अधि॒ यस्त॒स्थौ केश᳚वन्ता॒ व्यच᳚स्वन्ता॒ न पु॒ष्ट्यै ।
व॒नोति॒ शिप्रा᳚भ्यां शि॒प्रिणी᳚वान् ॥
व॒नोति॒ शिप्रा᳚भ्यां शि॒प्रिणी᳚वान् ॥
पदपाठः (Word-by-word)
अधि᳚ । यः । त॒स्थौ । केश᳚॑वन्ता । व्यच᳚स्वन्ता । न । पु॒ष्ट्यै ।
व॒नोति᳚ । शिप्रा᳚भ्याम् । शि॒प्रिणी᳚॑वान् ॥
व॒नोति᳚ । शिप्रा᳚भ्याम् । शि॒प्रिणी᳚॑वान् ॥
सायणभाष्यम् (Sayana Commentary)
य इन्द्रः केशवन्ता केशिनौ व्यचस्वन्ता व्यचनवन्तौ व्याप्तिमन्तौ। नेत्यनर्थको निपातः। ईदृशावश्वऔ पुष्ट्यै पोषणाय यजमानस्यात्मनो वाधि तस्थौ अधितिष्ठति आरोहति। अधिशीङ्स्थासां कर्म। पा. १-४-४६। इति कर्मणोऽधिकरनसंज्ञा। यद्वा। नेति चार्थे। तेन गुणौ समुच्चीयेते। प्रशस्तकेशौ व्यचस्वन्तौ चेत्यर्थः। स शिप्राभ्यां हनूभ्यां शिप्रिणीवाञ्शप्रवानिन्द्रः। एको मत्वर्थीयोऽनुवादः। वनोति। सोमान्याचते। वनु याचने। यद्वा। वनुष्यतिर्हन्तिकर्मा। शत्रून्हिनस्ति॥५॥