दशमं मण्डलम् - सूक्तम् 109

7 ऋचः

ऋषिः: जुहूर्ब्रह्मजायोर्ध्वनाभा वा ब्राह्मः देवता: विश्वेदेवाः छन्दः: त्रिष्टुप्

सूक्तम् 10.109 - सम्पूर्णम्

1 / 7
ऋक्: 10.109.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
10.109.1
ते᳚॑वदन्प्रथ॒मा ब्र᳚ह्मकिल्बि॒षे॑कू᳚पारः सलि॒लो मा᳚त॒रिश्वा᳚ ।
वी॒ळुह᳚रा॒स्तप᳚ उ॒ग्रो म᳚यो॒भूरापो᳚ दे॒वीः प्र᳚थम॒जा ऋ॒तेन᳚ ॥
▶ पदपाठः (Word-by-word)
ते । अ॒व॒द॒न् । प्र॒थ॒माः । ब्र॒ह्म॒॑कि॒ल्बि॒षे । अकू᳚पारः । स॒लि॒लः । मा॒त॒रिश्वा᳚ ।
वी॒ळु॑ह᳚राः । तपः᳚ । उ॒ग्रः । म॒यः॒॑भूः । आपः᳚ । दे॒वीः । प्र॒थ॒म॒॑जाः । ऋ॒तेन᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तेऽवदन्निति सप्तर्चं दशमम् सूक्तम्। जुहुर्नाम ब्रह्मवादिन्यृषिः। ब्रह्मपुत्र ऊर्ध्वनाभा नाम वा। षष्ठी सप्तम्यावनुष्ठुभौ। शिष्थाः पञ्च त्रिष्टुभः। विश्वे देवा देवता। तथा चानुक्रान्तम्। तेऽवदन्सप्त जुहूर्ब्रह्मजाया ब्राह्मोवोर्ध्वनाभा वैश्वदेवं द्व्यनुष्टुबन्तमिति। गतो विनियोगः॥

अत्रेतिहासमाचक्षते। जुहूरिति वाग्नाम। सा ब्रह्मणो जाया च। बृहस्पतेर्वाचस्पतित्वाद्बृहस्पतेर्जुहूर्नाम भार्या बभूव। कदाचिदस्य किल्बिषमस्या दौर्भाग्यरूपेणासाञ्चक्रे। अत एव स एनां पर्यत्याक्षीत्। अनन्तरमादित्यादयो देवा मिथो विचार्यैनामकिल्बिषां कृत्वा पुनर्बृहस्पतये प्रादुरिति। तदत्र वर्ण्यते। प्रथमा मुख्यास्ते देवा ब्रह्मकिल्बिषे। षष्ठीसमासः। समासस्वरः। ब्रह्मणो बृहस्पतेः किल्बिषे पापे जुहूर्दौभाग्यरूपे विषयेऽवदन्। निश्कृत्युपायमवोचन्। वकारपरत्वादत्र प्रकृतिभावाभावः। केते। अकूपारः। अत्र यास्कः। आदित्योऽप्यकूपार उच्यतेऽकूपारो भवति दूरपारः। नि. ४-१८। इति। अकुत्सितपारो महगतिरादित्यः सलिलोऽब्देवता वरुनो मातरिश्वा वायुर्वीळुहराः। हरतेरसुनि रूपं हर इति। हरति विनाशयति तमांसीति हरस्तेजः। प्रभूततेजस्कः। तपः। तृतीयायाः सुः। तपसा तापनेनोग्र उद्गूर्णोऽग्निर्मयो भूः सुखस्य भावयिता सोमो देवीर्देव्य आपः। कीदृश्यः। ऋतेन सत्य भूतेन ब्रह्मणा प्रथमजा आदित एवोत्पादिताः। एत उपायमुक्त्वा प्रायश्चित्तमप्यकारयन्निति भावः॥१॥

