इ॒ष्क॒र्तार᳚मध्व॒रस्य॒ प्रचे᳚तसं॒ क्षय᳚न्तं॒ राध᳚सो म॒हः ।
रा॒तिं वा॒मस्य᳚ सु॒भगां᳚ म॒हीमिषं॒ दधा᳚सि सान॒सिं र॒यिम् ॥
रा॒तिं वा॒मस्य᳚ सु॒भगां᳚ म॒हीमिषं॒ दधा᳚सि सान॒सिं र॒यिम् ॥
पदपाठः (Word-by-word)
इ॒ष्क॒र्तार᳚म् । अ॒ध्व॒रस्य᳚ । प्र॑चे᳚तसम् । क्षय᳚न्तम् । राध᳚सः । म॒हः ।
रा॒तिम् । वा॒मस्य᳚ । सु॒॑भगा᳚म् । म॒हीम् । इष᳚म् । दधा᳚सि । सा॒न॒सिम् । र॒यिम् ॥
रा॒तिम् । वा॒मस्य᳚ । सु॒॑भगा᳚म् । म॒हीम् । इष᳚म् । दधा᳚सि । सा॒न॒सिम् । र॒यिम् ॥
सायणभाष्यम् (Sayana Commentary)
इष्कर्तारं निष्कर्तारम्। छान्दसो वर्णलोपः। अध्वरस्य यज्ञस्य निष्कर्तारं संस्कर्तारं प्रचेतसं प्रकृष्टज्ञानं महोमहतो राधसो धनस्य क्षयंतमीश्वरम्। क्षयतिरैश्वर्यकर्मा। वामस्य वननीयस्य धनस्य रातिं दातारम्। रातेः कर्तरि क्तिच्। ईदृशं त्वां स्तुम इति शेशः। स त्वं सुभगां सौभाग्योपेतां महीं महतीमिषमन्नं सानसिं सम्भक्तव्यं रयिं धनं च दधासि। स्तोतृभ्यो ददासि॥५॥