दशमं मण्डलम् - सूक्तम् 93

15 ऋचः

ऋषिः: तान्वः पार्थ्यः देवता: विश्वेदेवाः छन्दः: प्रस्तारपंक्तिः

सूक्तम् 10.93 - सम्पूर्णम्

1 / 15
ऋक्: 10.93.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (15)
10.93.1
महि᳚ द्यावापृथिवी भूतमु॒र्वी नारी᳚ य॒ह्वी न रोद᳚सी॒ सदं᳚ नः ।
तेभि᳚र्नः पातं॒ सह्य᳚स ए॒भिर्न᳚ः पातं शू॒षणि᳚ ॥
▶ पदपाठः (Word-by-word)
महि᳚ । द्या॒वा॒पृ॒थि॒वी॒ इति᳚ । भू॒त॒म् । उ॒र्वी इति᳚ । नारी॒ इति᳚ । य॒ह्वी इति᳚ । न । रोद᳚सी॒ इति᳚ । सद᳚म् । नः॒ ।
तेभिः᳚ । नः॒ । पा॒त॒म् । सह्य᳚सः । ए॒भिः । नः॒ । पा॒त॒म् । शू॒षणि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

महीति पञ्चदशर्चं तृतीयं सूक्तम्। तान्वो नाम पृथोः पुत्र ऋषिः। द्वितीयातृतीये त्रयोदशी चेति तिस्रोऽनुष्टुभः। नवम्यक्षरसङ्ख्यया पङ्क्तिर्नपादैः। एकादशी न्यङ्कुसारिण्यष्टकद्वादशकद्वृष्टकवती। पञ्चदशी पुरस्ताद्बृहत्याद्यद्वादशकत्र्यष्टका। शिष्टानव प्रस्तारपङ्क्तिच्छन्दस्काः। आद्यौ जागतौ द्वौ गायत्रौ सा प्रस्तार पङ्क्तिः। विश्वे देवा देवता। तथा चानुक्रान्तम्। महि तान्वः पार्थः प्रस्तारपाङ्क्तं पुरस्ताद्ब्यहत्यन्तं त्रयोदश्युपाद्ये चानुष्टुभो नवम्यक्षरैः पङ्क्तिरेकादशी न्यङ्कुसारिणीति। गतो विनियोगः॥

हे द्यावापृथिवी द्यावापृथिव्यौ युवां मह्यत्यन्तं यथा भवति तथोर्वी विस्तीर्णे भूतम्। भवतम्। किञ्च यह्वी महत्यौ रोदसी द्वावापृथिव्यौ नारी न स्त्रियाविव नोऽस्माकं सदं सदा भवतम्। कि~च युवाम् शूषणि नोस्माकं शत्रुबले युष्मदीयैरेभिः पालनैः पातम्। रक्षतम्। किञ्च युश्मदीयैस्तेभिः तैः पालनैर्नोऽस्माकं सह्यसोऽतिशयेनास्मानभिभवितुः शत्रोरपि पातम्। रक्षतम्॥१॥

10.93.2 समानपद
य॒ज्ञेय᳚ज्ञे॒ स मर्त्यो᳚ दे॒वान्त्स᳚पर्यति ।
यः सु॒म्नैर्दी᳚र्घ॒श्रुत्त᳚म आ॒विवा᳚सत्येनान् ॥
▶ पदपाठः (Word-by-word)
य॒ज्ञे॑य᳚ज्ञे । सः । मर्त्यः᳚ । दे॒वान् । स॒प॒र्य॒ति॒ ।
यः । सु॒म्नैः । दी॒र्घ॒श्रुत्॑त᳚मः । आ॒॑विवा᳚साति । ए॒ना॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

स मर्त्यो मनुष्यो यज्ञेयज्ञे सर्वेषु यज्ञेशु देवान्सर्वान्सपर्यति परिचरति यो दीर्घश्रुत्तमोऽतिशयेन दीर्घस्य बहोः शास्त्रस्य श्रोता यो मनुष्यह् सुम्नैः सुखकरैर्हविर्भिरेनान्देवानाविवासाति परिचरति। असुखकरैर्हविर्भिः कृतमपि कर्म समर्थं न भवतीत्यर्थः॥२॥

