श्रवणम्

10.105.3
अप॒ योरिन्द्र॒ः पाप᳚ज॒ आ मर्तो॒ न श᳚श्रमा॒णो बि᳚भी॒वान् ।
शु॒भे यद्यु᳚यु॒जे तवि᳚षीवान् ॥
▶ पदपाठः (Word-by-word)
अप᳚ । योः । इन्द्रः᳚ । पाप᳚जे । आ । मर्तः᳚ । न । श॒श्र॒मा॒णः । बि॒भी॒वान् ।
शु॒भे । यत् । यु॒यु॒जे । तवि᳚षी॑वान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

य इन्द्रः पापजे। आ इत्यनर्थकः। पापाज्जायत इति पापजो वृत्रः। तस्मिन्मर्तो न मनुष्य इव शश्रमाणस्तेन सह युद्धे श्राम्यन् बिभीवान् बिभ्यच्च भवति। श्राम्यतेश्चन्दसि लिट्। तस्य व्यत्ययेन कानच्। स इन्द्रो यद्यदा तविषीवान् मरुद्भिर्बलैर्बलवान्युयुजे युज्यते सम्पद्यते शुभे शोभार्थं तदा नीमपयोः। तस्य वृत्रस्यापयोरपयोजिता भवति॥३॥