दशमं मण्डलम् - सूक्तम् 61

27 ऋचः

ऋषिः: नाभानेदिष्ठो मानवः देवता: विश्वेदेवाः छन्दः: त्रिष्टुप्

सूक्तम् 10.61 - सम्पूर्णम्

1 / 27
ऋक्: 10.61.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (27)
10.61.1
इ॒दमि॒त्था रौद्रं᳚ गू॒र्तव᳚चा॒ ब्रह्म॒ क्रत्वा॒ शच्या᳚म॒न्तरा॒जौ ।
क्रा॒णा यद᳚स्य पि॒तरा᳚ मंहने॒ष्ठाः पर्ष᳚त्प॒क्थे अह॒न्ना स॒प्त होतॄ᳚न् ॥
▶ पदपाठः (Word-by-word)
इ॒दम् । इ॒त्था । रौद्र᳚म् । गू॒र्त॑व᳚चाः । ब्रह्म᳚ । क्रत्वा᳚ । शच्या᳚म् । अ॒न्तः । आ॒जौ ।
क्रा॒णा । यत् । अ॒स्य॒ । पि॒तरा᳚ । मं॒ह॒ने॒॑स्थाः । पर्ष᳚त् । प॒क्थे । अह᳚न् । आ । स॒प्त । होतॄ᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पञ्चमेऽनुवाकेऽष्टौ सूक्तानि। तत्रेदमित्थेति सप्तविंशत्यृचं प्रथमं सूक्तं मानवस्य नाभानेदिष्ठस्यादिष्ठस्यार्षं त्रैष्टुभम्। इदमादीनि षट् सूक्तानि वैश्वदेवानि। तथा चानुक्रान्तम्। इदमित्था सप्ताधिका नाभानेदिष्ठो मानवो वैश्वदेवं तदिति। पृष्थ्यस्यषष्थेऽहनि वैश्वदेवशस्त्र अभिप्लविकातिदेशप्राप्तस्योषासानक्तेत्यस्य स्थान इदं सूक्तम्। सूत्रितं च। उद्धृत्य चोत्तमं सूक्तं त्रीणीदमित्था रौद्रमिति। आ. ८-१। इति। अत्रैतरेयब्राह्मणम्। नाभानेदिष्ठं वै मानवं ब्रह्मचर्यं वसन्तं भ्रातरो निरभजंत्सोऽब्रवीदेत्य किं मह्यमभाक्तेत्येतमेव निष्ठावमववदितारमित्यब्रुवन्नित्यादि। ऐ. ब्रा. ५-१४। तत्र नाभानेदिष्ठो भ्रातृभिर्भागे निराकृतः पितृसामीप्यमागत्य किं मह्यं भागं न कल्पितवानसीत्यपृच्छत्। स च किमनेन भागेन। आङ्गिरसः स्वर्गार्थं सत्त्रमासीनाः षष्ठाहः पर्यन्तमनुष्ठयमुह्यन्ति। तानिदमित्थेति सूक्ते शम्सय ते स्वर्गं यन्तो वसिष्ठा गाः सहस्रसङ्ख्याकान्दास्यन्तीति पित्रा प्रेरितोऽङ्गिरसां समीपमागत्य तेभ्यः सत्त्रपरिवेषणम् गोसहस्रमुत्कोचं परिकल्प्य तानेते सूक्ते षष्ठेऽहन्यशंसयत्। ते च तत्सुक्तसामर्थ्याद्यज्ञं पारं प्रापय्य स्वर्जिगमिषवोऽस्मै गो सहस्रं प्रादुः। शं च तद्गोसहस्रं स्वीकुर्वाणं कश्णन कृष्नशवासी पुरुष उत्तरत उत्थाय ब्राह्मण मदीयं यज्ञशेशभागं मा स्वीकुर्वित्यब्रवित्। स च मह्यमङ्गिरसः प्रादुरिति प्रत्यब्रवीत्। तर्हि ब्राह्मण तव पितरमेव पृच्छ कस्मै भागः प्राप्नुयादित्युक्तः पितृसमीपमागत्य पित्रा रुद्रायायं न्याय्य इति तेनोक्तस्तवैवायं भाग इति मम पिताब्रवीदिति प्रत्युवाच। ततो यथार्थकथनेन तुष्टः पुरुषोनाभानेदिष्ठायैव स्वम् भागं प्रादादित्युक्तम्। तथाध्वर्युर्ब्राह्मणेऽपि मनुः पुत्रेभ्यो दायं व्यभजत् स नाभानेदिष्ठम्। तै. सं. ३-१-९-४। इत्यादिनायमर्थ उक्तः। तत्सर्वमत्रानुसन्धेयम्॥

गूर्तवचा उद्यतवचनो नाभानेदिष्ठ इदं ब्रह्म स्तोत्रं रौद्रं रुद्रप्रणितमित्थेत्थमिदानींक्रियमानप्रकारं क्रत्वा प्रज्ञानेन निष्पाद्यं स्तोत्रं शच्यामन्तः कर्मणी सत्त्रमध्य आजावङ्गिरसाम् सङ्घे करोतीति शेषः। यत्सोत्रं क्राणा भगं कुर्वाना भागं कुर्वाणावस्य पितरा पितरावन्ये च मंहनेष्ठा भागप्रदाने वर्तमाना भ्रातरश्च गोलाभसाधनत्वेनाकल्पयन्निति शेशः। तेन नाभानेदिष्ठः पक्थे पक्तव्येऽहन्नहनि। षष्ठेऽहनीत्यर्थः। ते षष्ठं षष्ठमेवाहरागत्यमुह्यन्ति तानेते सूक्ते षष्ठेऽहनि शंसय। ऐ. ब्रा. ५-१४। इत्युक्तत्वात्। सप्तहोतॄन् होतृप्रशास्तृब्राह्मणाच्छंस्यादिकाना पर्षत्। सर्वतोऽपूरयत्। इदमित्थेति सूक्ताभ्यां यज्ञपारं प्रापयामासेत्यर्थः॥१॥

10.61.2
स इद्दा॒नाय॒ दभ्या᳚य व॒न्वञ्च्यवा᳚न॒ः सूदै᳚रमिमीत॒ वेदि᳚म् ।
तूर्व᳚याणो गू॒र्तव᳚चस्तम॒ः क्षोदो॒ न रेत᳚ इ॒तऊ᳚ति सिञ्चत् ॥
▶ पदपाठः (Word-by-word)
सः । इत् । दा॒नाय᳚ । दभ्या᳚य । व॒न्वन् । च्यवा᳚नः । सूदैः᳚ । अ॒मि॒मी॒त॒ । वेदि᳚म् ।
तूर्व᳚याणः । गू॒र्तव᳚चः॑तमः । क्षोदः᳚ । न । रेतः᳚ । इ॒तः॑ऊ᳚ति । सि॒ञ्च॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