10.93.3
विश्वे᳚षामिरज्यवो दे॒वानां॒ वार्म॒हः ।
विश्वे॒ हि वि॒श्वम᳚हसो॒ विश्वे᳚ य॒ज्ञेषु᳚ य॒ज्ञिया᳚ः ॥
▶ पदपाठः (Word-by-word)
विश्वे᳚षाम् । इ॒र॒ज्य॒वः॒ । दे॒वाना᳚म् । वाः । म॒हः ।
विश्वे᳚ । हि । वि॒श्व॑म᳚हसः । विश्वे᳚ । य॒ज्ञेषु᳚ । य॒ज्ञियाः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे विश्वेषामिरज्यवो भुवनानामीश्वराः देवानां द्योतमानादिगुणयुक्तानां भवतां महो महद्वार्वरणीयं धनं विद्यत इति शेशः। तदस्मभ्यं दत्तेति भावः। किञ्च विश्वे सर्वे यूयं विश्वमहसो व्याप्ततेजस्काः। किञ्च विश्वे यूयं यज्ञेषु यज्ञिया यष्टव्याः॥३॥

10.93.4
ते घा॒ राजा᳚नो अ॒मृत᳚स्य म॒न्द्रा अ᳚र्य॒मा मि॒त्रो वरु᳚ण॒ः परि᳚ज्मा ।
कद्रु॒द्रो नृ॒णां स्तु॒तो म॒रुतः᳚ पू॒षणो॒ भगः᳚ ॥
▶ पदपाठः (Word-by-word)
ते । घ॒ । राजा᳚नः । अ॒मृत᳚स्य । म॒न्द्राः । अ॒र्य॒मा । मि॒त्रः । वरु᳚णः । परि᳚॑ज्मा ।
कत् । रु॒द्रः । नृ॒णाम् । स्तु॒तः । म॒रुतः᳚ । पू॒षणः᳚ । भगः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अर्यमा देवो मित्रश्च परिज्मा सर्वतो गामी सर्वत्राप्रतिहतगतिर्वरुणोऽन्यो देवजनश्चर्त्विग्भिः स्तुतो रुद्रश्च पूषणः सर्वस्य पॊषयितारो मरुतश्च भगश्च एते देवा मन्द्राः सर्वैः स्तुत्याः सन्तो नृणां मनुष्याणां कत् सुखं प्रयच्छतेति शेषः। ते सर्वेऽमृतस्यामृतसदृशस्य हविषो राजानो घ। ईश्वराः खलु॥४॥

10.93.5
उ॒त नो॒ नक्त᳚म॒पां वृ᳚षण्वसू॒ सूर्या॒मासा॒ सद᳚नाय सध॒न्या᳚ ।
सचा॒ यत्साद्ये᳚षा॒महि᳚र्बु॒ध्नेषु᳚ बु॒ध्न्य᳚ः ॥
▶ पदपाठः (Word-by-word)
उ॒त । नः॒ । नक्त᳚म् । अ॒पाम् । वृ॒ष॒ण्व॒सू॒ इति᳚ वृषण्॑वसू । सूर्या॒मासा᳚ । सद᳚नाय । स॒॑ध॒न्या᳚ ।
सचा᳚ । यत् । सादि᳚ । ए॒षा॒म् । अहिः᳚ । बु॒ध्नेषु᳚ । बु॒ध्न्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापि च हे वृषण्वसू वर्षणधनावश्विनौ युवामपामुदकानां सम्बन्धिनौ सधन्या सधनौ समानधनौ सूर्यामासा सूर्याचन्द्रमसौ बुध्नेष्वन्तरिक्षेषु निवासस्थानेषु मेघेषु यद्योऽहिर्बुध्न्यो देवो सादि सिदति तिष्ठति एषामेभिः सचा सह युवां नक्तं रात्रावहनि चोरुष्यतमिति वक्ष्यमाणेन सम्बन्धः॥५॥

10.93.6
उ॒त नो᳚ दे॒वाव॒श्विना᳚ शु॒भस्पती॒ धाम᳚भिर्मि॒त्रावरु᳚णा उरुष्यताम् ।
म॒हः स रा॒य एष॒ते॑ति॒ धन्वे᳚व दुरि॒ता ॥
▶ पदपाठः (Word-by-word)
उ॒त । नः॒ । दे॒वौ । अ॒श्विना᳚ । शु॒भः । पती॒ इति᳚ । धाम᳚॑भिः । मि॒त्रावरु᳚णौ । उ॒रु॒ष्य॒ता॒म् ।
म॒हः । सः । रा॒यः । आ । ई॒ष॒ते॒ । अति᳚ । धन्व᳚॑इव । दुः॒॑इ॒ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापि च शुभस्पती शुभस्योदकस्य पती अश्विनाश्विनौ देवौ नोऽस्मान्धामभिरात्मीयैः शरीरैरुरुष्यताम्। रक्षताम्। किञ्च मित्रावरुनावात्मीयैः शरीरैरुरुष्यताम्। रक्षेताम्। यं यजमानं पुरुषममी देवा रक्षन्ति स महो महान्ति रायो धनान्येषते। आभिमुख्येन प्राप्नोति। गच्छति। किञ्च दुरिता दुरितानि शीघ्रमत्यतिगन्तातिक्रान्ता च भवति। तत्र दृष्टान्तः। धन्वेव यथा पथिको निरुदकान्देशानतिक्रामति तद्वदित्यर्थः॥६॥

