श्रवणम्

10.76.6
भु॒रन्तु᳚ नो य॒शस॒ः सोत्वन्ध᳚सो॒ ग्रावा᳚णो वा॒चा दि॒विता᳚ दि॒वित्म᳚ता ।
नरो॒ यत्र᳚ दुह॒ते काम्यं॒ मध्वा᳚घो॒षय᳚न्तो अ॒भितो᳚ मिथ॒स्तुरः᳚ ॥
▶ पदपाठः (Word-by-word)
भु॒रन्तु᳚ । नः॒ । य॒शसः᳚ । सोतु᳚ । अन्ध᳚सः । ग्रावा᳚णः । वा॒चा । दि॒विता᳚ । दि॒वित्म᳚ता ।
नरः᳚ । यत्र᳚ । दु॒ह॒ते । काम्य᳚म् । मधु᳚ । आ॒॑घो॒षय᳚न्तः । अ॒भितः᳚ । मि॒थः॒॑तुरः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यशसो यशस्विनो ग्रावाणो नोऽस्मभ्यं सोतु सुतमन्धसः सोमस्य रसम् भुरन्तु। भरन्तु। सम्पादयन्तु। उकारश्छान्दसः। किञ्च दिवित्मता दीप्तिमत्या लिङ्गव्यत्ययः। वाचा स्तुतिवाचा दिविता दिवितायाम् दीप्तिमत्तायां वास्मान्कुर्वन्तु। सोमयागे स्थापयन्त्वित्यर्थः। क्वैषा दीप्तिमत्तेति उच्यते। नरो नेतार ऋत्विजो यत्र यागे काम्यं कमनीयं मधु सोमरसं दुहते। किं कुर्वन्तः। अघोषयन्तः सर्वतोऽभिषवशब्दं स्तोत्रशस्त्रादिरूपं वा शब्दं कुर्वन्तः। अभितः सर्वतो मिथस्तुरस्त्वरमाणाः। सा दीप्तिमत्तेति॥६॥