दशमं मण्डलम् - सूक्तम् 140

6 ऋचः

ऋषिः: अग्निः पावकः देवता: अग्निः छन्दः: विष्टारपंक्तिः

सूक्तम् 10.140 - सम्पूर्णम्

1 / 6
ऋक्: 10.140.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
10.140.1
अग्ने॒ तव॒ श्रवो॒ वयो॒ महि᳚ भ्राजन्ते अ॒र्चयो᳚ विभावसो ।
बृह᳚द्भानो॒ शव᳚सा॒ वाज᳚मु॒क्थ्यं१॒᳚ दधा᳚सि दा॒शुषे᳚ कवे ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । तव᳚ । श्रवः᳚ । वयः᳚ । महि᳚ । भ्रा॒ज॒न्ते॒ । अ॒र्चयः᳚ । वि॒भा॒व॒सो॒ इति᳚ विभा॑वसो ।
बृह᳚द्भानो॒ इति॒ बृह᳚त्॑भानो । शव᳚सा । वाज᳚म् । उ॒क्थ्य᳚म् । दधा᳚सि । दा॒शुषे᳚ । क॒वे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्ने तवेति षडृचं द्वादशं सूक्तम्। पावकगुणविशिष्टोऽग्निरृषिः। शुद्धाग्निर्देवता। आद्या विष्वारपङ्क्तिरष्टकद्विद्वादशाष्टकवती। अथ तिस्रः सतोब्रुहत्योऽयुजौ जागतौ। अनु ८-४। इति लक्षणोपेताः। पञ्चम्युपरिष्टाज्ज्योतिः। षष्ठी त्रिष्टुप्। तथा चानुक्रान्तम्। अग्नेतवाग्निः पावक अग्नेयं विष्टारपङ्क्तिस्तिस्रः सतोबृहत्य उपरिष्टाज्ज्योतिरिति। महाव्रत अग्निमारुतशस्त्र इदं सूक्तं स्तोत्रियानुरूपार्थम्। तथैव पञ्चमारण्यके सूत्रितम्॥ ऐ. आ. ५-३-२॥

हे अग्ने तव वयोऽन्नं श्रवह् श्रवणीयं प्रशस्यम्। हविरात्मकस्य तस्य मन्त्रसंस्कृतत्वेन प्रशस्तत्वात्। अन्नेषु मध्ये तवैवान्नं श्रेष्ठमित्यर्थः। हे विभावसो। विशिष्टा दीप्तिर्विभा। सैव वसुर्धनं यस्य तादृशाग्ने आर्चयो दीप्तयो महि महद्बहुलं भ्राजन्ते। दीप्यन्ते। भाजृ दीप्तौ। अनुदात्तेत्। भौवादिकः। हे बुहद्भानो प्रौढदीप्ते कवे क्रान्तदर्शिन्नग्ने एवं महानुभावस्त्वं शवसा बलेनोपेतमुक्थ्यं प्रशस्यम् । यद्वा। उक्थ्यो यज्ञह्। तद्योग्यं वाजमन्नं दाशुषे हवींषि दत्तवते यजमानाय दधासि। ददासि। प्रयच्छसि॥१॥

10.140.2
पा॒व॒कव᳚र्चाः शु॒क्रव᳚र्चा॒ अनू᳚नवर्चा॒ उदि᳚यर्षि भा॒नुना᳚ ।
पु॒त्रो मा॒तरा᳚ वि॒चर॒न्नुपा᳚वसि पृ॒णक्षि॒ रोद᳚सी उ॒भे ॥
▶ पदपाठः (Word-by-word)
पा॒व॒क॑व᳚र्चाः । शु॒क्र॑व᳚र्चाः । अनू᳚न॑वर्चाः । उत् । इ॒य॒र्षि॒ । भा॒नुना᳚ ।
पु॒त्रः । मा॒तरा᳚ । वि॒॑चर᳚न् । उप᳚ । अ॒व॒सि॒ । पृ॒णक्षि᳚ । रोद᳚सी॒ इति᳚ । उ॒भे इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पावकवर्चाः शोधकदीप्तिः शुक्रवर्चा निर्मलतेजस्कोऽनूनवर्चाः सम्पूर्णतेजस्कः। हे अग्ने ईदृशस्त्वं भानुना तेजसोदियर्षि। उद्गच्छसि। ऋ सृ गतौ जौहोत्यादिकः। अर्तिपिपर्त्योश्चेत्यभ्यासस्येत्वम्। स त्वं पुत्रः सन् मातरा मातृभूते अरण्यौ विचरन् यागावसाने विशेषेण पाप्नुवन्नुपावसि। उपगतान्यजमानान्रक्षसि। तथोभे रोदसी द्यावापृथिव्यौ पृणक्षि। संयोजयसि। हविषा द्युलोकं वृष्ट्यमं लोकं च पूरयसीत्यर्थः। पृची सम्पर्के। रौधादिकः॥२॥