10.93.7
उ॒त नो᳚ रु॒द्रा चि᳚न्मृळताम॒श्विना॒ विश्वे᳚ दे॒वासो॒ रथ॒स्पति॒र्भगः᳚ ।
ऋ॒भुर्वाज᳚ ऋभुक्षण॒ः परि᳚ज्मा विश्ववेदसः ॥
▶ पदपाठः (Word-by-word)
उ॒त । नः॒ । रु॒द्रा । चि॒त् । मृ॒ळ॒ता॒म् । अ॒श्विना᳚ । विश्वे᳚ । दे॒वासः᳚ । रथः॒पतिः᳚ । भगः᳚ ।
ऋ॒भुः । वाजः᳚ । ऋ॒भु॒क्ष॒णः॒ । परि᳚॑ज्मा । वि॒श्व॒॑वे॒द॒सः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उत चिदपि च रुद्रा रुद्रपुत्रावश्विनाश्विनौ नोऽस्मान्मृळताम्। सुखयताम्। किञ्च रत्थस्पती रथस्य पतिः पूशर्भुर्वाजोऽन्नवान्भगश्च परिज्मा परितो गन्ता वायुश्चेति विश्वे सर्वे देवासो देवाः सुखयन्तु। हे विश्ववेद्सओ विश्ववेदाः सर्वप्रज्ञाः सर्वधना वा हे ऋभुक्षणो महान्तो ब्रह्मादयो देवाः यूयं सुखयत॥७॥

10.93.8
ऋ॒भुरृ᳚भु॒क्षा ऋ॒भुर्वि᳚ध॒तो मद॒ आ ते॒ हरी᳚ जूजुवा॒नस्य᳚ वा॒जिना᳚ ।
दु॒ष्टरं॒ यस्य॒ साम᳚ चि॒दृध᳚ग्य॒ज्ञो न मानु᳚षः ॥
▶ पदपाठः (Word-by-word)
ऋ॒भुः । ऋ॒भु॒क्षाः । ऋ॒भुः । वि॒ध॒तः । मदः᳚ । आ । ते॒ । हरी॒ इति᳚ । जू॒जु॒वा॒नस्य᳚ । वा॒जिना᳚ ।
दु॒स्तर᳚म् । यस्य᳚ । साम᳚ । चि॒त् । ऋध᳚क् । य॒ज्ञः । न । मानु᳚षः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋभुक्षा महानिन्द्र ऋभुर्यज्ञेन भाति। किञ्च विधतस्त्वां परिचरतो यजमानस्य मदो हर्षोऽप्यृभुर्यज्ञेन भाति। हे इन्द्र आ जूजुवानस्याति शीघ्रमागच्छतस्ते तव हरी अश्वावपि वाजिना वाजिनौ बलवन्तौ। किञ्च यस्येन्द्रस्य सम्बन्धि साम चिद्गीयमानं सामापि दुष्टरं रक्शोभिरप्रापणीयम्। एश यज्ञो मानुशो मनुष्य्साधारणो न किञ्चर्धक् पृथक्। दिव्य इत्यर्थः॥८॥

10.93.9
कृ॒धी नो॒ अह्र᳚यो देव सवित॒ः स च᳚ स्तुषे म॒घोना᳚म् ।
स॒हो न॒ इन्द्रो॒ वह्नि᳚भि॒र्न्ये᳚षां चर्षणी॒नां च॒क्रं र॒श्मिं न यो᳚युवे ॥
▶ पदपाठः (Word-by-word)
कृ॒धि । नः॒ । अह्र᳚यः । दे॒व॒ । स॒वि॒त॒रिति᳚ । सः । च॒ । स्तु॒षे॒ । म॒घोना᳚म् ।
स॒हः । नः॒ । इन्द्रः᳚ । वह्नि᳚॑भिः । नि । ए॒षा॒म् । च॒र्ष॒णी॒नाम् । च॒क्रम् । र॒श्मिम् । न । यो॒यु॒वे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सवितः प्रेरकः नोऽस्मानह्रयोऽनवनतवदनानलज्जितान्कृधि। कुरु। किञ्च स त्वं मघोनां धनवतां यजमानानां सम्बन्धिभिरृत्विग्भिः स्तुषे। स्तूयसे। इन्द्रो वह्निभिर्वोढृभिर्मरुद्भिः सह सहो बलं चर्षणीनां मनुष्याणां नोऽस्माकंनि योयुवे। भृशं निमिश्रयतु। तत्र दृष्टान्तः। चक्रं रथस्य चक्रं रश्मिं न यथा चक्रादिकं तद्वदित्यर्थः॥९॥

