दशमं मण्डलम् - सूक्तम् 95

18 ऋचः

ऋषिः: पुरूरवा ऐळः देवता: उर्वशी छन्दः: त्रिष्टुप्

सूक्तम् 10.95 - सम्पूर्णम्

1 / 18
ऋक्: 10.95.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (18)
10.95.1
ह॒ये जाये॒ मन᳚सा॒ तिष्ठ᳚ घोरे॒ वचां᳚सि मि॒श्रा कृ᳚णवावहै॒ नु ।
न नौ॒ मन्त्रा॒ अनु᳚दितास ए॒ते मय᳚स्कर॒न्पर᳚तरे च॒नाह᳚न् ॥
▶ पदपाठः (Word-by-word)
ह॒ये । जाये᳚ । मन᳚सा । तिष्ठ᳚ । घो॒रे॒ । वचां᳚सि । मि॒श्रा । कृ॒ण॒वा॒व॒है॒ । नु ।
न । नौ॒ । मन्त्राः᳚ । अनु᳚दितासः । ए॒ते । मयः᳚ । क॒र॒न् । पर᳚॑तरे । च॒न । अह᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुरूरवसो वाक्यम् । जायां पश्यन्वदति। हये हे गूरे। अस्माकं दुःखजनकत्वात्। घोरकारिणि जाये मनसास्मदुपर्यनुरागवता मनसा युक्ता सती तिष्ठ। क्षणमात्रं संनिधावेव निवस। हव इत्यस्य निघाताभावश्छान्दसः। किमर्थं संस्थानमिति तत्राह। वचाम्सि वाक्यानि मिश्राण्युक्तिप्रत्युक्तिरूपाणि न्वद्य क्षिप्रं वा कृणवावहै करवावहै। दृवि हिंसाकरणयोः। धिन्विकृण्व्योरच्चेत्युप्रत्ययः। किमर्थं वचसः करणमिति चेत् उच्यते। नावावयोर्मन्त्रा रहस्यार्था एते विवक्षिता अनुदितासोऽव्याह्रियमाणाः परस्परमसम्भाष्यमाणा गुम्फिताः सन्तः परतरे चनाहन्। चनेति निपातसमुदायश्चार्थे। अनेकेषु दिवसेशु चरमेऽप्यहनि महः सुखनामैतत्। सुखं न करन्। कुर्वन्ति। अतः कृणावावहा इति॥१॥

10.95.2
किमे॒ता वा॒चा कृ᳚णवा॒ तवा॒हं प्राक्र᳚मिषमु॒षसा᳚मग्रि॒येव᳚ ।
पुरू᳚रव॒ः पुन॒रस्तं॒ परे᳚हि दुराप॒ना वात᳚ इवा॒हम᳚स्मि ॥
▶ पदपाठः (Word-by-word)
किम् । ए॒ता । वा॒चा । कृ॒ण॒व॒ । तव᳚ । अ॒हम् । प्र । अ॒क्र॒मि॒ष॒म् । उ॒षसा᳚म् । अ॒ग्रि॒या॑इ᳚व ।
पुरू᳚रवः । पुनः᳚ । अस्त᳚म् । परा᳚ । इ॒हि॒ । दुः॒॑आ॒प॒ना । वातः᳚॑इव । अ॒हम् । अ॒स्मि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनया तमुर्वशी प्रत्युवाच। एतैतया वाचा केवलया पुनह् सम्भोगरहितया किं कृणव। किं करवाव। अहं त्विदानीं त्वत्सकाशात्प्राक्रमिषम्। अतिक्रान्तवत्यस्मि। अतिक्रमे दृष्टान्तः। उषसामग्रियेव। बह्वीनामुषसाम् मध्येऽग्र्याग्रे भवा पुर्वोषाह् प्राक्रमीद्यथाहमपीति। यस्मादेवं तस्माद्धे पूरूरवः त्वं पुनरस्मत्सकाशादस्तं गृहं परेहि। परागच्छ। मा ममाभिलाषं कार्षीः। तस्या दुर्ग्रहत्वमाह। अहं वात इव वायुरिव दुरापना दुष्प्रापा दुरापा वास्मि। दुरापा वा अहं त्वयैतर्ह्यस्मि पुनर्गृहानिहिति हैवैनं तदुवाचेति वाजसनेयकम्। शत. ११-५-१-७॥२॥