10.140.3 समानपद
ऊर्जो᳚ नपाज्जातवेदः सुश॒स्तिभि॒र्मन्द᳚स्व धी॒तिभि᳚र्हि॒तः ।
त्वे इष॒ः सं द᳚धु॒र्भूरि᳚वर्पसश्चि॒त्रोत᳚यो वा॒मजा᳚ताः ॥
▶ पदपाठः (Word-by-word)
ऊर्जः᳚ । न॒पा॒त् । जा॒त॒॑वे॒दः॒ । सु॒श॒स्ति॑भिः᳚ । मन्द᳚स्व । धी॒ति॑भिः᳚ । हि॒तः ।
त्वे इति᳚ । इषः᳚ । सम् । द॒धुः॒ । भूरि᳚॑वर्पसः । चि॒त्र॑ऊ᳚तयः । वा॒म॑जा᳚ताः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऊर्जो नपादूर्जोऽन्नस्य पार्थिवस्यारण्यादेः पुत्र हे जातवेदो जातानां वेदितरग्ने सुशस्तिभिरस्माभिः क्रियमाणैर्मन्दस्व। मोदस्व। तथा धीतिभिः कर्मभिरस्माभिः क्रियमाणैरग्निहोत्रादिभिः कर्मभिर्हितः सुहितस्तृप्तो भव। अपि च भूरिपर्वसः। वर्प इति रूपनाम। बहुविधरूपाश्चित्रोतयः चित्रा विचित्रोतिस्तृप्तिर्यासां तास्तथोक्ता वामजाताः वामं वननीयं जातं जन्म यासां तादृशीरिषोऽन्नानि हविर्लक्षणानि त्वे त्वय्येव सं दधुः। सन्दधति। सम्यग्जुह्वति यजमानाः। यद्वा। भुरिपर्वस इत्यादिकम् कर्तृविशेषणम्। तदानीं चित्रोतय इत्यस्य विचित्ररक्षा इति योज्यम्॥३॥

10.140.4
इ॒र॒ज्यन्न᳚ग्ने प्रथयस्व ज॒न्तुभि᳚र॒स्मे रायो᳚ अमर्त्य ।
स द᳚र्श॒तस्य॒ वपु᳚षो॒ वि रा᳚जसि पृ॒णक्षि᳚ सान॒सिं क्रतु᳚म् ॥
▶ पदपाठः (Word-by-word)
इ॒र॒ज्यन् । अ॒ग्ने॒ । प्र॒थ॒य॒स्व॒ । ज॒न्तु॑भिः᳚ । अ॒स्मे इति᳚ । रायः᳚ । अ॒म॒र्त्य॒ ।
सः । द॒र्श॒तस्य᳚ । वपु᳚षः । वि । रा॒ज॒सि॒ । पृ॒णक्षि᳚ । सा॒न॒सिम् । क्रतु᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने जन्तुभिर्जातैः शत्रुभिः सहेरज्यन्नीर्ष्यन् स्पर्धां कुर्वन्। इरज् ईर्ष्यायाम् । कण्ड्वादिः। यद्वा। इरज्यतिरैश्वर्यकर्मा। जन्तुभिर्जायमानैरात्मीयैस्तेजोभिरिरज्यन्नीश्वरो भवन्। हे अमर्त्य मरणरहिताग्ने अस्मे अस्माकम् । सुपां सुलुगिति षष्ठ्याः शे आदेशः। रायो धनानि प्रथयस्व। विस्तारय। रयिशब्दाच्छसः स्थानि व्यत्ययेन जस्। शसो वा व्यत्ययेनोडिदमिति विभक्त्युदात्तत्वं न क्रियते। स त्वं दर्शतस्य दर्शनीयस्य वपुषस्तेजोमयस्य शरीरस्य विराजसि। तृतीयार्थे षष्ठी वा। ईदृशेन शरीरेण विशेषेण दीप्यसे। यद्वा। राजतिरैश्वर्यकर्मा वपुरिति च रूपनाम। दर्शनीयेन रूपेण विराजसि। विशेषेणेशिषे। अत एव सानसिं सम्भजनीयं क्रतुम् कर्म पृणक्षि। अस्माभिः सम्पर्चयसि। फलेन वा संयोजयसि॥४॥

