श्रवणम्

10.140.2
पा॒व॒कव᳚र्चाः शु॒क्रव᳚र्चा॒ अनू᳚नवर्चा॒ उदि᳚यर्षि भा॒नुना᳚ ।
पु॒त्रो मा॒तरा᳚ वि॒चर॒न्नुपा᳚वसि पृ॒णक्षि॒ रोद᳚सी उ॒भे ॥
▶ पदपाठः (Word-by-word)
पा॒व॒क॑व᳚र्चाः । शु॒क्र॑व᳚र्चाः । अनू᳚न॑वर्चाः । उत् । इ॒य॒र्षि॒ । भा॒नुना᳚ ।
पु॒त्रः । मा॒तरा᳚ । वि॒॑चर᳚न् । उप᳚ । अ॒व॒सि॒ । पृ॒णक्षि᳚ । रोद᳚सी॒ इति᳚ । उ॒भे इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पावकवर्चाः शोधकदीप्तिः शुक्रवर्चा निर्मलतेजस्कोऽनूनवर्चाः सम्पूर्णतेजस्कः। हे अग्ने ईदृशस्त्वं भानुना तेजसोदियर्षि। उद्गच्छसि। ऋ सृ गतौ जौहोत्यादिकः। अर्तिपिपर्त्योश्चेत्यभ्यासस्येत्वम्। स त्वं पुत्रः सन् मातरा मातृभूते अरण्यौ विचरन् यागावसाने विशेषेण पाप्नुवन्नुपावसि। उपगतान्यजमानान्रक्षसि। तथोभे रोदसी द्यावापृथिव्यौ पृणक्षि। संयोजयसि। हविषा द्युलोकं वृष्ट्यमं लोकं च पूरयसीत्यर्थः। पृची सम्पर्के। रौधादिकः॥२॥