10.95.3
इषु॒र्न श्रि॒य इ᳚षु॒धेर᳚स॒ना गो॒षाः श᳚त॒सा न रंहि᳚ः ।
अ॒वीरे॒ क्रतौ॒ वि द᳚विद्युत॒न्नोरा॒ न मा॒युं चि᳚तयन्त॒ धुन᳚यः ॥
▶ पदपाठः (Word-by-word)
इषुः᳚ । न । श्रि॒ये । इ॒षु॒॑धेः । अ॒स॒ना । गो॒॑साः । श॒त॒॑साः । न । रंहिः᳚ ।
अ॒वीरे᳚ । क्रतौ᳚ । वि । द॒वि॒द्यु॒त॒त् । न । उरा᳚ । न । मा॒युम् । चि॒त॒य॒न्त॒ । धुन᳚यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनया पुरूरवाः स्वस्य विरहजनितं वैक्लव्यं तां प्रतिब्रूते। इषुधेः। इशवो धीयन्तेऽत्रेतीषुधिर्निषङ्गः। ततः सकाशादिषुरसनायै प्रक्षेप्तुं न भवति श्रिये विजयार्थम्। त्वद्विरहाद्युद्धस्य बुद्धावप्यनिधानात्। तथा रंहिर्वेगवानहं शत्रुसकाशाद्गोषास्तेषां शत्रूणां गवां सम्भक्ता नाभवम्। तथा शतसाः शतानामपरिमितानां शत्रुधनानां सम्भक्ता नाभवम्। किञ्चावीरे वीरविर्जिते क्रतौ राजकर्मणि सति न वि दविद्युतत्। न विद्योतते। न मत्सामर्थ्यम्। किञ्च धुनयः कम्पयितारोऽस्मदीया नरा उरोरौ॥ सुपां सुलुगिति सप्तम्या डादेशः। विस्तीर्णे सङ्ग्रामे मायुम्। मीयते प्रक्शिप्यत इति मायुः शब्दः। कृवापाजीत्यादिनोण्। सिंहनादम् न चितयन्त। न बुध्यन्ते। चिती संज्ञाने। अस्माण्णिचि संज्ञापूर्वकस्य विधेरनित्यत्वाल्लघूपधगुनाभावः। छान्दसो लङ्॥३॥

10.95.4
सा वसु॒ दध᳚ती॒ श्वशु᳚राय॒ वय॒ उषो॒ यदि॒ वष्ट्यन्ति᳚गृहात् ।
अस्तं᳚ ननक्षे॒ यस्मि᳚ञ्चा॒कन्दिवा॒ नक्तं᳚ श्नथि॒ता वै᳚त॒सेन᳚ ॥
▶ पदपाठः (Word-by-word)
सा । वसु᳚ । दध᳚ती । श्वशु᳚राय । वयः᳚ । उषः᳚ । यदि᳚ । वष्टि᳚ । अन्ति᳚॑गृहात् ।
अस्त᳚म् । न॒न॒क्षे॒ । यस्मि᳚न् । चा॒कन् । दिवा᳚ । नक्त᳚म् । श्न॒थि॒ता । वै॒त॒सेन᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इदमुत्तरं चोर्वशीवाक्यम्। आद्येन पुरात्मना कृतमुषसे निवेदयति। हे उषः सेयमुर्वशी वसु वासकं वयोऽन्नं श्वशुराय भर्तुः पुरूरवसः पित्रे दधती प्रयच्छन्ती तत्र गृहे स्थिता यदि पतिं वष्टि कामयते तदान्तिगृहात्। स्वभर्तृभोगगृहान्तिके यच्छ्वशुरस्य भोजनगृहं तदन्तिगृहम्। तस्माद्गृहात्सोर्वश्यस्तं पतिग्रुहम् ननक्षे। व्याप्नोति। यस्मिन्गृहे चानक् कामयत उर्वशी। सा चोर्वशी दिवा नक्तमहनि रात्रौ च वैतसेन। शेपो वैतस इति पुंस्प्रजननस्येति निरुक्तम्। ३-२१। पुंस्प्रजननेन श्नथिता ताडिता च भवति । एवमुर्वश्यात्मानं परोक्षेन निर्दिदेश॥४॥

