दशमं मण्डलम् - सूक्तम् 154

5 ऋचः

ऋषिः: यमी देवता: भाववृत्तं छन्दः: अनुष्टुप्

सूक्तम् 10.154 - सम्पूर्णम्

1 / 5
ऋक्: 10.154.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
10.154.1
सोम॒ एके᳚भ्यः पवते घृ॒तमेक॒ उपा᳚सते ।
येभ्यो॒ मधु᳚ प्र॒धाव᳚ति॒ ता{4}श्चि᳚दे॒वापि᳚ गच्छतात् ॥
▶ पदपाठः (Word-by-word)
सोमः᳚ । एके᳚भ्यः । प॒व॒ते॒ । घृ॒तम् । एके᳚ । उप᳚ । आ॒स॒ते॒ ।
येभ्यः᳚ । मधु᳚ । प्र॒॑धाव᳚ति । तान् । चि॒त् । ए॒व । अपि᳚ । ग॒च्छ॒ता॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोम इति पञ्चर्चं तृतीयं सूक्तमानुष्तुभम्। विवस्वतो दुहिता यम्यृषिः। म्रियमाणानां यजमानादीनां वर्तमत्र प्रतिपाद्यते। अतस्तद्देवताकमिदम्। तथा चानुक्रान्तम्। सोमो यमी भाववृत्तमानुष्टुभं त्विति। प्रेतोपस्थान एतत्सूक्तम्। सूत्रितं च। सोम एकेभ्य उरूणसावसुतृपा उदुम्बलौ। आ. ६-१०। इति॥

एकेभ्यः केभ्यश्चित्पितृभ्यः सोमः पवते। उपभोगाय कुल्यारूपेण प्रवहति। एषां गोत्रजाः सामानि ब्रह्मयज्ञसमयेऽधीयते। श्रूयते हि। यत्सामानि सोम एभ्यः पवत इति। एकेऽन्ये पितरो घृतमाज्यमुपासते। उपगच्छन्ति। उपभुञ्जत इत्यर्थः। एषां पुत्रादयो यजूंषि ब्रह्मयज्ञकालेऽधीयते। श्रुतिश्च भवति। यद्यजूंषि घृतस्य कुल्या इति। येभ्यः पितृभ्यः। तादर्थ्ये चतुर्थी। उपभोगार्थं मधु क्षौद्रं प्रधावति प्रवाहरूपेण शीघ्रं गच्छति। य आथर्वणान्मन्त्रान्ब्रह्मयज्ञार्थमधीयते तेषां पितॄन्मधुकुल्या प्रवहति। तथा चाम्नायते। यदाथर्वणाङ्गिरसो मधोः कुल्या इति। तांश्चिदेव तान्पूर्वोक्तान्सर्वानेव हे प्रेत त्वं प्रत्यपि गच्छतात्। आपिगच्छ। प्राप्नुहि॥१॥

10.154.2
तप᳚सा॒ ये अ᳚नाधृ॒ष्यास्तप᳚सा॒ ये स्व᳚र्य॒युः ।
तपो॒ ये च᳚क्रि॒रे मह॒स्ता{4}श्चि᳚दे॒वापि᳚ गच्छतात् ॥
▶ पदपाठः (Word-by-word)
तप᳚सा । ये । अ॒ना॒धृ॒ष्याः । तप᳚सा । ये । स्वः᳚ । य॒युः ।
तपः᳚ । ये । च॒क्रि॒रे । महः᳚ । तान् । चि॒त् । ए॒व । अपि᳚ । ग॒च्छ॒ता॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये जनास्तपसा कृच्छ्रचान्द्रायणादिना युक्ताः सन्तोऽनाधृष्याः पापैरप्रधृष्या भवन्ति। ये च तपसा यागादिरूपेण साधनेन स्वर्ययुः स्वर्गं यान्ति प्राप्नुवन्ति। ये च महो महत्तपोऽन्यैर्दुष्करं राजसूयाश्वमेधादिकं हिरण्यगर्भाद्युपासनं वा चक्रिरे कुर्वन्ति एतेषु प्रवर्तन्ते तेषु लोकेषु। तांश्चित्तानेव तपस्विनो हे प्रेत अपिगच्छ॥२॥

10.154.3
ये युध्य᳚न्ते प्र॒धने᳚षु॒ शूरा᳚सो॒ ये त᳚नू॒त्यजः᳚ ।
ये वा᳚ स॒हस्र᳚दक्षिणा॒स्ता{4}श्चि᳚दे॒वापि᳚ गच्छतात् ॥
▶ पदपाठः (Word-by-word)
ये । युध्य᳚न्ते । प्र॒॑धने᳚षु । शूरा᳚सः । ये । त॒नू॒॑त्यजः᳚ ।
ये । वा॒ । स॒हस्र᳚॑दक्षिणाः । तान् । चि॒त् । ए॒व । अपि᳚ । ग॒च्छ॒ता॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रधनेषु। प्रकीर्नान्यस्मिन्धनानि भवन्तीति प्रधना सङ्ग्रामाः। तेषु शूरासः शौर्यवन्तो ये युध्यन्ते शत्रून्सम्प्रहरन्ति। ये च तनूत्यजः शरीरानांतत्रत्यक्तारो भवन्ति। ये वा ये च सहस्रदक्षिणाः सहस्र दक्षिनान्क्रतूननुष्थितवन्तः। तान्सर्वानेव त्वमपिगच्छ। येषूत्तमेषु लोकेशु ते निवसन्ति तं लोकं प्राप्नुहीत्यर्थः॥३॥

10.154.4
ये चि॒त्पूर्व᳚ ऋत॒साप᳚ ऋ॒तावा᳚न ऋता॒वृधः᳚ ।
पि॒तॄन्तप᳚स्वतो यम॒ ता{4}श्चि᳚दे॒वापि᳚ गच्छतात् ॥
▶ पदपाठः (Word-by-word)
ये । चि॒त् । पूर्वे᳚ । ऋ॒त॒॑सापः᳚ । ऋ॒त॑वा᳚नः । ऋ॒त॒॑वृधः᳚ ।
पि॒तॄन् । तप᳚स्वतः । य॒म॒ । तान् । चि॒त् । ए॒व । अपि᳚ । ग॒च्छ॒ता॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये चिद्ये च पूर्वे पूर्वपुरुषा ऋतसाप ऋतं सत्यं यज्ञम् वा स्पृशन्तह् अत एवर्तवान ऋतेन युक्ता ऋतवृध ऋतस्य वर्थकाश्च भवन्ति तपस्वतस्तपसा युक्तांस्तानेव पितॄन् हे यम नियत त्वमपिगच्छ॥४॥

10.154.5
स॒हस्र᳚णीथाः क॒वयो॒ ये गो᳚पा॒यन्ति॒ सूर्य᳚म् ।
ऋषी॒न्तप᳚स्वतो यम तपो॒जा{4} अपि᳚ गच्छतात् ॥
▶ पदपाठः (Word-by-word)
स॒हस्र᳚॑नीथाः । क॒वयः᳚ । ये । गो॒पा॒यन्ति᳚ । सूर्य᳚म् ।
ऋषी᳚न् । तप᳚स्वतः । य॒म॒ । त॒पः॒॑जान् । अपि᳚ । ग॒च्छ॒ता॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सहस्रनीथाह् सहस्रनयनाः कवयः क्रान्तदर्शिनो य सूर्यममुमादित्यं गोपायन्ति रक्षन्ति तपस्वतपसा युक्तांस्तपोजांस्तपसः सकाशादेवोत्पन्नां स्तानृषीन् हे यम नियत त्वमपिगच्छा॥५॥