दशमं मण्डलम् - सूक्तम् 105

11 ऋचः

ऋषिः: कौत्सो दुर्मित्रो नाम्ना दुर्मित्रो गुणतो वा नाम्ना दुर्मित्रो गुणतः देवता: इंद्रः छन्दः: उष्णिग्गायत्री वा

सूक्तम् 10.105 - सम्पूर्णम्

1 / 11
ऋक्: 10.105.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
10.105.1
क॒दा व᳚सो स्तो॒त्रं हर्य᳚त॒ आव᳚ श्म॒शा रु᳚ध॒द्वाः ।
दी॒र्घं सु॒तं वा॒ताप्या᳚य ॥
▶ पदपाठः (Word-by-word)
क॒दा । व॒सो॒ इति᳚ । स्तो॒त्रम् । हर्य᳚ते । आ । अव᳚ । श्म॒शा । रु॒ध॒त् । वारिति॒ वाः ।
दी॒र्घम् । सु॒तम् । वा॒ताप्या᳚य ॥
▶ सायणभाष्यम् (Sayana Commentary)

कदेत्येकादशर्चं षष्ठं सूक्तम्। ऐन्द्रकुत्सपुत्रो नाम्ना दुर्मित्रो गुणतः सुमित्रः यद्व नाम्ना सुमित्रो गुणतो दुर्मित्र ऋषिः। हरी यस्य सुयुजा वज्रम् यश्चक्र इति द्वे पिपीलिकमध्ये एकाधशषट्कैकादशके उष्णिहौ। अन्त्या त्रिष्टुप्। आद्या गायत्री वा। अक्षरव्यूहेन पक्षान्तर उष्णिक्। शिष्ठाभिः सर्वाभिः सप्तोष्णिहः। तथा चानुक्रान्तम्। कदा कौत्सो दुर्मित्रो नाम्ना सुमित्रो गुणतह् सुमित्रो वा नाम्ना दुर्मित्रो गुणत औष्णिहं हरी वज्रं पिपीलिकमध्ये त्रिष्टुबन्त्याद्या गायत्री वेति। गतो विनियोगः॥

हे वसो वासयितरिन्द्र स्तोत्रमस्मत्कर्तृकं हर्यते कामयमानाय कामयमानम् त्वाम् । क्रियाग्रहणं कर्तव्यमिति कर्मणः सम्प्रदानत्वाच्चतुर्थी। कदा कस्मिन्कालेऽव रुधत्। अवरोत्स्यति। अवरुध्य च कदा वाः। वारयिष्यति। तादृशह् कालः कदास्माकं सम्भविष्यतीत्याशास्ते। रुधेर्लुङीरितो वेति च्लेरङादेशः। वारिति वृणोतेर्ण्यन्ताल्लङि च्छान्दसः शपो लुक्। छन्दस्युभयथेति तिप आर्धधातुकत्वाण्णेरनिटिति लोपे हल्ङ्याभ्य इति तिलोपः। तत्र दृष्टान्तः। अश्नुते क्षेत्रमिति श्मशा कुल्या। लुप्तोपममेतत्। यथा कुल्येतस्तत उदकान्यवरुणद्धि अवरुध्य च वारयति तथेत्यर्थः। किमुद्दिश्यावरोध इति तत्राह। दीर्घं सवनत्रयरूपेणायतम् सुतमभिषुतं सोमं प्रति। किमर्थमिति तदाह। वाताप्याय। वातेनाप्यतेऽधस्तान्निपात्यत इति वाताप्यमुदमम्। तस्य प्रदानायेत्यर्थः॥१॥