10.95.5 समानपद
त्रिः स्म॒ माह्न᳚ः श्नथयो वैत॒सेनो॒त स्म॒ मे॑व्य᳚त्यै पृणासि ।
पुरू᳚र॒वो॑नु᳚ ते॒ केत᳚मायं॒ राजा᳚ मे वीर त॒न्व१॒᳚स्तदा᳚सीः ॥
▶ पदपाठः (Word-by-word)
त्रिः । स्म॒ । मा॒ । अह्नः᳚ । श्न॒थ॒यः॒ । वै॒त॒सेन᳚ । उ॒त । स्म॒ । मे॒ । अव्य᳚त्यै । पृ॒णा॒सि॒ ।
पुरू᳚रवः । अनु᳚ । ते॒ । केत᳚म् । आ॒य॒म् । राजा᳚ । मे॒ । वी॒र॒ । त॒न्वः᳚ । तत् । आ॒सीः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनेन पुरूरवसमेव सम्बोध्योक्तवती। हे पुरूरवः त्वं मा मामह्नोऽहनि वैतसेन दण्डेन पुंव्यञ्जनेन त्रिस्त्रिवारम्। द्वित्रिचतुर्भ्यः सुच्। पा. ५-४-१८। श्नथयः स्म। अश्नथयः। अताडयः। कृत्वोर्थप्रयोगे। पा. २-३-६४। इति कालवाचिनोऽहः शब्दादधिकरणे षष्ठी। उतापि च। स्मेति पूरणः। अव्यत्यैः सपत्नीभिः सह पर्यायेण पतिमागच्छति सा व्यती। न तादृश्यव्यती। तस्यै मे मह्यं पृणासि । पूरयसि। एवं बुद्ध्या हे पुरूरवः ते तव केतं ग्रुहमानयम् । अन्वगमं पूर्वम् । हे वीर राजा त्वम् च मे मम तन्वः शरीरस्य तत्तदासीः। .... सुखयितेति शेषः । परमप्येवं मन्तव्यम् किमिति कातरो भवसीत्युवाच॥५॥

10.95.6
या सु᳚जू॒र्णिः श्रेणि᳚ः सु॒म्नआ᳚पिर्ह्र॒देच᳚क्षु॒र्न ग्र॒न्थिनी᳚ चर॒ण्युः ।
ता अ॒ञ्जयो᳚॑रु॒णयो॒ न स᳚स्रुः श्रि॒ये गावो॒ न धे॒नवो᳚॑नवन्त ॥
▶ पदपाठः (Word-by-word)
या । सु॒॑जू॒र्णिः । श्रेणिः᳚ । सु॒म्ने॑आ᳚पिः । ह्र॒दे॑च᳚क्षुः । न । ग्र॒न्थिनी᳚ । च॒र॒ण्युः ।
ताः । अ॒ञ्जयः᳚ । अ॒रु॒णयः᳚ । न । स॒स्रुः॒ । श्रि॒ये । गावः᳚ । न । धे॒नवः᳚ । अ॒न॒व॒न्त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुरूरवसो वाक्यम्। या सजूर्णिः सुजवैतन्नामिकास्ति तथा या श्रेणिर्या सुम्न आपिर्या ह्रदेचक्षुः। नकरः समुच्छये। ताभिश्च तसृभिरालिभूताभिर्मानिनीभिः सहिता ग्रन्थिनी ग्रन्थनवती सन्दर्भवती चरुण्युश्चरणशीलोर्वश्याजगाम। यद्वा। ग्रन्तिह्नीत्येतत्सखिभुताप्सरोनामधेयम्। या सुजूर्णिः सुजवोर्वशी सा ताभिः सह जगाम। ता अप्सरसोऽञ्जय आभरणोपेता अरुणयोऽरुणवर्णा न सस्रुः। पूर्ववन्नगच्छन्ति। श्रिये श्रयणाय धेनवो नवप्रसूता गावो न गाव इव। आश्रयार्थं यथा गावोऽनवन्त शब्दायन्ते तथ न शब्दयन्तीति व्यतिरेके दृष्टान्तः॥६॥