10.109.2
सोमो॒ राजा᳚ प्रथ॒मो ब्र᳚ह्मजा॒यां पुन॒ः प्राय᳚च्छ॒दहृ᳚णीयमानः ।
अ॒न्व॒र्ति॒ता वरु᳚णो मि॒त्र आ᳚सीद॒ग्निर्होता᳚ हस्त॒गृह्या नि᳚नाय ॥
▶ पदपाठः (Word-by-word)
सोमः᳚ । राजा᳚ । प्र॒थ॒मः । ब्र॒ह्म॒॑जा॒याम् । पुन॒रिति᳚ । प्र । अ॒य॒च्छ॒त् । अहृ᳚णीयमानः ।
अ॒नु॒॑अ॒र्ति॒ता । वरु᳚णः । मि॒त्रः । आ॒सी॒त् । अ॒ग्निः । होता᳚ । ह॒स्त॒॑गृह्य᳚ । आ । नि॒ना॒य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रथमो मुख्यः सोमो राजाहृणीयमाणः। पापापगमनेनालज्जमानः। संस्तामेनामकिल्बिशां ब्रह्मजायां पुनर्बृहस्पतये प्रायच्छत्॥ ततो वरुणोऽन्वर्तिता। ऋतिः सौत्रो धातुर्घृणायां वर्तते। तस्य तृचि रूपम्। सोममनुमोदयितासित्। सर्वथा त्वं परिग्रुहाणेति दयामकार्षीत्। तथा मित्रश्च। अनन्तरं होता देवानामाह्वाता मनुष्याणां होमनिष्पादको वाग्निर्हस्तग्रुह्य तां हस्ते ग्रुहित्वा निनाय। आनैशीत्। प्रादादित्यर्थः। हस्तग्रुह्य। नित्यं हस्ते पाणावुपयमने। पा. १-४-७७। इति हस्त शब्दस्य गतिसंज्ञायां ग्रहिना समासेल्यप्। एकारलोपश्छान्दसः। यद्वा। हस्तशब्दात्परस्य ग्रुहेश्छान्दसौ समासल्यपौ॥२॥

10.109.3
हस्ते᳚नै॒व ग्रा॒ह्य᳚ आ॒धिर᳚स्या ब्रह्मजा॒येयमिति॒ चेदवो᳚चन् ।
न दू॒ताय᳚ प्र॒ह्ये᳚ तस्थ ए॒षा तथा᳚ रा॒ष्ट्रं गु᳚पि॒तं क्ष॒त्रिय᳚स्य ॥
▶ पदपाठः (Word-by-word)
हस्ते᳚न । ए॒व । ग्रा॒ह्यः᳚ । आ॒॑धिः । अ॒स्याः॒ । ब्र॒ह्म॒॑जा॒या । इ॒यम् । इति᳚ । च॒ । इत् । अवो᳚चन् ।
न । दू॒ताय᳚ । प्र॒॑ह्ये᳚ । त॒स्थे॒ । ए॒षा । तथा᳚ । रा॒ष्ट्रम् । गु॒पि॒तम् । क्ष॒त्रिय᳚स्य ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवा बृहस्पतिमूचुः। हे ब्रुहस्पते अस्या आधिः। आधीयन्त आभरण्यान्यत्रेत्याधिः शरीरम् । उपसर्गे घोः किः। पा. ३-३-९२। इति किप्रत्ययः। अस्याः शरीरं हस्तेनैव ग्राह्यो ग्रुहीतव्यमेव। पुनस्ते देवा इदानीमियं ब्रह्मजायेत्येवावोचन्। अवादिषुः। चशब्दश्चेदर्थे। अत एव निपातैर्य्यद्यदिहन्तेति तिङो निघाताभावः। बॄञ् व्यक्तायां वाचि। लुङि बृवो वचिः। अस्यतिवक्तिख्यातिभ्योऽङ्गिति च्लेरङादेशः। वच उमित्युमागमः। अडागमस्व्वरः। इदवधारणे। एषा ब्रह्मजाया पुरा प्रह्ये। हि गतौ व्रुद्धौ च। कर्मण्यौणादिकः क्विप्। तुगभवश्छान्दसः। ङिद्वचने संज्ञापूर्वकस्य विधेरनित्यत्वाद्गुनाभावः। उदात्तस्वरितयोर्यण इति सुपः स्वरितत्वम्। प्रहिताय त्वया भार्यान्वॆषणार्थं प्रेशिताय दुताय तथा न तस्थे। स्वात्मानम् न प्रकाशयति। तिष्ठतेर्लिटि प्रकाशनस्थेयाख्ययोश्च। पा. १-३-२३। इत्यात्मनेपदम्। श्लाघह्नुङ् स्थाशपाम्। पा. १-४-३४। इति दूतस्य सम्प्रदानसंज्ञा। तत्र दृष्टान्तः। यथा क्शत्रियस्य राज्ञो गुपितं रक्षितं राष्ट्रं राज्यं शत्रवे यथा न प्रकाशयति तद्वदसौ दौर्भाग्ययुक्ततया तस्मै स्वात्मानं न प्रकाशितवती। इदानीं तु तद्राहित्येन प्रकाशमानेयं ब्रह्मजायैवेत्यब्रुवन्॥३॥