10.93.10
ऐषु᳚ द्यावापृथिवी धातं म॒हद॒स्मे वी॒रेषु᳚ वि॒श्वच᳚र्षणि॒ श्रवः᳚ ।
पृ॒क्षं वाज᳚स्य सा॒तये᳚ पृ॒क्षं रा॒योत तु॒र्वणे᳚ ॥
▶ पदपाठः (Word-by-word)
आ । ए॒षु॒ । द्या॒वा॒पृ॒थि॒वी॒ इति᳚ । धा॒त॒म् । म॒हत् । अ॒स्मे इति᳚ । वी॒रेषु᳚ । वि॒श्व॑च᳚र्षणि । श्रवः᳚ ।
पृ॒क्षम् । वाज᳚स्य । सा॒तये᳚ । पृ॒क्षम् । रा॒या । उ॒त । तु॒र्वणे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे द्यावापृथिवी द्यावापृथिव्यौ युवामस्मे अस्माकं सम्बन्धिष्वेषु वीरेषु पुत्रेषु विश्वचर्षणि सर्वमनुष्योपेतं महच्छ्रवो यश आ धातम्। आधत्तम्। दत्तम्। किञ्च वाजस्य बलस्य सातये सम्भजनाय पृक्षं पालकमन्नं दत्तम्। उतापि च तुर्वणे शत्रूणां तरणाय राया धनेन सह पृक्शमन्नं दत्तम्॥१०॥

10.93.11
ए॒तं शंस᳚मिन्द्रास्म॒युष्ट्वं कूचि॒त्सन्तं᳚ सहसावन्न॒भिष्ट᳚ये ।
सदा᳚ पाह्य॒भिष्ट᳚ये मे॒दतां᳚ वे॒दता᳚ वसो ॥
▶ पदपाठः (Word-by-word)
ए॒तम् । शंस᳚म् । इ॒न्द्र॒ । अ॒स्म॒॑युः । त्वम् । कू॑चि᳚त् । सन्त᳚म् । स॒ह॒सा॒॑व॒न् । अ॒भिष्ट᳚ये । सदा᳚ । पा॒हि॒ । अ॒भिष्ट᳚ये ।
मे॒दता᳚म् । वे॒दता᳚ । व॒सो॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वसो वासयितः सहसावन् बलवन्निन्द्र अस्मयुरस्मान्कामयमानस्त्वं कूचित् क्वचिदपि सन्तं स्थितमेतमिमं शंसं स्तोतारमभिष्टयेऽभिलषितसिद्ध्यर्थमपि चाभिष्टये यागार्थं सदा सर्वदा पाहि। रक्श। किञ्च वेदता त्वदीयेन प्रज्ञानेन स्तोतारं मां मेदताम्। बुद्यस्व॥११॥

10.93.12
ए॒तं मे॒ स्तोमं᳚ त॒ना न सूर्ये᳚ द्यु॒तद्या᳚मानं वावृधन्त नृ॒णाम् ।
सं॒वन᳚नं॒ नाश्व्यं॒ तष्टे॒वान᳚पच्युतम् ॥
▶ पदपाठः (Word-by-word)
ए॒तम् । मे॒ । स्तोम᳚म् । त॒ना । न । सूर्ये᳚ । द्यु॒तत्॑या᳚मानम् । व॒वृ॒ध॒न्त॒ । नृ॒णाम् ।
स॒म्॑वन᳚नम् । न । अश्व्य᳚म् । तष्टा᳚॑इव । अन᳚प॑च्युतम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

नृणां नेतॄणाम् देवशत्रूणां संवननं न सम्भजनं सम्यग्ळिंसनमिवावस्थितं मे मदीयमेतमिदं स्तोमं स्तोत्रं ववृधन्त। ऋत्विजो वर्धयन्तु। तत्र दृष्टान्तः। सूर्ये द्युतद्यामानं दीप्तगमनं तना न विस्तृतान्रश्मीन्वर्धयन्ति तद्वदित्यर्थः। अनपच्युतं च्युतिरहितमश्व्यमश्वार्हं रथं तष्टेव यथा वर्धकी रथिष्वागतेषु संस्कृतं रथं संस्कारस्थानात्प्रेरयति तद्वदित्यर्थः॥१२॥