10.95.7
सम᳚स्मि॒ञ्जाय᳚मान आसत॒ ग्ना उ॒तेम᳚वर्धन्न॒द्य१॒᳚ः स्वगू᳚र्ताः ।
म॒हे यत्त्वा᳚ पुरूरवो॒ रणा॒याव᳚र्धयन्दस्यु॒हत्या᳚य दे॒वाः ॥
▶ पदपाठः (Word-by-word)
सम् । अ॒स्मि॒न् । जाय᳚माने । आ॒स॒त॒ । ग्नाः । उ॒त । ई॒म् । अ॒व॒र्ध॒न् । न॒द्यः᳚ । स्व॑गू᳚र्ताः ।
म॒हे । यत् । त्वा॒ । पु॒रू॒र॒वः॒ । रणा᳚य । अव᳚र्धयन् । द॒स्यु॒॑हत्या᳚य । दे॒वाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनयैताभिः सह संसर्गस्त्वयानुभुत इत्युर्वशी वदति। अस्मिन्पुरूरवसि जायमाने सति ग्ना अप्सरसो देववेश्या अपि समासत। सङ्गता अभवन्। अथवा जायमाने यज्ञार्थं प्रवर्धमाने सति ग्ना देवपत्न्योऽपि समासत। समभवन्। उतापि चेमेनं पुरूरवसं स्वगूर्ताः स्वयंगामिन्यो नद्यस्तासामाश्रयभूता अवर्धयन्। किञ्च हे पुरूरवः यद्यस्मात्त्वा त्वां महे महते रणाय रमणीयाय सङ्ग्रामाय दस्युहत्याय दस्युहननाय देवास्त्वामवर्धयन्॥७॥

10.95.8
सचा॒ यदा᳚सु॒ जह᳚ती॒ष्वत्क॒ममा᳚नुषीषु॒ मानु᳚षो नि॒षेवे᳚ ।
अप᳚ स्म॒ मत्त॒रस᳚न्ती॒ न भु॒ज्युस्ता अ᳚त्रसन्रथ॒स्पृशो॒ नाश्वा᳚ः ॥
▶ पदपाठः (Word-by-word)
सचा᳚ । यत् । आ॒सु॒ । जह᳚तीषु । अत्क᳚म् । अमा᳚नुषीषु । मानु᳚षः । नि॒॑सेवे᳚ ।
अप᳚ । स्म॒ । मत् । त॒रस᳚न्ती । न । भु॒ज्युः । ताः । अ॒त्र॒स॒न् । र॒थ॒॑स्पृशः᳚ । न । अश्वाः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इदमादित्रीण्यैळवाक्यानि। तत्रादितो द्वाभ्यामुर्वशीमन्याश्च सह स्तौति। यद्यदा सचा सहायभूतः पुरूरवा अत्कं स्वकीयं रूपम्। अत्क इति रूपनाम। जहतीषु परित्यजन्तीष्वमानुषीषु देवताभूतास्वप्सरःसु मानुषः सन्निषेवे अभिमुखं गच्छति तदानीं ता अप्सरसो मन्मत्तोऽपापसृत्यात्रसन्। त्रसतिर्गतिकर्मा। गच्छन्ति। पलायने दृष्टान्तः। तरसन्ती भुज्युर्न। तरसन्नाम मृगः। तस्य स्त्री भुज्युर्भोगसाधनभुता स्त्री मृगी। सा यथा व्याधाद्भीता पलायते। किञ्च रथस्पृथो नाश्वा रथे नियुक्ता अश्वा इव। यथा ते पलायन्ते तद्वत्पलायन्त इति। उर्वश्यानेकाभिरस्याभिः सह भोगमनुभुक्तवानसीत्युक्तः प्रत्याचष्टे।।८॥

