒ । क्ष॒मा । रपः᳚ । मो इति᳚ । सु । ते॒ । किम् । च॒न । आ॒म॒म॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र समीरय प्रेरय। किं गां गन्तारमनड्वहमनोवहनसमर्थम् । योऽनड्वानावहत् आवहत्यस्मान्प्रति। किम् । अनः शकटम् । कस्य । उशीनराण्या एतन्नामिकाया ओषधेः। ययार्तमनुलिम्पन्ति सोशीनराणी। भरतामित्यादि गतम्॥१०॥