10.105.2
हरी॒ यस्य᳚ सु॒युजा॒ विव्र᳚ता॒ वेरर्व॒न्तानु॒ शेपा᳚ ।
उ॒भा र॒जी न के॒शिना॒ पति॒र्दन् ॥
▶ पदपाठः (Word-by-word)
हरी॒ इति᳚ । यस्य᳚ । सु॒॑युजा᳚ । वि॑व्र᳚ता । वेः । अर्व᳚न्ता । अनु᳚ । शेपा᳚ ।
उ॒भा । र॒जी इति᳚ । न । के॒शिना᳚ । पतिः᳚ । दन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्येन्द्रस्य हरी हरितवर्णावश्वौ सुयुजा सुष्ठु नियोज्यौ। सुशिक्षितावित्यर्थः। विव्रता। व्रतमिति कर्मनाम। विशिष्टकर्माणावर्वन्तावरणकुशलौ शेपा शेपवन्तौ। मत्वर्थो लुप्यते। प्रशस्तपुंस्त्वावित्यर्थः। उभोभौ रजी न रजसी द्यावापृथिव्याविव यद्वा महान्तौ रञ्जकौ सूर्याचन्द्रमसाविव केशिनौ प्रकाशमानौ केशवन्तौ वा ईदृशावश्वौ हे इन्द्र यस्य ते तव स्वभूतौ तयोः पतिः स्वामी त्वं दन् धनानि प्रयच्छन्ननु वेः। स्तुतशस्त्रादीन्यनुकामयस्व। दन्निति ददातेः शतरि च्छन्दस्युभयथेत्यार्थधातुकत्वादातो लोप इटि चेत्याकारलोपः। अत एव श्ल्वभावश्च॥२॥

10.105.3
अप॒ योरिन्द्र॒ः पाप᳚ज॒ आ मर्तो॒ न श᳚श्रमा॒णो बि᳚भी॒वान् ।
शु॒भे यद्यु᳚यु॒जे तवि᳚षीवान् ॥
▶ पदपाठः (Word-by-word)
अप᳚ । योः । इन्द्रः᳚ । पाप᳚जे । आ । मर्तः᳚ । न । श॒श्र॒मा॒णः । बि॒भी॒वान् ।
शु॒भे । यत् । यु॒यु॒जे । तवि᳚षी॑वान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

य इन्द्रः पापजे। आ इत्यनर्थकः। पापाज्जायत इति पापजो वृत्रः। तस्मिन्मर्तो न मनुष्य इव शश्रमाणस्तेन सह युद्धे श्राम्यन् बिभीवान् बिभ्यच्च भवति। श्राम्यतेश्चन्दसि लिट्। तस्य व्यत्ययेन कानच्। स इन्द्रो यद्यदा तविषीवान् मरुद्भिर्बलैर्बलवान्युयुजे युज्यते सम्पद्यते शुभे शोभार्थं तदा नीमपयोः। तस्य वृत्रस्यापयोरपयोजिता भवति॥३॥

10.105.4
सचा॒योरिन्द्र॒श्चर्कृ᳚ष॒ आ{4} उ᳚पान॒सः स᳚प॒र्यन् ।
न॒दयो॒र्विव्र᳚तयो॒ः शूर॒ इन्द्र᳚ः ॥
▶ पदपाठः (Word-by-word)
सचा᳚ । आ॒योः । इन्द्रः᳚ । चर्कृ᳚षे । आ । उ॒पा॒न॒सः । स॒प॒र्यन् ।
न॒दयोः᳚ । वि॑व्र᳚तयोः । शूरः᳚ । इन्द्रः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

आयोः । मनुष्यनामैतत्। मनुष्यस्य सोत्तुश्चर्कृषे पुनः पुनर्विलेखनाय। धनप्रदानायेत्यर्थः। सचा सह दातव्यैर्धनैः सहितः। यद्वा। आयोः सचा सहायभूतः। उपानसोऽन उपागतवान्। अत्यादयआः क्रान्ताद्यर्थे द्वितीयया। म. २-२-१८-४। इति प्रादिसमासः। अनसन्तान्नपुंसकात्। पा. ५-४-१०३। इति समासांतष्टच्। आरूढरथ इत्यर्थः। सर्पयन् धनैः स्तोतारं पूजयन्। यद्वा। व्यत्ययेन कर्तृप्रत्ययः। स्तुतिभिर्हविर्भिश्च पूज्यमानः। उक्तगुणविशिश्टः सन्ना। आगच्छति। उपसर्गश्रुतेरुचितक्रियाध्याहारः। कीदृश इन्द्रः। नदयोर्हेषाशब्दं उर्वतोर्विव्रतयोर्विशिष्टकर्मणोरश्वयोर्नियन्ता शूरो विक्रान्तः॥४॥