10.95.9 समानपद
यदा᳚सु॒ मर्तो᳚ अ॒मृता᳚सु नि॒स्पृक्सं क्षो॒णीभि॒ः क्रतु᳚भि॒र्न पृ॒ङ्क्ते ।
ता आ॒तयो॒ न त॒न्व᳚ः शुम्भत॒ स्वा अश्वा᳚सो॒ न क्री॒ळयो॒ दन्द᳚शानाः ॥
▶ पदपाठः (Word-by-word)
यत् । आ॒सु॒ । मर्तः᳚ । अ॒मृता᳚सु । नि॒॑स्पृक् । सम् । क्षो॒णीभिः᳚ । क्रतु᳚॑भिः । न । पृ॒ङ्क्ते ।
ताः । आ॒तयः᳚ । न । त॒न्वः᳚ । शु॒म्भ॒त॒ । स्वाः । अश्वा᳚सः । न । क्री॒ळयः᳚ । दन्द᳚शानाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्यदास्वमृतास्वप्सरसः मर्तो मनुष्यः पुरूरवा निस्पृक् निःशेशेण स्पृशन् क्षोणीभिर्वाग्भिः क्रतुभिर्न कर्मभिश्च सं पृङ्ग्के सम्पर्कं करोति। नकारः समुच्चयार्थः। ता अप्सरस आतय आतिभूतास्तदानीं स्वास्तन्व आत्मीयानि रूपाणि न भुंभत। न प्रकाशयन्ति। अश्वासो नाश्वा इव क्रीळयः संक्रीडमाना दन्दशाना दन्दशूका जिह्वाभिरात्मीयाः सृक्वा भक्षयन्तः। ते यथा चापल्येन धावन्तः स्वरूपं न प्रयच्छन्ति रथिकाय तद्वदिति दुःखाद्ब्रूते॥९॥

10.95.10 समानपद
वि॒द्युन्न या पत᳚न्ती॒ दवि᳚द्यो॒द्भर᳚न्ती मे॒ अप्या॒ काम्या᳚नि ।
जनि᳚ष्टो अ॒पो नर्य॒ः सुजा᳚त॒ः प्रोर्वशी᳚ तिरत दी॒र्घमायु᳚ः ॥
▶ पदपाठः (Word-by-word)
वि॒॑द्युत् । न । या । पत᳚न्ती । दवि᳚द्योत् । भर᳚न्ती । मे॒ । अप्या᳚ । काम्या᳚नि ।
जनि᳚ष्टो॒ इति᳚ । अ॒पः । नर्यः᳚ । सु॑जा᳚तः । प्र । उ॒र्वशी᳚ । ति॒र॒त॒ । दी॒र्घम् । आयुः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनयोर्वशीं स्तौति। योर्वशी विद्युन्न विद्युदिव पतन्ती गच्छन्ती दविद्योत् द्योतते। किं कुर्वती। अप्या। अप इत्यन्तरिक्षनाम। तत्सम्बन्धीनि व्याप्तानि वा काम्यान्यस्मदभिमतान्युदकानि वा मे मह्यं भरन्ती सम्पादयन्ती। यदागतायास्तस्याः सकाशादपो व्याप्तः कर्मसु नर्यो नरेभ्यो हितः सुजातः सुजननः पुत्रो जनिष्तो अजनिष्ट उत्पद्यते तदानीं ममोर्वशी दीर्घमायुः प्रतिरत। प्रवर्धयति। प्रजामनु प्रजायसे तदु ते मर्त्यामृतम्। तै. ब्रा. १-५-५-६। इति हि मन्त्रः॥१०॥