10.109.4 समानपद
दे॒वा ए॒तस्या᳚मवदन्त॒ पूर्वे᳚ सप्तऋ॒षय॒स्तप᳚से॒ ये नि᳚षे॒दुः ।
भी॒मा जा॒या ब्रा᳚ह्म॒णस्योप᳚नीता दु॒र्धां द᳚धाति पर॒मे व्यो᳚मन् ॥
▶ पदपाठः (Word-by-word)
दे॒वाः । ए॒तस्या᳚म् । अ॒व॒द॒न्त॒ । पूर्वे᳚ । स॒प्त॒॑ऋ॒षयः᳚ । तप᳚से । ये । नि॒॑से॒दुः ।
भी॒मा । जा॒या । ब्रा॒ह्म॒णस्य᳚ । उप᳚॑नीता । दुः॒॑धाम् । द॒धा॒ति॒ । प॒र॒मे । वि॑ओ᳚मन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूर्वे चिरन्तना देवा आदित्यादय एतस्यां विषयेऽवदन्त। इयं पापरहितत्येत्यवादिषु। तथा ये सप्तर्षयः। अमासस्वरः। सप्तसङ्ख्याका ऋशयस्तपसे तपश्चरणाय निषेदुः निषण्णा बभूवुः। सदेर्लिटि रूपम्। उपसर्गेण समासः। यद्योगादनिघातः। तेऽप्यवादिषु। ततो भीमा शत्रुरूपाणां पापानां भयङ्करी सुकृतवत्येषा जाया ब्राह्मणस्य बृहस्पतेरुपनिता। समीपे देवैः स्थापिता। णीञ् प्रापणे। कर्मणि क्तः। गतिरन्त्न्तर इति गतेः प्रकृतिस्वरत्वम्। तथा हि। तपः प्रभावो दुर्धां दुर्धानामपि परमे व्योमन् व्योमन्युत्तमे स्थाने दधाति। विदधाति खलु। तस्मादेनामपि देवतापरिग्रहरूपस्तपोमहिमा बृहस्पतेरन्तिके स्थापयति॥४॥

10.109.5
ब्र॒ह्म॒चा॒री च᳚रति॒ वेवि᳚ष॒द्विष॒ः स दे॒वानां᳚ भव॒त्येक॒मङ्ग᳚म् ।
तेन᳚ जा॒यामन्व᳚विन्द॒द्बृह॒स्पति॒ः सोमे᳚न नी॒तां जु॒ह्वं१॒᳚ न दे᳚वाः ॥
▶ पदपाठः (Word-by-word)
ब्र॒ह्म॒॑चा॒री । च॒र॒ति॒ । वेवि᳚षत् । विषः᳚ । सः । दे॒वाना᳚म् । भ॒व॒ति॒ । एक᳚म् । अङ्ग᳚म् ।
तेन᳚ । जा॒याम् । अनु᳚ । अ॒वि॒न्द॒त् । बृह॒स्पतिः᳚ । सोमे᳚न । नी॒ताम् । जु॒ह्व᳚म् । न । दे॒वाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एवं सप्ततिर्मामलभतेति जुहूः परोक्षतया वद्ति। हे देवाः पूर्वं स ब्रह्मचारी जायाभावेन ब्रह्मचारी चरति। अत एव विषः सर्वेशु यज्ञेषु व्याप्तवान्देवान्वेविशत् स्तुतिभिर्हविभिश्च व्याप्नुवन् देवानामेकमङ्गं भवति। जायापती यज्ञस्य द्वे अङ्गे खलु। वेविषत्। विष्लृव्याप्तौ जौहोतादिकः। निजां त्रयाणां गुणः श्लौ। पा. ७-४-७५। इत्यभ्यासस्य गुणः। शतुर्नाभ्यस्ताच्छतुरिति नुमागमप्रतिषेधः। अभ्यस्तानामादिरित्याद्युदात्तत्वम्। तेन देवानां परिचरणेन ब्रुहस्पतिर्जायां जुहूनामिकां मामन्वविन्दत्। अनुगम्यालभत। नशब्द उपमार्थे। पूर्वं यथा सोमेन नीतां सोमो ददद्गन्धर्वाय। ऋ. १०-८५-४१। इत्यादि क्रमेण नीतां जुहूं जुहूं यथा लब्धवान् तद्वदिदानीमपि। जुहूम् । हु दानादनयोः। अन्येभ्योऽपि दृश्यत इति क्विप्। जुहोतेर्द्वे चेति द्विर्वचनं दीर्घश्च। उदात्तयणो यल्पूर्वादिति विभक्त्युदात्तत्वे प्राप्ते नोङ् धात्वोरिति प्रतिषेध उदात्त स्वरितयोर्यण इति स्वरितत्वम्॥५॥