10.105.5
अधि॒ यस्त॒स्थौ केश᳚वन्ता॒ व्यच᳚स्वन्ता॒ न पु॒ष्ट्यै ।
व॒नोति॒ शिप्रा᳚भ्यां शि॒प्रिणी᳚वान् ॥
▶ पदपाठः (Word-by-word)
अधि᳚ । यः । त॒स्थौ । केश᳚॑वन्ता । व्यच᳚स्वन्ता । न । पु॒ष्ट्यै ।
व॒नोति᳚ । शिप्रा᳚भ्याम् । शि॒प्रिणी᳚॑वान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

य इन्द्रः केशवन्ता केशिनौ व्यचस्वन्ता व्यचनवन्तौ व्याप्तिमन्तौ। नेत्यनर्थको निपातः। ईदृशावश्वऔ पुष्ट्यै पोषणाय यजमानस्यात्मनो वाधि तस्थौ अधितिष्ठति आरोहति। अधिशीङ्स्थासां कर्म। पा. १-४-४६। इति कर्मणोऽधिकरनसंज्ञा। यद्वा। नेति चार्थे। तेन गुणौ समुच्चीयेते। प्रशस्तकेशौ व्यचस्वन्तौ चेत्यर्थः। स शिप्राभ्यां हनूभ्यां शिप्रिणीवाञ्शप्रवानिन्द्रः। एको मत्वर्थीयोऽनुवादः। वनोति। सोमान्याचते। वनु याचने। यद्वा। वनुष्यतिर्हन्तिकर्मा। शत्रून्हिनस्ति॥५॥

10.105.6
प्रास्तौ᳚दृ॒ष्वौजा᳚ ऋ॒ष्वेभि᳚स्त॒तक्ष॒ शूर॒ः शव᳚सा ।
ऋ॒भुर्न क्रतु᳚भिर्मात॒रिश्वा᳚ ॥
▶ पदपाठः (Word-by-word)
प्र । अ॒स्तौ॒त् । ऋ॒ष्व॑ओ᳚जाः । ऋ॒ष्वेभिः᳚ । त॒तक्ष᳚ । शूरः᳚ । शव᳚सा ।
ऋ॒भुः । न । क्रतु᳚॑भिः । मा॒त॒रिश्वा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋषौजा दर्शनीयबलो व्याप्तबलो वर्ष्वेभिर्दशनीयैर्मरुद्भिः सह प्रास्तौत्। स्तुत्यादिकं सम्यक्कृतमनेनेति प्रशंसति। यद्वा। कर्मणि कर्तृप्रत्ययः। प्रकर्षेण स्तुतोऽभुत्। य इन्द्रः शूरो विक्रान्तो मातरिश्वा वृष्टेर्निर्मातर्यन्तरिक्षे श्वसन्वर्तमानह् सञ्शवसा बलेन क्रतुभिः क्रियमाणैः कर्मभिः। यद्वा। क्रतुरिति प्रज्ञानाम। बलेन प्राज्ञाभिस्च ततक्ष व्रुत्रवधादिकम् चकार। तत्र दृष्टान्तः। ऋभुर्नर्भव इव। सुपां सुलुगिति जसः सुरादेशः। ऋभवो यथा कर्मभिः प्रज्ञाभिश्चानन्यसाधारनरथचमसादिनिर्माणमकुर्वन् तद्वदित्यर्थः॥६॥

10.105.7
वज्रं॒ यश्च॒क्रे सु॒हना᳚य॒ दस्य᳚वे हिरीम॒शो हिरी᳚मान् ।
अरु᳚तहनु॒रद्भु᳚तं॒ न रजः᳚ ॥
▶ पदपाठः (Word-by-word)
वज्र᳚म् । यः । च॒क्रे । सु॒॑हना᳚य । दस्य᳚वे । हि॒री॒म॒शः । हरी᳚मान् ।
अरु᳚त॑हनुः । अद्भु᳚तम् । न । रजः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