10.95.11
ज॒ज्ञि॒ष इ॒त्था गो॒पीथ्या᳚य॒ हि द॒धाथ॒ तत्पु᳚रूरवो म॒ ओजः᳚ ।
अशा᳚सं त्वा वि॒दुषी॒ सस्मि॒न्नह॒न्न म॒ आशृ᳚णो॒ः किम॒भुग्व᳚दासि ॥
▶ पदपाठः (Word-by-word)
ज॒ज्ञि॒षे । इ॒त्था । गो॒॑पीथ्या᳚य । हि । द॒धाथ᳚ । तत् । पु॒रू॒र॒वः॒ । मे॒ । ओजः᳚ ।
अशा᳚सम् । त्वा॒ । वि॒दुषी᳚ । सस्मि᳚न् । अह᳚न् । न । मे॒ । आ । अ॒शृ॒णोः॒ । किम् । अ॒भुक् । व॒दा॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इत्थेत्थं गोपीथ्याय। गौः पृथिवी। पीथं पालनम्। स्वार्थिकस्तद्धितः। भूरक्षणाय जज्ञिषे हि। जातोसि खलु पुत्रारूपेण। आत्मा वै पुत्रनामेति श्रुतेः। पुनर्देव्याह। हे पुरूरवः मे ममोदरे मय्योजोऽपत्योत्पादन सामर्थ्यं दधाथ। मयि निहितवानसि। तत्तथास्तु। अथापि स्थातव्यमिति चेत् तत्राह अहं विदुषी भावि कार्यं जानती सस्मिन्नहन् सर्वस्मन्नहनि त्वया कर्तव्यम् त्वा त्वामशासम्। शिक्शितवत्यस्मि। त्वं मे मम वचनं नाशृणॊः। न शृणोशि। किं त्वमभुगभोक्तापलयिता प्रतिज्ञातार्थमपालयन्वदासि हये जाय इत्यादिकरूपं प्रलापम् । वदेर्लेट्यडागमः। दिवसे त्रिवारं यभस्व एडकबालकमस्माकं पुत्रत्वेन परिकल्पय अपत्योत्पादनपर्यन्तं वसामि नग्नं त्वां यदाद्राक्षं तदा गच्छामीत्येवं रूपो मिथह् समय उर्वशी हा प्सराः पुरूरवसमैळं चकमे तग्ं ह विन्दमानोवाच त्रिः स्म माह्नो वैतसेन दण्डेनेत्यादि वाजसनेयकमुदाहृतम्॥११॥

10.95.12 समानपद
क॒दा सू॒नुः पि॒तरं᳚ जा॒त इ᳚च्छाच्च॒क्रन्नाश्रु᳚ वर्तयद्विजा॒नन् ।
को दम्प᳚ती॒ सम᳚नसा॒ वि यू᳚यो॒दध॒ यद॒ग्निः श्वशु᳚रेषु॒ दीद᳚यत् ॥
▶ पदपाठः (Word-by-word)
क॒दा । सू॒नुः । पि॒तर᳚म् । जा॒तः । इ॒च्छा॒त् । च॒क्रन् । न । अश्रु᳚ । व॒र्त॒य॒त् । वि॒॑जा॒नन् ।
कः । दम्प᳚ती॒ इति॒ दम्॑प᳚ती । स॑म᳚नसा । वि । यू॒यो॒त् । अध᳚ । यत् । अ॒ग्निः । श्वशु᳚रेषु । दीद᳚यत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इदं पुरूरवसो वाक्यम्। कदा कस्मिन्काले सूनुस्तवोदरजातः सन् पितरं मामिच्छात्। क्च्छेत्। इषु इच्छायाम्। लेटि शपीषुगमियमां छ इति छादेशः। लोटोऽडाटावित्यडागमः। दका वा विजानन्पितरं मामधिगच्छंश्चक्रन् क्रन्दमानो नाश्रु वर्तयत्। नेति चार्थे किञ्च कः किंविधः सन् सूनुः सुमनसा समनसौ समनस्कौ दम्पती जायापती त्वां मा च वि यूयोत्। विश्लेषयेत्। यु मिश्रणामिश्रणयोः। यौतेश्छान्दसः शपः श्लुः। तुजादित्वादभ्यासस्य दीर्घः। अधाधुना यद्यदाग्निस्तव हृदस्थितस्तेजोरूपो गर्घः श्वशुरेषु दीदयत् दीप्यते। दीदयत्र्दीप्तिकर्मेति नैरुक्तो धातुः॥१२॥