स इत् स कृष्णशवासी पुरुषो रुद्राख्यो दानाय स्तोतृणां धनप्रदानाय दभ्याय शत्रूणां वधाय च वन्वन् स्तोतॄन्सम्भजन् सूदैः सूदकैर्हिंसकैः शस्त्रैश्च्यवानो रक्षांसि च्यावयन् वेदिममिमीत। परिमितवान्। यज्ञवास्त्वधिष्ठितवानित्यर्थः। तं कृष्णरवास्युत्तरत उपोत्थायाब्रविन्मम वा इदं मम वै वास्तुहमितीति ब्राह्मणम् । ऐ. ब्रा. ५-१४। तदेवाह। तूर्वयाणस्तूर्णगमनो गूर्तवचस्तमोऽत्यन्तमुद्यतवचा रुद्रः क्षोदोनोदकमिव। उदकं यथा घनः सिञ्चति तद्वद्रेतः स्वसामर्थ्यमितऊतीतोगमनवद्यथा भवति तथा सिञ्चत्। प्रेरितवानित्यर्थः। यद्वा। अनेनोत्तरार्धेनोत्तराभ्यां च प्रासङ्गिक्यश्विनोः स्तुति क्रियते। तूर्वयाणस्तूर्णगमनोऽतिशयेनोद्यतवचनो रुद्रः क्षोदो नोदकमिव रेतः उत्पादनसामर्थ्योपेतं रेत इतऊति सिञ्चत्। जनयामासाश्विनौ। अन्यत्रेत ऊतीत्यश्विनोरभिधानादन्यत्र तयो रुद्रपुत्रत्वसिद्धेश्चायमर्थो लभ्यते॥२॥

10.61.3
मनो॒ न येषु॒ हव᳚नेषु ति॒ग्मं विप॒ः शच्या᳚ वनु॒थो द्रव᳚न्ता ।
आ यः शर्या᳚भिस्तुविनृ॒म्णो अ॒स्याश्री᳚णीता॒दिशं॒ गभ᳚स्तौ ॥
▶ पदपाठः (Word-by-word)
मनः᳚ । न । येषु᳚ । हव᳚नेषु । ति॒ग्मम् । विपः᳚ । शच्या᳚ । व॒नु॒थः । द्रव᳚न्ता ।
आ । यः । शर्या᳚भिः । तु॒वि॒॑नृ॒म्णः । अ॒स्य॒ । अश्री᳚णीत । आ॒॑दिश᳚म् । गभ᳚स्तौ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ युवां मनो न मन इव यथा मनस्तिग्मं तीक्ष्णमाशु धावति आगच्छति एवं येषु हवनेष्वह्वानेषु विपः स्तोतुः शच्य प्रज्ञानेन गन्तव्यमिति बुद्ध्याद्रवन्ता द्रवन्तौ गच्छन्तौ वनुथः सम्भजथः। योऽध्वर्युरा अभिमुख्येन तुविनृम्णः प्रभूतहविर्लक्षणधनः सन्नस्य कर्मणि प्रवृत्तस्य मम सम्बन्धी शर्याभिरङ्गुलीभिरश्रीणीत श्रीणाति। किं कृत्वा। बघस्तौ हस्ते धृत्वादिशम् । इदमश्विभ्यामिति निर्दिश्येथर्थः। तादृशं मदीयमध्वर्युं येषु हवनेषु वनुथः सम्भजथः तौ युवां हुव इत्युत्तरत्र सम्बन्धः॥३॥

10.61.4
कृ॒ष्णा यद्गोष्व᳚रु॒णीषु॒ सीद᳚द्दि॒वो नपा᳚ताश्विना हुवे वाम् ।
वी॒तं मे᳚ य॒ज्ञमा ग᳚तं मे॒ अन्नं᳚ वव॒न्वांसा॒ नेष॒मस्मृ᳚तध्रू ॥
▶ पदपाठः (Word-by-word)
कृ॒ष्णा । यत् । गोषु᳚ । अ॒रु॒णीषु᳚ । सीद᳚त् । दि॒वः । नपा᳚ता । अ॒श्वि॒ना॒ । हु॒वे॒ । वा॒म् ।
वी॒तम् । मे॒ । य॒ज्ञम् । आ । ग॒त॒म् । मे॒ । अन्न᳚म् । व॒व॒न्वांसा᳚ । न । इष᳚म् । अस्मृ᳚तध्रू॒ इत्यस्मृ᳚त॑ध्रू ॥
▶ सायणभाष्यम् (Sayana Commentary)

कृष्णा रात्रिर्यदादारुणीश्वरुणवर्णासु गोषु सीदत् निवसति। उषा विभासनाय रथमधितिष्ठतीत्यर्थः। अरुण्यो गाव उषसामिति निरुक्तम्। उषः काले हे दिवो नपाता दीप्यमानस्य स्वर्गस्य प्रकाशात्मकस्य यागस्य वा न पातयितारौ हे अश्विनौ वां हुवे। आह्वये। वीतं कामयेथां मेऽन्नं हविर्लक्षणम् । तदर्थं मे यज्ञमा गतम्। आगच्छतम्। इषमन्नं ववन्वांसा न सम्भजमानावश्वाविव। तद्वदागतम् । कीदृशौ युवाम् । अस्मृतध्रू। अस्मृतद्रोहौ मयि द्रोहमस्मरन्तौ॥४॥

10.61.5
प्रथि᳚ष्ट॒ यस्य᳚ वी॒रक᳚र्ममि॒ष्णदनु᳚ष्ठितं॒ नु नर्यो॒ अपौ᳚हत् ।
पुन॒स्तदा वृ᳚हति॒ यत्क॒नाया᳚ दुहि॒तुरा अनु᳚भृतमन॒र्वा ॥
▶ पदपाठः (Word-by-word)
प्रथि᳚ष्ट । यस्य᳚ । वी॒र॑क᳚र्मम् । इ॒ष्णत् । अनु᳚॑स्थितम् । नु । नर्यः᳚ । अप᳚ । औ॒ह॒त् ।
पुन॒रिति᳚ । तत् । आ । वृ॒ह॒ति॒ । यत् । क॒नायाः᳚ । दु॒हि॒तुः । आः । अनु᳚॑भृतम् । अ॒न॒र्वा ॥
▶ सायणभाष्यम् (Sayana Commentary)

यथा स्वांशेन भगवान्रुद्रः प्रजापतिर्वास्तोष्पतिं रुद्रमसृजत् तदेतदादिभिस्तिसृभिर्वदति। यस्य प्रजापतेरिष्णदेषणवद्वीरकर्मम्। लङ्गव्यत्ययः। वीरकर्म। रेत इत्यर्थः। येन रेतसोत्पन्ना वीरा भवन्ति तादृग्रेतः प्रथिष्ट प्रथितमासीत् तद्रेतोऽनुष्टितं प्रजापतिनापत्यार्थं निषिक्तम् नर्यो नरेभ्यो हितो यद्वा नेतृभ्यो देवेभ्यो हितो रुद्रोऽपौहत्। अपोहति। तदेवाह। पुनन्तद्रेत आ वृहति। सर्वत उत्खिदति। उद्गमयति पुरुषाकारेण स्वयमुत्पन्नः सन्। कीदृशं रेतः। यद्रेतः कनायाः कान्ताया दुहितुः स्वपुत्र्याः। तस्यामित्यर्थः। तत्र प्रजापतिनानुभृतमाः आसीत्। आस्तेः सिपि। कीदृशो रुद्रः। अनर्वान्यस्मिन्नप्रत्यृतः। प्रजापतिर्वै स्वां दुहितरमभ्यधायद्दिवमित्यन्य आहुरुषसमित्यन्ये। ऐ. ब्रा. ३-३३। इति ब्राह्मणम्॥५॥