10.140.5
इ॒ष्क॒र्तार᳚मध्व॒रस्य॒ प्रचे᳚तसं॒ क्षय᳚न्तं॒ राध᳚सो म॒हः ।
रा॒तिं वा॒मस्य᳚ सु॒भगां᳚ म॒हीमिषं॒ दधा᳚सि सान॒सिं र॒यिम् ॥
▶ पदपाठः (Word-by-word)
इ॒ष्क॒र्तार᳚म् । अ॒ध्व॒रस्य᳚ । प्र॑चे᳚तसम् । क्षय᳚न्तम् । राध᳚सः । म॒हः ।
रा॒तिम् । वा॒मस्य᳚ । सु॒॑भगा᳚म् । म॒हीम् । इष᳚म् । दधा᳚सि । सा॒न॒सिम् । र॒यिम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इष्कर्तारं निष्कर्तारम्। छान्दसो वर्णलोपः। अध्वरस्य यज्ञस्य निष्कर्तारं संस्कर्तारं प्रचेतसं प्रकृष्टज्ञानं महोमहतो राधसो धनस्य क्षयंतमीश्वरम्। क्षयतिरैश्वर्यकर्मा। वामस्य वननीयस्य धनस्य रातिं दातारम्। रातेः कर्तरि क्तिच्। ईदृशं त्वां स्तुम इति शेशः। स त्वं सुभगां सौभाग्योपेतां महीं महतीमिषमन्नं सानसिं सम्भक्तव्यं रयिं धनं च दधासि। स्तोतृभ्यो ददासि॥५॥

10.140.6
ऋ॒तावा᳚नं महि॒षं वि॒श्वद᳚र्शतम॒ग्निं सु॒म्नाय᳚ दधिरे पु॒रो जना᳚ः ।
श्रुत्क᳚र्णं स॒प्रथ᳚स्तमं त्वा गि॒रा दैव्यं॒ मानु᳚षा यु॒गा ॥
▶ पदपाठः (Word-by-word)
ऋ॒त॑वा᳚नम् । म॒हि॒षम् । वि॒श्व॑द᳚र्शतम् । अ॒ग्निम् । सु॒म्नाय᳚ । द॒धि॒रे॒ । पु॒रः । जनाः᳚ ।
श्रुत्॑क᳚र्णम् । स॒प्रथः᳚॑तमम् । त्वा॒ । गि॒रा । दैव्य᳚म् । मानु᳚षा । यु॒गा ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋतावानं सत्यवन्तं यज्ञवन्तं वा। छन्दसीवनिपाविति मत्वर्थीयो वनिप्। महिषं महान्तं पूज्यं वा विश्वदर्शतं विश्वैः सर्वैर्दर्शनीयम्। यद्वा। विश्वं दर्शनं यस्य। बहव्रीहौ विश्वं संज्ञायामिति पूर्वपदान्तोदात्तत्वम्। ईदृशमग्निं सुम्नाय सुखार्थं जना ऋत्विग्यजमानरूपाः पुरो दधिरे। पुरो दधते। सर्वकर्मभ्यः पुरस्ताद्धारयन्ति। यद्वा। पुरः पुरस्तात्पूर्वस्यां दिश्याहवनीयरूपेण धारयन्ति। परोऽर्धर्चः प्रत्यक्षकृतः। अपि च हे अग्ने श्रुत्कर्णं श्रुत् स्तुतीः सम्यक् शृण्वन्कर्णः श्रोत्रेन्द्रियं यस्य तादृशं सप्रथस्तममतिशयेन प्रख्यातं यद्वा सर्वतो विस्तार्यमाणं दैव्यं देवानां हविर्वोढृत्वेन सम्बन्धिनं ईदृशं त्वा त्वां मानुषा मानुषाणि मनोरपत्यानि युगा युगानि युगलानि पत्नीयजमानरूपाणि गिरा स्तुत्या स्तुवन्तीति शेषः॥६॥