10.95.13
प्रति᳚ ब्रवाणि व॒र्तय᳚ते॒ अश्रु᳚ च॒क्रन्न क्र᳚न्ददा॒ध्ये᳚ शि॒वायै᳚ ।
प्र तत्ते᳚ हिनवा॒ यत्ते᳚ अ॒स्मे परे॒ह्यस्तं᳚ न॒हि मू᳚र॒ मापः᳚ ॥
▶ पदपाठः (Word-by-word)
प्रति᳚ । ब्र॒वा॒णि॒ । व॒र्तय᳚ते । अश्रु᳚ । च॒क्रन् । न । क्र॒न्द॒त् । आ॒॑ध्ये᳚ । शि॒वायै᳚ ।
प्र । तत् । ते॒ । हि॒न॒व॒ । यत् । ते॒ । अ॒स्मे इति᳚ । परा᳚ । इ॒हि॒ । अस्त᳚म् । न॒हि । मू॒र॒ । मा॒ । आपः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इदमुर्वशीवाक्यम्। हे पुरुरवः त्वां प्रति ब्रवाणि। प्रतिवच्मि। त्वदपत्यमश्रुबाष्पम् वर्तयते। वर्तयिष्यति। आध्य अध्याते वस्तुनि शिवायै शिवे कल्याणे समुपस्थिते सति चक्रन्रुदन्नश्रूणि विमुञ्चन्न क्रन्दत्। नकारश्चार्थे। रोत्स्यति चेत्यर्थः। तत्त्वपदपत्यं ते तुभ्यं हिनव प्रहिणोमि यदपत्यं ते तव सम्बन्ध्यस्मे अस्मासु निहितम्। त्वं परेह्यस्तम् । अस्तमिति गृहनाम। स्वगृहं प्रतिगच्छ। हे मूर मूढ मा मां न ह्यापः। न प्राप्नोषि। हिनवेत्यत्र हिनोतेश्चन्दसि लुङ्लङ्लिटि इति भविष्यदर्थे लङि मिप आमादेशः। गुणः। अन्त्यलोपश्छान्दसः। बहुलवचनादडभावः। आपः। आप्लृ व्याप्तौ। लिटि तिङां तिङो भवन्तिति थलो णल्॥१३॥

10.95.14
सु॒दे॒वो अ॒द्य प्र॒पते॒दना᳚वृत्परा॒वतं᳚ पर॒मां गन्त॒वा उ᳚ ।
अधा॒ शयी᳚त॒ निरृ᳚तेरु॒पस्थे॑धै᳚नं॒ वृका᳚ रभ॒सासो᳚ अ॒द्युः ॥
▶ पदपाठः (Word-by-word)
सु॒॑दे॒वः । अ॒द्य । प्र॒॑पते᳚त् । अना᳚वृत् । प॒रा॒॑वत᳚म् । प॒र॒माम् । गन्त॒वै । ऊं॒ इति᳚ ।
अध᳚ । शयी᳚त । निः॑ऋ᳚तेः । उ॒प॑स्थे᳚ । अध᳚ । ए॒न॒म् । वृकाः᳚ । र॒भ॒सासः᳚ । अ॒द्युः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अथ परिदूनः पुरूरवा उवाच। सुदेवस्त्वया सह सुक्रीडः पतिरद्यप्रपतेत्। अत्रैव प्रपततु। अथवानावृदनावृत्तः सन् परमां परावतम् दूरादपि दूरदेशं गन्तवै गन्तुं महाप्रस्थानगमनं कुर्यात्। अधाथवा यत्रकुत्रापि गन्तुं समर्थो निरृतेः पृथिव्या उपस्थे शयित। शयनं कुर्यात्। यद्वा। निरृतिः पापदेवता। तस्या उपस्थ उत्सङ्गे सन्निधौ म्रियतामित्यर्थः। अधाथवैनं वृका आरण्याः श्वानो रभसासो वेगवन्तोऽद्युः । भक्षान्तु। अत्र वाजसनेयकम्। सुदेवोऽद्योद्वा बध्नीत प्र वा पतेत्तदेनं वृका वा श्वानो वाद्युरिति हैव तदुवाच। शत. ११-५-१-८। इति॥१४॥