10.61.6
म॒ध्या यत्कर्त्व॒मभ᳚वद॒भीके॒ कामं᳚ कृण्वा॒ने पि॒तरि᳚ युव॒त्याम् ।
म॒ना॒नग्रेतो᳚ जहतुर्वि॒यन्ता॒ सानौ॒ निषि᳚क्तं सुकृ॒तस्य॒ योनौ᳚ ॥
▶ पदपाठः (Word-by-word)
म॒ध्या । यत् । कर्त्व᳚म् । अभ᳚वत् । अ॒भीके᳚ । काम᳚म् । कृ॒ण्वा॒ने । पि॒तरि᳚ । यु॒व॒त्याम् ।
म॒ना॒नक् । रेतः᳚ । ज॒ह॒तुः॒ । वि॒॑यन्ता᳚ । सानौ᳚ । नि॑सि᳚क्तम् । सु॒॑कृ॒तस्य᳚ । योनौ᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

कामं यथेच्छं कृण्वाने कुर्वाणे पितरि प्रजापतौ युवत्यां दुहितर्युषसि दिवि वा। दिवमित्यन्य इति हि ब्राह्मणं प्रदर्शितम्। मध्या तयोर्मध्येऽन्तरिक्षमध्ये वाभीके समीपे यत्कर्त्वं कर्माभवत् मिथुनीभावाख्यं तदानीं मनानगनल्पं रेतो जहतुः। त्यक्तवन्तौ। किं कुर्वाणविति तत्राह। वियन्तौ परस्परमभिगच्छन्तौ। प्रजापतिना नानौ समुच्छ्रिते स्थाने सुकृतस्य यज्ञस्य योनौ निशिक्तमासीदित्यर्थः। ततो रुद्र उत्पन्न इत्यर्थः॥६॥

10.61.7
पि॒ता यत्स्वां दु᳚हि॒तर᳚मधि॒ष्कन्क्ष्म॒या रेतः᳚ संजग्मा॒नो नि षि᳚ञ्चत् ।
स्वा॒ध्यो᳚॑जनय॒न्ब्रह्म᳚ दे॒वा वास्तो॒ष्पतिं᳚ व्रत॒पां निर᳚तक्षन् ॥
▶ पदपाठः (Word-by-word)
पि॒ता । यत् । स्वाम् । दु॒हि॒तर᳚म् । अ॒धि॒॑स्कन् । क्ष्म॒या । रेतः᳚ । स॒म्॑ज॒ग्मा॒नः । नि । सि॒ञ्च॒त् ।
सु॒॑आ॒ध्यः᳚ । अ॒ज॒न॒य॒न् । ब्रह्म᳚ । दे॒वाः । वास्तोः᳚ । पति᳚म् । व्र॒त॒॑पाम् । निः । अ॒त॒क्ष॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पिता प्रजापतिर्यद्यदा स्वां दुहितरं दिवमुशं वाधिष्कन् अध्यस्कन्दत् तदानीमेव क्ष्मया पृथिव्या सह सञ्ज्ग्मानः सङ्गच्छमानः प्रजापतिरस्मिल्लोके रोहितो भुत्वा रेतो नि षिञ्चत्। निषेकमकरोत्। तामृश्यो भूत्वा रोहितं भुतामभ्यैदिति ब्राह्मणम्। ऐ. ब्रा. ३-३३। तदानीं स्वाध्यः सुध्यानाः सुकर्माणो वा देवा ब्रह्माजनयन्। उदपादयन्। किं तद्ब्रह्मेति तदाह। वास्तोष्पतिं यज्ञवास्तुस्वामिनं व्रतपां व्रतस्य कर्मणो रक्षः प्रभृतिभ्यः पालकं निरक्षन्। समुदपादयन्। यज्ञवास्तुस्वामित्वं दत्त्वा कर्मरक्षकत्वेन निर्मितवन्त इत्यर्थः॥७॥

10.61.8
स ईं॒ वृषा॒ न फेन᳚मस्यदा॒जौ स्मदा परै॒दप᳚ द॒भ्रचे᳚ताः ।
सर᳚त्प॒दा न दक्षि᳚णा परा॒वृङ्न ता नु मे᳚ पृश॒न्यो᳚ जगृभ्रे ॥
▶ पदपाठः (Word-by-word)
सः । ई॒म् । वृषा᳚ । न । फेन᳚म् । अ॒स्य॒त् । आ॒जौ । स्मत् । आ । परा᳚ । ऐ॒त् । अप᳚ । द॒भ्र॑चे᳚ताः ।
सर᳚त् । प॒दा । न । दक्षि᳚णा । प॒रा॒॑वृक् । न । ताः । नु । मे॒ । पृ॒श॒न्यः᳚ । ज॒गृ॒भ्रे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अङ्गिरसां सत्त्रान्ते नाभानेदिष्ठो गा निरोधयन्तं वास्तोष्पतिं पुरतः पश्यन्वदति। स ईम् । सोऽयं वृषा न वर्षक इन्द्र इव स यथा नमुचेर्वधार्थ माजौ सङ्ग्रामे फेनमस्यत् क्षिप्तवान् तद्वत्क्षेपमना वास्तोष्पतिरिदानीं तवैव वास्तुभागो युक्त इति यथार्थकथनानन्तरं स्मदस्मत्त आप परैत्। अपपरागच्छति। दभ्रचेता अल्पमनस्को यः कश्चिद्दक्षिणा दक्षिणार्थानां गवां परावृक् परावर्जयिता सन् पदा पदानि न सरत्। न सरति। अस्मदभिमुखमागच्छति। मे मम सम्बन्धिन्यस्ता गा अङ्गिरोभिर्दत्ताः पृशन्यः पथिकानामभिस्पर्शनकुशलो रुद्रो न जगृभ्रे। न ग्रुह्णातीत्येवमाशास्ते॥८॥

