श्रवणम्

10.61.12 समानपद
प॒श्वा यत्प॒श्चा वियु᳚ता बु॒धन्तेति᳚ ब्रवीति व॒क्तरी॒ ररा᳚णः ।
वसो᳚र्वसु॒त्वा का॒रवो᳚॑ने॒हा विश्वं᳚ विवेष्टि॒ द्रवि᳚ण॒मुप॒ क्षु ॥
▶ पदपाठः (Word-by-word)
प॒श्वा । यत् । प॒श्चा । वि॑यु᳚ता । बु॒धन्त᳚ । इति᳚ । ब्र॒वी॒ति॒ । व॒क्तरि᳚ । ररा᳚णः ।
वसोः᳚ । व॒सु॒॑त्वा । का॒रवः᳚ । अ॒ने॒हा । विश्व᳚म् । वि॒वे॒ष्टि॒ । द्रवि᳚णम् । उप᳚ । क्षु ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्यदा स्तोतारः पश्वा पशुना। गोसमूहेनेत्यर्थः। तेन वियुतावियुक्तानि स्वकीयानि गोस्थानानि पश्चा पश्चाद्बुधन्त अजानन् तदानीं कारवः कारुरित्यर्थः। इति ब्रविति। इत्थं ब्रूते। किमिति। वक्तरि स्तोतरि रराणॊ रममाणो वसोर्वासकाद्वसुत्वातिशयेन वासयिता। यद्वा। वसुत्वेति समूहार्थे त्वा नामकरणः। गोरूपधनवतोऽतिशयेन गोसमूहवानित्यर्थः। अनेहा आपाप इन्द्रो विश्वं सर्वं द्रविणं गोरूपं पणिभिरपहृतं धनं क्षु। मक्ष्वित्यर्थः। शीघ्रमुप विवेष्टि। उपव्याप्नोति पुनरादातुम् । अयमर्थः। यदेन्द्रस्य स्तोतारोऽसुरैरपहृतमात्मीयं गोधनं जानन्ति ततः प्रागेवागत्येन्द्रस्तं न्यरुधदिति॥१२॥