10.109.6
पुन॒र्वै दे॒वा अ᳚ददु॒ः पुन᳚र्मनु॒ष्या᳚ उ॒त ।
राजा᳚नः स॒त्यं कृ᳚ण्वा॒ना ब्र᳚ह्मजा॒यां पुन᳚र्ददुः ॥
▶ पदपाठः (Word-by-word)
पुनः᳚ । वै । दे॒वाः । अ॒द॒दुः॒ । पुनः᳚ । म॒नु॒ष्याः᳚ । उ॒त ।
राजा᳚नः । स॒त्यम् । कृ॒ण्वा॒नाः । ब्र॒ह्म॒॑जा॒याम् । पुनः᳚ । द॒दुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

लाभहेतुमाह। देवा ब्रह्मजायां जुहूं बृहस्पतये पुनरददुः। वैशब्दः प्रसिद्धवाची। उताप्यर्थे। मनुश्युआ अपि पुनरददुः। एवं देवमनुष्यैः क्रुतं दानं सत्यं यथार्थं कृण्वानाः कुर्वाणाः राजानोऽपि पुनस्तस्मै ददुः। एवमव्यवहार्यनिमित्तं पापमपि व्यनाशयन्निति भावः॥६॥

10.109.7
पु॒न॒र्दाय᳚ ब्रह्मजा॒यां कृ॒त्वी दे॒वैर्नि᳚किल्बि॒षम् ।
ऊर्जं᳚ पृथि॒व्या भ॒क्त्वायो᳚रुगा॒यमुपा᳚सते ॥
▶ पदपाठः (Word-by-word)
पु॒नः॒॑दाय᳚ । ब्र॒ह्म॒॑जा॒याम् । कृ॒त्वी । दे॒वैः । नि॒॑कि॒ल्बि॒षम् ।
ऊर्ज᳚म् । पृ॒थि॒व्याः । भ॒क्त्वाय᳚ । उ॒रु॒॑गा॒यम् । उप᳚ । आ॒स॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवैः। सुपां सुपो भवन्तीति जसस्तृतीयादेशः। देवा निकिल्बिशं अर्थाभावेऽव्ययीभावः। समासस्वरः। तस्याः किल्बिशाभावं कृत्वी। स्नात्व्यादयश्चेति निपातितः। क्रुत्वा ब्रह्मजायां ब्रह्मणो ब्रुहस्पतेर्भार्यां पुनर्दाय पुनर्दत्वा। पुनश्चनसोश्छन्दसि गतिसंज्ञा वक्तव्येति। पा. १-४-६०-२। पुनः शब्दस्य गतिसंज्ञायां समासल्यपौ। न ल्यपि। पा. ६-४-६९। इतीत्वप्रतिषेधः। क्रुदुत्तरपदप्रकृतिस्वरत्वम् । प्रुथिव्या ऊर्जं रसभूतमन्नं हवीरूपम् भक्त्वाय। क्त्वो यक्। पा. ७-१-४७। इति यगागमः। भक्त्वा विभज्योरुगायम् बहुकीर्तिं बहुभिः स्तोतव्यं वा बार्हस्पत्यं यज्ञमुपासते। सेवन्ते॥७॥