10.61.9
म॒क्षू न वह्नि᳚ः प्र॒जाया᳚ उप॒ब्दिर॒ग्निं न न॒ग्न उप᳚ सीद॒दूधः᳚ ।
सनि᳚ते॒ध्मं सनि᳚तो॒त वाजं॒ स ध॒र्ता ज᳚ज्ञे॒ सह᳚सा यवी॒युत् ॥
▶ पदपाठः (Word-by-word)
म॒क्षु । न । वह्निः᳚ । प्र॒॑जायाः᳚ । उ॒प॒ब्दिः । अ॒ग्निम् । न । न॒ग्नः । उप᳚ । सीद᳚त् । ऊधः᳚ ।
सनि᳚ता । इ॒ध्मम् । सनि᳚ता । उ॒त । वाज᳚म् । सः । ध॒र्ता । ज॒ज्ञे॒ । सह᳚सा । य॒वि॒॑युत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वास्तोष्पतिना रुद्रेण गोप्यमानेऽस्मिन्यज्ञे वह्निर्वह्निवद्दाहको राक्षसादिर्मक्षु न शीघ्रं नोप सीदत्। नागच्छति। यो वह्निः प्रजाया उपब्दिरुपपीडको भवति यज्ञविघातार्थमागच्छति। ऋत्विगादिरूपायाः प्रजाया न पीडां करोत्यहनि। तथोधः। रात्रिनामैतत्। रात्रावप्यग्निं ज्वलन्तं नग्नो विवसनो राक्षसादिर्नोपसीदत्। एवं रुद्रे रक्षितरि सति सोऽग्निरिध्मं सनिता जज्ञे। उत्पन्नः। उतापि च वाजमन्नं हविः सैता जज्ञे। स धर्ता यज्ञस्य फलस्य वा धारक उत्पन्नः सोऽग्निः सहसा बलेन यवीयुद्यज्ञमिश्रयितॄणां रक्षः प्रभृतीनां योद्धा जज्ञे॥९॥

10.61.10
म॒क्षू क॒नाया᳚ः स॒ख्यं नव᳚ग्वा ऋ॒तं वद᳚न्त ऋ॒तयु᳚क्तिमग्मन् ।
द्वि॒बर्ह᳚सो॒ य उप᳚ गो॒पमागु᳚रदक्षि॒णासो॒ अच्यु᳚ता दुदुक्षन् ॥
▶ पदपाठः (Word-by-word)
म॒क्षु । क॒नायाः᳚ । स॒ख्यम् । नव᳚॑ग्वाः । ऋ॒तम् । वद᳚न्तः । ऋ॒त॑यु᳚क्तिम् । अ॒ग्म॒न् ।
द्वि॒॑बर्ह᳚सः । ये । उप᳚ । गो॒पम् । आ । अगुः᳚ । अ॒द॒क्षि॒णासः᳚ । अच्यु᳚ता । दु॒धु॒क्ष॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

नवग्वा अङ्गिरसः। गवामयनाख्यं सत्रमनुतिष्ठामङ्गिरसां मध्ये ये नवसु मासेषु लब्धगावः सन्त उत्थितास्ते नवग्वाः। त ऋतं वदन्तो मक्षु शीघ्रं कनायाः कमनीयायाः स्तुतेर्नाभानेदिष्ठप्रेरितायाः सकाशादृतयुक्तिमग्मन्। उक्तयोगपरिसमाप्तिमग्मन्। प्राप्ताः। यद्वा। ऋतयुक्तिं यज्ञयोतोपेतमृतं शब्दं स्तुतिं वदन्तोऽङ्गिरसः कनायाः पृश्न्याः सख्यमग्मन्निति योजना। द्विबर्हसो द्वयोः स्थानयोर्द्यावापृथिव्योः परिवृढायेऽङ्गिरसो गोपं गोपयितारम् नाभानेदिष्थमिन्द्रम् वोपागुः उपगताः तेऽदक्षिणासो दक्शिणारहिताः। अदक्षिणानि सत्राणीत्याहुरिति हि वचनं ये यजमानास्त ऋत्विज इति। ते चाच्युतोदककान्यक्षीणानि फलानि वा दुधुक्षन्॥१०॥

10.61.11
म॒क्षू क॒नाया᳚ः स॒ख्यं नवी᳚यो॒ राधो॒ न रेत᳚ ऋ॒तमित्तु᳚रण्यन् ।
शुचि॒ यत्ते॒ रेक्ण॒ आय᳚जन्त सब॒र्दुघा᳚या॒ः पय᳚ उ॒स्रिया᳚याः ॥
▶ पदपाठः (Word-by-word)
म॒क्षु । क॒नायाः᳚ । स॒ख्यम् । नवी᳚यः । राधः᳚ । न । रेतः᳚ । ऋ॒तम् । इत् । तु॒र॒ण्य॒न् ।
शुचि᳚ । यत् । ते॒ । रेक्णः᳚ । आ॒॑अय᳚जन्त । स॒बः॒॑दुघा᳚याः । पयः᳚ । उ॒स्रिया᳚याः ॥
▶ सायणभाष्यम् (Sayana Commentary)

मक्षु शीघ्रं कनायाः कमनीयाया घर्मदोग्ध्र्या नवीयो नवतरम् सख्यम् । प्राप्येति शेशः। अथवा नवीय इति राधोविशेशनम्। नवतरं राधो धनमिव रेतः सिच्यमानमृतमुदकम् तरुण्यन्। दिवः सकाशात्प्रेरितवन्तः। हे इन्द्र ते तुभ्यं यद्यदा रेक्णः पाथोलक्षणं धनमाभिमुखमयजन्त अपूजयन्। कीदृशं रेक्णः। सबर्दुघायाः। सबरित्यमृतनाम। अमृतदोग्ध्र्या उस्रियाया गोः पयः पानयोग्यं रसम् । तदोदकं तरुण्यन्निति। अत्राध्वर्युब्राह्मणम्। अङ्गिरसो वै सत्रमासत तेषां पृश्निर्घर्मधुगासीत् सर्जीषेणाजिवत् तेऽब्रुवन् कस्मै नु सत्रमास्महे येऽस्या ओषधीर्न जनयाम इति ते दिवो वृष्टिमसृजन्त। तै. ब्रा. २-१-१-१। इति॥११॥

10.61.12 समानपद
प॒श्वा यत्प॒श्चा वियु᳚ता बु॒धन्तेति᳚ ब्रवीति व॒क्तरी॒ ररा᳚णः ।
वसो᳚र्वसु॒त्वा का॒रवो᳚॑ने॒हा विश्वं᳚ विवेष्टि॒ द्रवि᳚ण॒मुप॒ क्षु ॥
▶ पदपाठः (Word-by-word)
प॒श्वा । यत् । प॒श्चा । वि॑यु᳚ता । बु॒धन्त᳚ । इति᳚ । ब्र॒वी॒ति॒ । व॒क्तरि᳚ । ररा᳚णः ।
वसोः᳚ । व॒सु॒॑त्वा । का॒रवः᳚ । अ॒ने॒हा । विश्व᳚म् । वि॒वे॒ष्टि॒ । द्रवि᳚णम् । उप᳚ । क्षु ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्यदा स्तोतारः पश्वा पशुना। गोसमूहेनेत्यर्थः। तेन वियुतावियुक्तानि स्वकीयानि गोस्थानानि पश्चा पश्चाद्बुधन्त अजानन् तदानीं कारवः कारुरित्यर्थः। इति ब्रविति। इत्थं ब्रूते। किमिति। वक्तरि स्तोतरि रराणॊ रममाणो वसोर्वासकाद्वसुत्वातिशयेन वासयिता। यद्वा। वसुत्वेति समूहार्थे त्वा नामकरणः। गोरूपधनवतोऽतिशयेन गोसमूहवानित्यर्थः। अनेहा आपाप इन्द्रो विश्वं सर्वं द्रविणं गोरूपं पणिभिरपहृतं धनं क्षु। मक्ष्वित्यर्थः। शीघ्रमुप विवेष्टि। उपव्याप्नोति पुनरादातुम् । अयमर्थः। यदेन्द्रस्य स्तोतारोऽसुरैरपहृतमात्मीयं गोधनं जानन्ति ततः प्रागेवागत्येन्द्रस्तं न्यरुधदिति॥१२॥