य इन्द्र सुहनाय सुष्थु हननीयाय दस्यव उपक्शपयित्रे शत्रवे तस्य वधाय वज्रं प्रहरणसाधनमायुधं चक्रे कृतवान् स त्वं वृजिना शिशीहीत्युत्तरसम्बन्धः। कीदृश इन्द्रः। हिरीमशो हरितश्मश्रुः। पृशोदरादिः। हिरीमान् हरिताश्वो हरितवर्नो वा अरुतहनुरबाधितहनुः। किमिव। अद्भुतं न रजः। अद्भुतमिति महन्नाम। रज इति रञ्जकमन्तरिक्शमुच्यते। महदन्तरिक्षमिव। तद्यथान्यैरबाध्यम् भवति तद्वत्॥७॥

10.105.8
अव᳚ नो वृजि॒ना शि᳚शीह्यृ॒चा व᳚नेमा॒नृचः᳚ ।
नाब्र᳚ह्मा य॒ज्ञ ऋध॒ग्जोष᳚ति॒ त्वे ॥
▶ पदपाठः (Word-by-word)
अव᳚ । नः॒ । वृ॒जि॒ना । शि॒शी॒हि॒ । ऋ॒चा । व॒ने॒म॒ । अ॒नृचः᳚ ।
न । अब्र᳚ह्मा । य॒ज्ञः । ऋध᳚क् । जोष᳚ति । त्वे इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र नोऽस्माकं वृजिना वृजिनानि वर्जनीयानि पापान्यव शिशीहि। अत्यर्थम् तनूकुरु। विनाशायेत्यर्थः। वयं चर्चा स्तुत्या साधनेनानृचोऽस्तुतिकानयजमानान्वनेम। हिंसाम। अब्रह्मा। ब्रह्म परिवृढं स्तोत्रम् । स्तुतिविरहितो यज्ञ ऋधक् सस्तुतिकाद्यज्ञात्पृथग्भुतस्त्वे त्वयि न जोषति। न सेवते त्वाम् । न प्रीणयतीत्यर्थः। जुषी प्रीतिसेवनयोः। व्यत्ययेन शप् परस्मैपदं च॥८॥

10.105.9
ऊ॒र्ध्वा यत्ते᳚ त्रे॒तिनी॒ भूद्य॒ज्ञस्य᳚ धू॒र्षु सद्म᳚न् ।
स॒जूर्नावं॒ स्वय᳚शसं॒ सचा॒योः ॥
▶ पदपाठः (Word-by-word)
ऊ॒र्ध्वा । यत् । ते॒ । त्रे॒तिनी᳚ । भूत् । य॒ज्ञस्य᳚ । धूः॒॑सु । सद्म᳚न् ।
स॒॑जूः । नाव᳚म् । स्व॑य᳚शसम् । सचा᳚ । आ॒योः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते तव स्वभुता त्रेतिनी। त्रेताग्नित्रयम्। तद्वती त्रेतिनी क्रिया। सा यद्यदोर्ध्वोन्नता प्रवृत्ता भुत् अभूत्। यद्योगादनिघातः। कुत्र स्थान इति। यज्ञस्य यागस्य सद्मन् स्दने। केष्विति। धूर्षु कर्मणां वोढृष्टृत्विक्शु। तदानीं सजूर्यजमानेन मरुद्भिर्वा सह प्रीयमाणो वा सन्नायोर्मनुष्यस्य यजमानस्य सजा सह तेन साकं स्वयशम्सं स्वायत्तयशस्कं यशः साधनं नावं तरणसाधनं तरनिम्। आरोहसीति शेशः। एकमेव रथं यजमान आरोहति स्वतरणार्थं तमेव तस्य साधकमारोहसीत्यर्थः। यद्वा। नावं रथं स्वयशसमायोर्यजमानस्य सचा सहायभूतः सजूस्तेन सह प्रीयमाण आरोहेत्यर्थः॥९॥

