उ॒भे यथा᳚ नो॒ अह᳚नी सचा॒भुवा॒ सदः᳚सदो वरिव॒स्यात᳚ उ॒द्भिदा᳚ ॥
पदपाठः (Word-by-word)
उ॒भे इति᳚ । यथा᳚ । नः॒ । अह᳚नी॒ इति᳚ । स॒चा॒॑भुवा᳚ । सदः᳚॑सदः । व॒रि॒व॒स्यातः᳚ । उ॒त्॑भिदा᳚ ॥
सायणभाष्यम् (Sayana Commentary)
आ व इत्यष्टर्चमष्टमं सूक्तम्। इरावतः पुत्रस्य सर्पजातेर्जरत्कर्णनाम आर्षम्। जागतम्। सोमाभिषवार्था ये ग्रावाणस्तद्देवत्यम्। तथा चानुक्रान्तम्। आ वोऽष्टौ सर्प ऐरावतो जरत्कर्णो ग्राव्णोऽस्तौदिति। ग्रावस्तोत्र एतत्सूक्तम्। सूत्रितं च। आ व ऋञ्जसे प्र वो ग्रावाण इति सूक्तयोरन्तरोपरिष्टात्पुरस्ताद्वा। आ. ५-१२। इति॥
हे ग्रावाणः वो युष्मानूर्जां सारभूतानामन्नवतीनां वोषसां व्युष्टिषु विभातेषु सत्स्वा ऋञ्जसे। आप्रसाधयामि। यूयम् सोमेनेन्द्रं मरुतो रोदसी द्यावापृथिव्यौ चानक्तन। व्यञ्जयत। नोऽस्मानुभे सचाभुवा सहोत्पन्ने अहनी द्यावापृथिव्यौ सदः सदः सर्वेषु याग गृहेषु वरिवस्यातः। परिचरतः। उद्भिदोद्भेदकेन पूरयतामिति॥१॥