10.61.13
तदिन्न्व᳚स्य परि॒षद्वा᳚नो अग्मन्पु॒रू सद᳚न्तो नार्ष॒दं बि᳚भित्सन् ।
वि शुष्ण᳚स्य॒ संग्र᳚थितमन॒र्वा वि॒दत्पु᳚रुप्रजा॒तस्य॒ गुहा॒ यत् ॥
▶ पदपाठः (Word-by-word)
तत् । इत् । नु । अ॒स्य॒ । प॒रि॒॑सद्वा᳚नः । अ॒ग्म॒न् । पु॒रु । सद᳚न्तः । ना॒र्स॒दम् । बि॒भि॒त्सन् ।
वि । शुष्ण᳚स्य । सम्॑ग्र᳚थितम् । अ॒न॒र्वा । वि॒दत् । पु॒रु॒॑प्र॒जा॒तस्य᳚ । गुहा᳚ । यत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

तदित्तत्रैव नु क्षिप्रमस्येन्द्रस्य परिषद्वानः परितो वर्तमानाः परिचारका रश्मयोऽग्मन्। प्रकाशनार्थमगच्छन्। पुरु पुरूणि कृत्रिमाणि सदन्तः सीदन्तोऽसुरा नार्षदं नृषदः पुत्रं बिभित्सन्। भेत्तुमैच्छन्। किञ्चायं शुष्णस्यैतन्नाम कस्यासुरस्य पुरुप्रजातस्य बहुप्रादुर्भावस्य संग्रथितं मर्म विदत्। वेत्ति। अयमिन्द्रो यदसुरस्य दुर्ज्ञेयं मर्म गुहा गुहायां गोपितं तद्विदत्॥१३॥

10.61.14
भर्गो᳚ ह॒ नामो॒त यस्य᳚ दे॒वाः स्व१॒᳚र्ण ये त्रि᳚षध॒स्थे नि᳚षे॒दुः ।
अ॒ग्निर्ह॒ नामो॒त जा॒तवे᳚दाः श्रु॒धी नो᳚ होतरृ॒तस्य॒ होता॒ध्रुक् ॥
▶ पदपाठः (Word-by-word)
भर्गः᳚ । ह॒ । नाम᳚ । उ॒त । यस्य᳚ । दे॒वाः । स्वः᳚ । न । ये । त्रि॒॑स॒ध॒स्थे । नि॒॑से॒दुः ।
अ॒ग्निः । ह॒ । नाम᳚ । उ॒त । जा॒त॑वे᳚दाः । श्रु॒धि । नः॒ । हो॒तः॒ । ऋ॒तस्य᳚ । होता᳚ । अ॒ध्रुक् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापि च भर्गो ह नाम तत्त्तेजः किल प्रसिद्धं यस्य तेजस आग्नेयस्य सम्बन्धिनि त्रिषधस्ते बर्हिषि ये देवाः सन्ति ते सर्वे स्वर्ण स्वर्गे यथा तथैव निषेदुः निषीदन्ति। उतापि च तत्तेजोऽग्निर्ह नामाग्निः किल नाम। उतापि च जातवेदा जातप्रज्ञो जातानां वेदितैतदपि तस्य तेजसो नाम। अग्नेर्घर्ग इत्यग्निरिति जातवेदा इति च त्रीणि नामानीत्यर्थः। अथ प्रत्यक्षकृतः। हे होतर्होमनिष्पादकोक्तनामाग्ने ऋतस्य होता यज्ञस्य सम्बन्धिनां देवानामाह्वाताध्रुग्ध्रोहरहितस्त्वं नोऽस्माकमाह्वानं श्रुधि। शृणु॥१४॥

10.61.15
उ॒त त्या मे॒ रौद्रा᳚वर्चि॒मन्ता॒ नास᳚त्याविन्द्र गू॒र्तये॒ यज᳚ध्यै ।
म॒नु॒ष्वद्वृ॒क्तब᳚र्हिषे॒ ररा᳚णा म॒न्दू हि॒तप्र᳚यसा वि॒क्षु यज्यू᳚ ॥
▶ पदपाठः (Word-by-word)
उ॒त । त्या । मे॒ । रौद्रौ᳚ । अ॒र्चि॒॑मन्ता᳚ । नास᳚त्यौ । इ॒न्द्र॒ । गू॒र्तये᳚ । यज᳚ध्यै ।
म॒नु॒ष्वत् । वृ॒क्त॑ब᳚र्हिषे । ररा᳚णा । म॒न्दू इति᳚ । हि॒त॑प्र᳚यसा । वि॒क्षु । यज्यू॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापि च हे इन्द्र त्या तौ प्रसिद्धौ रौद्रौ रुद्र पुत्रौ। क्षोदो न रेत इतऊति सिञ्चत्। ऋ. १०-६१-२। इति हि रुद्रपुत्रत्वमुक्तम्। अर्चिमन्ता दीप्तिमन्तौ नासत्यावश्विनौ मे गुर्तये स्तुतये यजध्यै यागाय च भवेतामिति शेशः किञ्च मनुष्वन्मम पितुर्मनोरिव तस्य यज्ञे यथा तथैव वृक्तबर्हिषे स्तीर्णबर्हिषे मह्यम् रराना रममाणौ मन्दू मदिष्णू हितप्रयसा प्रेरितधनौ विक्ष्वृत्विक्ष्वस्मदीयेशु तथा यज्यू यष्टव्यौ भवतमिति शेशः॥१५॥

10.61.16 समानपद
अ॒यं स्तु॒तो राजा᳚ वन्दि वे॒धा अ॒पश्च॒ विप्र᳚स्तरति॒ स्वसे᳚तुः ।
स क॒क्षीव᳚न्तं रेजय॒त्सो अ॒ग्निं ने॒मिं न च॒क्रमर्व᳚तो रघु॒द्रु ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । स्तु॒तः । राजा᳚ । व॒न्दि॒ । वे॒धाः । अ॒पः । च॒ । विप्रः᳚ । त॒र॒ति॒ । स्व॑से᳚तुः ।
सः । क॒क्षीव᳚न्तम् । रे॒ज॒य॒त् । सः । अ॒ग्निम् । ने॒मिम् । न । च॒क्रम् । अर्व᳚तः । र॒घु॒॑द्रु ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयं वेधाह् सर्वस्य विधाता राजा सोमः स्तुतः सर्वैर्विन्दि। स्तूयतेऽस्माभिः। किञ्च विप्रो विशेशेण पुरको विप्रवच्छुद्धो वा स्वसेतुर्यस्य स्वभूता रश्मयो जगद्बन्धकाः सन्ति स सोमोऽपश्चान्तरिक्षम् च तरति। लङ्घयति प्रतिदिनम्। स सोमः कक्षीवन्तमृषिं पर्वतमध्ये सोमार्थं गतं रेजयत् सः स एवाग्निं हविर्वोढुमशक्तम् सन्तं पलाय्याप्सु प्रविष्टं रेजयत्। अकम्पयत्। कम्पने दृष्टान्तः। नेमिं नमनशीलं रघुद्रु लघुगमनं चक्रमर्वतोऽर्वन्तोऽश्वा इव ते यथा तथा रेजयत्। नुमभावश्छान्दसः॥१६॥

