तदु॒ श्रेष्ठं॒ सव᳚नं सुनोत॒नात्यो॒ न हस्त᳚यतो॒ अद्रि᳚ः सो॒तरि᳚ ।
वि॒दद्ध्य१॒᳚र्यो अ॒भिभू᳚ति॒ पौंस्यं᳚ म॒हो रा॒ये चि᳚त्तरुते॒ यदर्व᳚तः ॥
वि॒दद्ध्य१॒᳚र्यो अ॒भिभू᳚ति॒ पौंस्यं᳚ म॒हो रा॒ये चि᳚त्तरुते॒ यदर्व᳚तः ॥
पदपाठः (Word-by-word)
तत् । ऊं॒ इति᳚ । श्रेष्ठ᳚म् । सव᳚नम् । सु॒नो॒त॒न॒ । अत्यः᳚ । न । हस्त᳚॑यतः । अद्रिः᳚ । सो॒तरि᳚ ।
वि॒दत् । हि । अ॒र्यः । अ॒भि॑भू᳚ति । पौंस्य᳚म् । म॒हः । रा॒ये । चि॒त् । त॒रु॒ते॒ । यत् । अर्व᳚तः ॥
वि॒दत् । हि । अ॒र्यः । अ॒भि॑भू᳚ति । पौंस्य᳚म् । म॒हः । रा॒ये । चि॒त् । त॒रु॒ते॒ । यत् । अर्व᳚तः ॥
सायणभाष्यम् (Sayana Commentary)
हे ग्रावाणः यूयम् तदु तमेव श्रेष्ठं प्रशस्यं सवनं सोमं सुनोतन। अभिषुणुत। अथैकवदाह। अद्रिरभिषवग्रावा हस्तयतो हस्तभ्यां गृहीतः सन्नत्यो न धृतोऽश्व इव भवति सोतर्यभिषवकर्तर्यध्वर्यौ। स यथा हस्ताभ्यां दृढगृहीतोऽपि बलवान् तद्वत्। अर्यो ग्राव्णामभिषवाय प्रेरको यजमानोऽभिभूति शत्रूणामभिभावुकं पौंस्यं बलं विदद्धि। लभते खलु देवेभ्यः। यद्वा। अभिषवायाध्वर्य्वादेः प्रेरितो ग्रावाभिभुतिपौंस्यं विदद्यजमानार्थम् । किञ्च महे महते राये चिद्धनायापि यद्यो ग्रावार्वतोऽश्वांस्तरुते तनुते प्रयच्छति॥२॥