10.93.13
वा॒वर्त॒ येषां᳚ रा॒या यु॒क्तैषां᳚ हिर॒ण्ययी᳚ ।
ने॒मधि᳚ता॒ न पौंस्या॒ वृथे᳚व वि॒ष्टान्ता᳚ ॥
▶ पदपाठः (Word-by-word)
व॒वर्त᳚ । येषा᳚म् । रा॒या । यु॒क्ता । ए॒षा॒म् । हि॒र॒ण्ययी᳚ ।
ने॒म॑धि᳚ता । न । पौंस्या᳚ । वृथा᳚॑इव । वि॒ष्ट॑अ᳚न्ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

येषां देवानां स्वभूतेन रायास्मभ्यं दातव्येन धनेन युक्ता स्तुतिराववर्त तेषामेशामर्थाय हिरण्ययी हरण्मयी हिरण्यालङ्कारवत्प्रीतिकरास्मन्मुखात्पुनः पुनरावर्तत इत्यर्थः। तत्र दृष्टान्तः। पौंस्या पौंस्यानि बलानि नेमधिता न नेमधितौ सङ्ग्रामे। विष्टान्ता व्याप्तावसाना व्रुथेव यथा घटिकायन्त्रमाला तद्वदित्यर्थः॥१३॥

10.93.14
प्र तद्दु॒ःशीमे॒ पृथ᳚वाने वे॒ने प्र रा॒मे वो᳚च॒मसु᳚रे म॒घव᳚त्सु ।
ये यु॒क्त्वाय॒ पञ्च᳚ श॒तास्म॒यु प॒था वि॒श्राव्ये᳚षाम् ॥
▶ पदपाठः (Word-by-word)
प्र । तत् । दुः॒॑शीमे᳚ । पृथ᳚वाने । वे॒ने । प्र । रा॒मे । वो॒च॒म् । असु᳚रे । म॒घव᳚त्॑सु ।
ये । यु॒क्त्वाय᳚ । पञ्च᳚ । श॒ता । अ॒स्म॒॑यु । प॒था । वि॒॑श्रावि᳚ । ए॒षा॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये देवाः पञ्च शता शतानि रथान्युक्त्वायाश्वैर्युक्त्वास्मय्वस्मात्कामाः सन्तः पथा यज्ञमार्गेण गच्छन्ति तेषामेषां देवानां विश्रावि देवानां लोके नानाविशेशेण श्रावकगुणयुक्तं तत्स्तोत्रं दुःशीमे दुशीमनाम्निपृथवाने। पृथवानः पृथिः। तस्मिन् वेने चासुरे बलवति रामे चैतेशु राजसु प्र वोचम्। प्रब्रवीमि। प्रख्यापयामीत्यर्थः। मघवत्स्वन्येषु धनवत्सु च प्रख्यापयामीत्यर्थः॥१४॥

10.93.15
अधीन्न्वत्र᳚ सप्त॒तिं च᳚ स॒प्त च᳚ ।
स॒द्यो दि᳚दिष्ट॒ तान्व᳚ः स॒द्यो दि᳚दिष्ट पा॒र्थ्यः स॒द्यो दि᳚दिष्ट माय॒वः ॥
▶ पदपाठः (Word-by-word)
अधि᳚ । इत् । नु । अत्र᳚ । स॒प्त॒तिम् । च॒ । स॒प्त । च॒ ।
स॒द्यः । दि॒दि॒ष्ट॒ । तान्वः᳚ । स॒द्यः । दि॒दि॒ष्ट॒ । पा॒र्थ्यः᳚ । स॒द्यः । दि॒दि॒ष्ट॒ । मा॒य॒वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्रैषु राजसु तान्वो नामर्षिर्गवां सप्त च सप्ततिं च नु क्षिप्रं सद्य इत् सद्य एवाधि दिदिष्ट। अधिपूर्वो दिशिर्याचनार्थः। ययाचे। किञ्च पार्थो नाम युवनाश्वनामकस्य कुले पृथोः पुत्रः किशि त्सद्य एव गवां सप्तसप्ततिमधि दिदिष्ट। किञ्च मायवोऽपि सद्य एवाधि दिदिष्ट॥१५॥