10.61.17 समानपद
स द्वि॒बन्धु᳚र्वैतर॒णो यष्टा᳚ सब॒र्धुं धे॒नुम॒स्वं᳚ दु॒हध्यै᳚ ।
सं यन्मि॒त्रावरु᳚णा वृ॒ञ्ज उ॒क्थैर्ज्येष्ठे᳚भिरर्य॒मणं॒ वरू᳚थैः ॥
▶ पदपाठः (Word-by-word)
सः । द्वि॒॑बन्धुः᳚ । वै॒त॒र॒णः । यष्टा᳚ । स॒बः॒॑धुम् । धे॒नुम् । अ॒स्व᳚म् । दु॒हध्यै᳚ ।
सम् । यत् । मि॒त्रावरु᳚णा । वृ॒ञ्जे । उ॒क्थैः । ज्येष्ठे᳚भिः । अ॒र्य॒मण᳚म् । वरू᳚थैः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोग्निर्दिबन्धुर्द्वयोर्लोकयोर्बन्धुभुतो वैतरनः सर्वस्य विशेषेण तारयिता। यद्वा। वितरणार्हो हविष्प्रदानार्हः। यष्टा देवानां याजकोऽग्निः सबर्धुममृतोपमपयोदोग्ध्रीं धेनुमस्वमप्रसूतां निवृत्तप्रसवां तयवे दुहध्यै दोहायाकरोत्। यद्यदा स शयुर्मित्रावरुणावर्यमणं च ज्येष्थेभिर्ज्येष्ठैः प्रशस्तैर्वरूथैर्वरणीयैरुक्थैः शस्त्रैः सं वृञ्जे सम्यक् स्तौति। यदा स शयुर्मित्रावरुणार्यम्णां स्तुतिं करोति तद तेषामाज्ञायाग्निर्निवृत्त प्रसवा पयोदोग्ध्रीमकरोदिति॥१७॥

10.61.18
तद्ब᳚न्धुः सू॒रिर्दि॒वि ते᳚ धियं॒धा नाभा॒नेदि᳚ष्ठो रपति॒ प्र वेन᳚न् ।
सा नो॒ नाभि᳚ः पर॒मास्य वा᳚ घा॒हं तत्प॒श्चा क᳚ति॒थश्चि᳚दास ॥
▶ पदपाठः (Word-by-word)
तत्॑ब᳚न्धुः । सू॒रिः । दि॒वि । ते॒ । धि॒य॒म्॑धाः । नाभा॒नेदि᳚ष्ठः । र॒प॒ति॒ । प्र । वेन᳚न् ।
सा । नः॒ । नाभिः᳚ । प॒र॒मा । अ॒स्य । वा॒ । घ॒ । अ॒हम् । तत् । प॒श्चा । क॒ति॒थः । चि॒त् । आ॒स॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तद्बन्धुः। सैव पृथिवी बन्धुकोत्पत्त्यधिष्ठानत्वेन यस्यासौ तद्बन्धुः। तन्मातृक इत्यर्थः। सूरिः स्तुतेः प्रेरको दिवि वर्तमानस्य ते तव स्वभुत इति शेशः। त्यदपत्यभूत इति यावत्। षष्ठी सामर्थ्यात्सम्बन्धसामान्यं प्रतीयते। तच्चादित्यपुत्रो मनुर्मनोः पुत्रो नाभानेदिष्ठ इत्येवं सूर्यापत्यत्वं पर्यवस्यति। सुर्यनाभानेदिष्ठोयोः सम्बन्धश्चरमपाद उत्तरमन्त्रे च वक्ष्यते। स च धियन्धाः कर्मणां धारको नाभानेदिष्ठो वेनन्नङ्गिरोदत्तम् गोसहस्रं वेनन्कामयन् प्र रपति। प्रलपति। स्तौतीत्यर्थः। वापि चेत्यर्थः। सा द्यौर्नोऽस्माकं परमोत्कृष्ता नाभिर्बन्धिका चास्यादित्यस्याधिष्ठानभुतास्ति। घेति पूरणः। अहं तत्तस्यादित्यस्य पश्चापश्चादनन्तरम् कतिथः कतिपयानां पूरण आस। आभवम्। अनेन ममादित्येन जन्यजनकभावः सम्बन्धः सन्निकृष्ट इत्युक्तं भवति॥१८॥

10.61.19
इ॒यं मे॒ नाभि᳚रि॒ह मे᳚ स॒धस्थ᳚मि॒मे मे᳚ दे॒वा अ॒यम᳚स्मि॒ सर्व᳚ः ।
द्वि॒जा अह᳚ प्रथम॒जा ऋ॒तस्ये॒दं धे॒नुर᳚दुह॒ज्जाय᳚माना ॥
▶ पदपाठः (Word-by-word)
इ॒यम् । मे॒ । नाभिः᳚ । इ॒ह । मे॒ । स॒ध॑स्थ᳚म् । इ॒मे । मे॒ । दे॒वाः । अ॒यम् । अ॒स्मि॒ । सर्वः᳚ ।
द्वि॒॑जाः । अह᳚ । प्र॒थ॒म॒॑जाः । ऋ॒तस्य᳚ । इ॒दम् । धे॒नुः । अ॒दु॒ह॒त् । जाय᳚माना ॥
▶ सायणभाष्यम् (Sayana Commentary)

इयं माध्यमिका वाग्मे नाभिः संनाहिनी। आदित्यस्य तस्यश्चभेदादस्यर्षेर्माध्यमिका वाग्बन्धिका भवति। तथा च ब्राह्मणम्। सा या वागसौ स आदित्य इति ब्राह्मणम्। इहास्मिन्मण्डले मे मम सदस्थं स्थानम्। इमे मे देवा द्योतमाना रश्मयो मे मम स्वभुताः। अयमहमस्मि सर्वः। सूर्यस्य स्वस्योक्तेन। प्रकारेणाभेदात्तद्द्वारा सर्वात्मकत्वम्। अह किञ्चेत्यर्थः। द्विजा विप्रा ऋतस्य प्रथमजाः। सत्यस्य प्रथमजाः सत्यभूतस्य ब्रह्मणः प्रथमोत्पन्नाः। धेनुः। पृश्निदेवता माध्यमिका वाग्जायामानेदं सर्वमदुहत्। दुदोह। उदपादयदित्यर्थः॥१९॥

