दशमं मण्डलम् - सूक्तम् 187

5 ऋचः

ऋषिः: वत्स आग्नेयः देवता: अग्निः छन्दः: गायत्री

सूक्तम् 10.187 - सम्पूर्णम्

1 / 5
ऋक्: 10.187.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
10.187.1
प्राग्नये॒ वाच᳚मीरय वृष॒भाय᳚ क्षिती॒नाम् ।
स नः᳚ पर्ष॒दति॒ द्विषः᳚ ॥
▶ पदपाठः (Word-by-word)
प्र । अ॒ग्नये᳚ । वाच᳚म् । ई॒र॒य॒ । वृ॒ष॒भाय᳚ । क्षि॒ती॒नाम् ।
सः । नः॒ । प॒र्ष॒त् । अति᳚ । द्विषः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्राग्नय इति पञ्चर्चं षट्त्रिंशं सूक्तम्। अग्नेः पुत्रस्य वत्सस्यार्षं गायत्रमाग्नेयम्। तथा चानुक्रान्तम्। प्राग्नये पञ्चाग्नेयो वत्स आग्नेयं त्विति। प्रातरनुवाकाश्विनशस्त्रयोर्गायत्रे छन्दसीदमादिके द्वे सूक्ते। सूत्र्यते हि। प्राग्नये वाचमिति सूक्ते इमां मे अग्ने समिधम् । आ. ४-१३। इति। दशरात्रस्य नवमेऽहन्याग्निमारुत इदं जातवेदसं निविद्धानम्। सूत्रितं च। मरुतो यस्य हि प्राग्नये वाचमित्याग्निमारुतम्। आ. ८-११। इति॥

हे स्तोतः अग्नये स्तुतिरूपां वाचं प्रेरय। उच्चारय। कथंभूताय। क्षितीनां मनुष्याणां यजमानानां वृषभाय कामानां वर्षित्रे। किं प्रयोजनमिति चेत्। सोऽग्निर्नोऽस्मान्द्विषो द्वेष्टॄनति पर्षत्। अतिपारयेत्॥१॥

10.187.2
यः पर᳚स्याः परा॒वत᳚स्ति॒रो धन्वा᳚ति॒रोच᳚ते ।
स नः᳚ पर्ष॒दति॒ द्विषः᳚ ॥
▶ पदपाठः (Word-by-word)
यः । पर᳚स्याः । प॒रा॒॑वतः᳚ । ति॒रः । धन्व᳚ । अ॒ति॒॑रोच᳚ते ।
सः । नः॒ । प॒र्ष॒त् । अति᳚ । द्विषः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

योऽग्निः परस्याः परावतोऽतिशयिताद्दूरदेशात्तिरः। प्राप्तनामैतत्। प्राप्तसम्बन्धं धन्व मरुभूमिं जलवर्जितं देशमतिरोचते अतिक्रम्य प्रज्वलति। यद्वा। धन्वान्तरिक्षम् । धन्वान्तरिक्षं तिरस्तिर्यगतिरोचते भृशं प्रकाशयते। गतमन्यत्॥२॥

10.187.3
यो रक्षां᳚सि नि॒जूर्व᳚ति॒ वृषा᳚ शु॒क्रेण᳚ शो॒चिषा᳚ ।
स नः᳚ पर्ष॒दति॒ द्विषः᳚ ॥
▶ पदपाठः (Word-by-word)
यः । रक्षां᳚सि । नि॒॑जूर्व᳚ति । वृषा᳚ । शु॒क्रेण᳚ । शो॒चिषा᳚ ।
सः । नः॒ । प॒र्ष॒त् । अति᳚ । द्विषः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृषा वर्षिता योऽगिन्ः शुक्रेण निर्मलेन शुभ्रवर्णेन वा शोचिषा तेजसा रक्षांसि यज्ञस्य हन्तॄणि निजूर्वति निहिनस्ति। जुर्वी हिंसार्थः। गतमन्यत्॥३॥

10.187.4
यो विश्वा॒भि वि॒पश्य᳚ति॒ भुव᳚ना॒ सं च॒ पश्य᳚ति ।
स नः᳚ पर्ष॒दति॒ द्विषः᳚ ॥
▶ पदपाठः (Word-by-word)
यः । विश्वा᳚ । अ॒भि । वि॒॑पश्य᳚ति । भुव᳚ना । सम् । च॒ । पश्य᳚ति ।
सः । नः॒ । प॒र्ष॒त् । अति᳚ । द्विषः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

योऽग्निः सूर्यरूपेण विश्वा विश्वानि सर्वाणि भूतजातान्यभिमुखं विपश्यति विशेषेण तेजसा प्रेक्षते। प्रकाशयतीत्यर्थः। भुवना भुवनानि भुतजातानि सं पश्यति च सम्यग्जानाति च। अन्यत्सिद्धम्॥४॥

10.187.5
यो अ॒स्य पा॒रे रज᳚सः शु॒क्रो अ॒ग्निरजा᳚यत ।
स नः᳚ पर्ष॒दति॒ द्विषः᳚ ॥
▶ पदपाठः (Word-by-word)
यः । अ॒स्य । पा॒रे । रज᳚सः । शु॒क्रः । अ॒ग्निः । अजा᳚यत ।
सः । नः॒ । प॒र्ष॒त् । अति᳚ । द्विषः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्य रजसो लोकस्यान्तरिक्षस्या पार उपरिदेशे शुक्रह् शुभ्रवर्णॊ योऽग्निर्विद्युदात्मना सूर्यात्मना वाजयत प्रादुर्भवति स नोऽस्मान्द्विषो द्वेष्टॄनति पर्षत्। अतिपारयतु॥५॥