10.105.10
श्रि॒ये ते॒ पृश्नि᳚रुप॒सेच᳚नी भूच्छ्रि॒ये दर्वि᳚ररे॒पाः ।
यया॒ स्वे पात्रे᳚ सि॒ञ्चस॒ उत् ॥
▶ पदपाठः (Word-by-word)
श्रि॒ये । ते॒ । पृश्निः᳚ । उ॒प॒॑सेच᳚नी । भू॒त् । श्रि॒ये । दर्विः᳚ । अ॒रे॒पाः ।
यया᳚ । स्वे । पात्रे᳚ । सि॒ञ्चसे᳚ । उत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते तव सम्बन्धिनः सोमस्य श्रिये श्रयणाय पृश्निर्गौः पृश्निवर्णो पसेचनी पयसो दोग्ध्री भुत्। भवतु। अथा दर्विररणिररेपा अपापा सती ते श्रिये हविशह् श्रयणाय भूत्। भवतु। यया दर्व्या स्वे स्वकीये पात्रे पानसाधने मुख उत्सिञ्चसे उपर्याक्रुष्य पिबसि सा श्रिये भूदिति सम्बन्धः॥१०॥

10.105.11
श॒तं वा॒ यद᳚सुर्य॒ प्रति᳚ त्वा सुमि॒त्र इ॒त्थास्तौ᳚द्दुर्मि॒त्र इ॒त्थास्तौ᳚त् ।
आवो॒ यद्द᳚स्यु॒हत्ये᳚ कुत्सपु॒त्रं प्रावो॒ यद्द᳚स्यु॒हत्ये᳚ कुत्सव॒त्सम् ॥
▶ पदपाठः (Word-by-word)
श॒तम् । वा॒ । यत् । अ॒सु॒र्य॒ । प्रति᳚ । त्वा॒ । सु॒॑मि॒त्रः । इ॒त्था । अ॒स्तौ॒त् । दुः॒॑मि॒त्रः । इ॒त्था । अ॒स्तौ॒त् ।
आवः᳚ । यत् । द॒स्यु॒॑हत्ये᳚ । कु॒त्स॒॑पु॒त्रम् । प्र । आवः᳚ । यत् । द॒स्यु॒॑हत्ये᳚ । कु॒त्स॒॑व॒त्सम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे असुर्य बलवन्निन्द्र। अवध्यत्वेनासुरसम्बन्धित्वात्। त्वा त्वां प्रति शतं वा शतसङ्ख्याकं धनम्। वाशब्देनापरिमितं धनं वा। यद्यदा कामितवानित्यर्थः। यद्यदा च दस्युहत्ये दस्युहनने शत्रुवधे कुत्सपुत्रं दुर्मित्रमावः रक्षितवानसि। तथा कुत्सवत्सं कुत्रपुत्रं प्रावः प्रकर्षेण रक्षितवानसि। अव रक्षनादौ। लङ्याडजादीनामित्याडागमः। पादादित्वादिनिघातः। पुनरुक्तिरादरार्थम्। तदानीं सुमित्रो नाम्नेत्थमस्तौत्। तथा दुर्मित्रो गुणत इत्थमस्तौत्। तद्विपरीतं वा द्रष्टव्यम्। सुमित्रो नाम्ना दुर्मित्रो गुणत इति कात्यायनेन तथोक्तेः। स इत्थेत्थमनेन क्रुतप्रकारेणास्तौत्। अस्तावित्। इत्थास्तौदिति द्विरुक्तिः स्तुतिसमाप्त्यर्थम्॥११॥

वेदार्थस्य प्रकाशेन तमे हार्दं निवारयन्। पुमार्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तक श्री वीरबुक्कभुपाल साम्राज्य धुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थ प्रकाशे ऋक्संहिताभाष्ये

अष्टमाष्टके पञ्चमोऽध्यायः समाप्तः॥