10.61.20
अधा᳚सु म॒न्द्रो अ᳚र॒तिर्वि॒भावाव᳚ स्यति द्विवर्त॒निर्व᳚ने॒षाट् ।
ऊ॒र्ध्वा यच्छ्रेणि॒र्न शिशु॒र्दन्म॒क्षू स्थि॒रं शे᳚वृ॒धं सू᳚त मा॒ता ॥
▶ पदपाठः (Word-by-word)
अध᳚ । आ॒सु॒ । म॒न्द्रः । अ॒र॒तिः । वि॒भा॑वा᳚ । अव᳚ । स्य॒ति॒ । द्वि॒॑व॒र्त॒निः । व॒ने॒षाट् ।
ऊ॒र्ध्वा । यत् । श्रेणिः᳚ । न । शिशुः᳚ । दन् । म॒क्षु । स्थि॒रम् । शे॒॑वृ॒धम् । सू॒त॒ । मा॒ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

अधाथासु चतसृषु दिक्षु मन्द्रो मोदमानोऽरतिर्गन्ता विभावा दीप्तिमान् द्विवर्तनिर्द्वयोर्लोकयोर्गन्ता वनेशाड्वने काष्ठानामभिभविताग्निरवस्यति। अवसन्नो भवति यागार्थम्। यच्च योऽग्निरूर्ध्वोन्मुखा श्रेणिर्न शिशुः शंसनीयः सेनेव मक्षु शीघ्रं दन् शत्रुन्दमयति तमिमं स्थिरं निश्चलं शेवृधं सुखस्य वर्धकं मातारणिः सूत। यज्ञे जनयामस॥२०॥

10.61.21
अधा॒ गाव॒ उप᳚मातिं क॒नाया॒ अनु᳚ श्वा॒न्तस्य॒ कस्य᳚ चि॒त्परे᳚युः ।
श्रु॒धि त्वं सु᳚द्रविणो न॒स्त्वं या᳚ळाश्व॒घ्नस्य᳚ वावृधे सू॒नृता᳚भिः ॥
▶ पदपाठः (Word-by-word)
अध᳚ । गावः᳚ । उप᳚॑मातिम् । क॒नायाः᳚ । अनु᳚ । श्वा॒न्तस्य᳚ । कस्य᳚ । चि॒त् । परा᳚ । ई॒युः॒ ।
श्रु॒धि । त्वम् । सु॒॑द्र॒वि॒णः॒ । नः॒ । त्वम् । या॒ट् । आ॒श्व॒॑घ्नस्य᳚ । व॒वृ॒धे॒ । सू॒नृता᳚भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अध सम्प्रति कस्य चिच्छान्तस्य प्रवृद्धस्य श्रान्तस्य वा। आत्मनो निर्देशः। ईदृशस्य नाभानेदिष्ठस्य कनायाः कमनीयायाः स्तुतेर्गावो वाचः। यद्वा। वाचः स्तुतयः कनाया कमनीयायाः स्तुतेरुपमातिमुपमानभूतमिन्द्रमनु परेयुः। अनु परागच्छन्ति। हे सुद्रविणः सुधनाग्ने त्वं श्रुधि। शृणु। नोऽस्माकमिममिन्द्रं याट्। आयाट्। यज। त्वं चाश्वघ्नस्य। अश्वघ्नोऽश्वमेधयाजी मनुः। तस्य पुत्रस्य मम सूनृताभिः स्तुतिभिर्ववृधे। वर्धसे। पुरुषव्यत्ययः। अथवायं वर्धत इति परोक्षेण निर्देशः॥२१॥

10.61.22
अध॒ त्वमि᳚न्द्र वि॒द्ध्य१॒᳚स्मान्म॒हो रा॒ये नृ᳚पते॒ वज्र᳚बाहुः ।
रक्षा᳚ च नो म॒घोनः᳚ पा॒हि सू॒रीन᳚ने॒हस᳚स्ते हरिवो अ॒भिष्टौ᳚ ॥
▶ पदपाठः (Word-by-word)
अध᳚ । त्वम् । इ॒न्द्र॒ । वि॒द्धि । अ॒स्मान् । म॒हः । रा॒ये । नृ॒॑प॒ते॒ । वज्र᳚॑बाहुः ।
रक्ष᳚ । च॒ । नः॒ । म॒घोनः᳚ । पा॒हि । सू॒रीन् । अ॒ने॒हसः᳚ । ते॒ । ह॒रि॒॑वः॒ । अ॒भिष्टौ᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र अधाधुना वज्रबाहुस्त्वमस्मान्महो महते राये धनाय विद्धि। जानीहि। हे इन्द्र मघोनो हविष्मतः सूरीन् स्तुतिप्रेरकान्नोऽस्मान्रक्ष च। हे हरिवो हरिभ्यां तद्वन्निन्द्र ते तवाभिष्टावभिगमनेऽनेहसोऽपापाः स्यामेति शेशः॥२२॥

10.61.23
अध॒ यद्रा᳚जाना॒ गवि᳚ष्टौ॒ सर᳚त्सर॒ण्युः का॒रवे᳚ जर॒ण्युः ।
विप्र॒ः प्रेष्ठ॒ः स ह्ये᳚षां ब॒भूव॒ परा᳚ च॒ वक्ष᳚दु॒त प᳚र्षदेनान् ॥
▶ पदपाठः (Word-by-word)
अध᳚ । यत् । रा॒जा॒ना॒ । गो॑इ᳚ष्टौ । सर᳚त् । स॒र॒ण्युः । का॒रवे᳚ । ज॒र॒ण्युः ।
विप्रः᳚ । प्रेष्ठः᳚ । सः । हि । ए॒षा॒म् । ब॒भूव᳚ । परा᳚ । च॒ । वक्ष᳚त् । उ॒त । प॒र्ष॒त् । ए॒ना॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे राजाना राजमानौ मित्रावरुणौ अधाधुना सत्रसमाप्तौ यद्यस्माद्गविष्टौ गवामेशणायां सत्यां सरुण्युः सरणशीलो यमः सरत् गच्छति कारवे कर्माणि कुर्वतेङ्गिरसाम् गणाय। किमिच्छन्। जरण्युस्तस्मा अङ्गिरसां गणाय स्तुतिमिच्छन्। तस्यात्स विप्रो नाभानेदिष्ठ एषामङ्गिरसां प्रेष्ठः प्रियतमो बभूव। भवतु। हीति पुरणः। तेषां कर्तव्यं परा च वक्षत्। परावहतु। उतापि चैनानङ्गिरसः पर्शत् पारयत्वित्यात्मन एवाशास्ते॥२३॥

10.61.24
अधा॒ न्व᳚स्य॒ जेन्य᳚स्य पु॒ष्टौ वृथा॒ रेभ᳚न्त ईमहे॒ तदू॒ नु ।
स॒र॒ण्युर᳚स्य सू॒नुरश्वो॒ विप्र᳚श्चासि॒ श्रव᳚सश्च सा॒तौ ॥
▶ पदपाठः (Word-by-word)
अध᳚ । नु । अ॒स्य॒ । जेन्य᳚स्य । पु॒ष्टौ । वृथा᳚ । रेभ᳚न्तः । ई॒म॒हे॒ । तत् । ऊं॒ इति᳚ । नु ।
स॒र॒ण्युः । अ॒स्य॒ । सू॒नुः । अश्वः᳚ । विप्रः᳚ । च॒ । अ॒सि॒ । श्रव᳚सः । च॒ । सा॒तौ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनया वरुणं पृथक् स्तौति। अधाथ नु क्षिप्रमस्य जेन्यस्य जयशीलस्य स्तुत्याजेतव्यस्य वा तत्स्वभूतं गवादिधनं पुष्तौ पॊषे निमित्ते सति तस्य पुष्ट्यर्थं वा वृथानायासेन रेभन्तः स्तुवन्तो नु क्षिप्रमीमहे। याजामहे। सरण्युः शीघ्रसरणशीलोऽश्वोऽस्य वरुणस्य सूनुः पुत्रः। वरुणाद्ध्यश्व उत्पन्नः। अथ प्रत्यक्शकृतः। हे वरुन त्वं विप्रश्चासि। विप्रवत्पूज्यः शुद्धो वा भवसि। श्रवसश्चान्नस्य सातौ लाभेऽस्माकमन्नलाभाय प्रवृत्तश्च भवसि॥२४॥

10.61.25
यु॒वोर्यदि᳚ स॒ख्याया॒स्मे शर्धा᳚य॒ स्तोमं᳚ जुजु॒षे नम᳚स्वान् ।
वि॒श्वत्र॒ यस्मि॒न्ना गिरः᳚ समी॒चीः पू॒र्वीव᳚ गा॒तुर्दाश᳚त्सू॒नृता᳚यै ॥
▶ पदपाठः (Word-by-word)
यु॒वोः । यदि᳚ । स॒ख्याय᳚ । अ॒स्मे इति᳚ । शर्धा᳚य । स्तोम᳚म् । जु॒जु॒षे । नम᳚स्वान् ।
वि॒श्वत्र᳚ । यस्मि᳚न् । आ । गिरः᳚ । स॒म्॑ई॒चीः । पू॒र्वी॑इ᳚व । गा॒तुः । दाश᳚त् । सू॒नृता᳚यै ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मित्रावरुणौ युवोर्युवयोः शर्धाय बलवतेऽस्मे अस्माकं सख्याय। यद्वा। युवयोः सख्यायास्मे अस्माकं शर्धाय बलाय यदि नमस्वानन्नवानध्वर्युः स्तोत्रवान्होता वा सोमं जुजुषे सेवते। यस्मिन् सख्ये सिद्धे सति विश्वत्र विश्वस्मिञ्जनपदे गिरोऽङ्गिरसां सम्बन्धिन्यः समीचीः समीच्य आ गच्छन्तीति शेषः। उदारानां गृह इदं ग्रुहाणेदं गृहेणेत्येवंरूपाः श्रूयन्त इत्यर्थः। यद्वा। यागानुष्थातॄणां स्तुतिगिर आगच्छन्तीति पुर्विव गातुः प्राची दिगिव सा यथा गच्छतां सुखं प्रयच्छति तद्वत्। यद्वा। पूर्वी पुरा प्रसिद्धा पुरातनीव गातुः सरणिरिव सा यथा गच्छतां सुखं प्रयच्छति तद्वत्। सूनृतायै प्रियसत्यरूपायै स्तुतिवाचे दाशत्। प्रयच्छ्तु॥२५॥

10.61.26
स गृ᳚णा॒नो अ॒द्भिर्दे॒ववा॒निति᳚ सु॒बन्धु॒र्नम᳚सा सू॒क्तैः ।
वर्ध᳚दु॒क्थैर्वचो᳚भि॒रा हि नू॒नं व्यध्वै᳚ति॒ पय᳚स उ॒स्रिया᳚याः ॥
▶ पदपाठः (Word-by-word)
सः । गृ॒णा॒नः । अ॒त्॑भिः । दे॒व॑वा᳚न् । इति᳚ । सु॒॑बन्धुः᳚ । नम᳚सा । सु॒॑उ॒क्तैः ।
वर्ध᳚त् । उ॒क्थैः । वचः᳚॑भिः । आ । हि । नू॒नम् । वि । अध्वा᳚ । ए॒ति॒ । पय᳚सः । उ॒स्रिया᳚याः ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवताभिर्देववान् सुबन्धुः शोभनबन्धनह् स वरुण इतीत्थं कृतप्रकारेण नमसा नमस्कारेण सूक्तैश्च गृणानः स्तूयमानः सन्वर्धत्। वर्धताम् । उक्थैर्वचोभिरुच्यमानैः प्रशस्तैर्वा स्तुतिवचोभिर्नूनमिदानीमा गच्छत्विति शेशः। हीति पूरणः। तस्य यागार्थमुस्रियाया गोः पयसोऽध्वा मार्गो व्येति। स्तनाग्राणि क्षरन्तीत्यर्थः॥२६॥

10.61.27
त ऊ॒ षु णो᳚ म॒हो य᳚जत्रा भू॒त दे᳚वास ऊ॒तये᳚ स॒जोषा᳚ः ।
ये वाजा{4}॒ अन᳚यता वि॒यन्तो॒ ये स्था नि᳚चे॒तारो॒ अमू᳚राः ॥
▶ पदपाठः (Word-by-word)
ते । ऊं॒ इति᳚ । सु । नः॒ । म॒हः । य॒ज॒त्राः॒ । भू॒त । दे॒वा॒सः॒ । ऊ॒तये᳚ । स॒॑जोषाः᳚ ।
ये । वाजा᳚न् । अन᳚यत । वि॒॑यन्तः᳚ । ये । स्थ । नि॒॑चे॒तारः᳚ । अमू᳚राः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनयर्षिरङ्गिरस आशास्ते। हे यजत्रा यष्टव्या देवासो देवाः ते यूयम् । उ इति पूरणः। महो महते नोऽस्माकमूतये रक्षणाय सजोषाः सङ्गता भुत। भवत। ये च यूयमङ्गिरसो मह्यं वाजानन्नान्यनयत प्रापयत। वियन्तः सततमुक्थाय विविधम् गच्छन्तः सन्तः। येच यूयममूराः। षष्ठाहः। प्रयोगमौढ्यरहिता इत्यर्थः। तादृशा निचेतारो गवाम् विविक्तारः स्थ भवथ। ते सजोषा भुतेति समन्वयः॥२७॥

वेदार्थस्य प्रकाशेन तमे हार्दं निवारयन्। पुमार्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तक श्री वीरबुक्कभुपाल साम्राज्य धुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थ प्रकाशे ऋक्संहिताभाष्ये

अष्टमाष्टके प्रथमोध्यायः समाप्तः॥