10.95.15
पुरू᳚रवो॒ मा मृ᳚था॒ मा प्र प᳚प्तो॒ मा त्वा॒ वृका᳚सो॒ अशि᳚वास उ क्षन् ।
न वै स्त्रैणा᳚नि स॒ख्यानि᳚ सन्ति सालावृ॒काणां॒ हृद᳚यान्ये॒ता ॥
▶ पदपाठः (Word-by-word)
पुरू᳚रवः । मा । मृ॒थाः॒ । मा । प्र । प॒प्तः॒ । मा । त्वा॒ । वृका᳚सः । अशि᳚वासः । ऊं॒ इति᳚ । क्ष॒न् ।
न । वै । स्त्रैणा᳚नि । स॒ख्यानि᳚ । स॒न्ति॒ । सा॒ला॒वृ॒काणा᳚म् । हृद᳚यानि । ए॒ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

तमितरा प्रत्युवाच। हे पुरूरवः त्वं मा मृथाः। म्मृतिं मा प्राप्नुहि। म्रियतेर्लुङि थासि ह्रस्वादङ्गादिति सिचो लोपः। तथा मा प्र पप्तः। अत्रैव पतनं मा कार्षीः। पतेर्लुङि लृदित्त्वात्पुषादित्यादिना च्लेरङ्। पतः पुमिति पुम्। तथा त्वा त्वामशिवासोऽशुभा व्रुकासो वृका मा उ क्षन्। उ इत्येवकारार्थे। अक्षन्। माभ्यवहारयन्तु। किमित्येवमस्मदुपर्याग्रहं करोषि। मा कार्षीरित्यर्थः। अदेर्लुङि लुङ् सनोर्घस्लृ। पा. २-४-३७। इति घस्लादेशः। मन्त्रे घसेति च्लेर्लुक्। गमहनेत्यादिनोपधालोपः। शासिवसीत्यादिना षत्वम्। खरि चेति चर्त्वम्। बाहुलकादडभावः। अथ स्वस्नेहस्यासारतामाह। स्त्रैणानि स्त्रीणां कृतानि सख्यानि न वै सन्ति। न सन्ति खलु। अभावे कारणमाह। एतानि सख्यानि सालावृकाणाम् हृदयानि यथा वत्सादीनाम् विश्वासापन्नानां घातुकानि तद्वत्। अत्र वाजसनेयकम्। मैतदादृथा न वै स्त्रैनग्ं सख्यमस्ति पुनर्गृहानिहिति हैवैनं तदुवाच। शत. ११-५-१-९। इति॥१५॥

10.95.16
यद्विरू॒पाच᳚रं॒ मर्त्ये॒ष्वव᳚सं॒ रात्री᳚ः श॒रद॒श्चत᳚स्रः ।
घृ॒तस्य᳚ स्तो॒कं स॒कृदह्न᳚ आश्नां॒ तादे॒वेदं ता᳚तृपा॒णा च᳚रामि ॥
▶ पदपाठः (Word-by-word)
यत् । वि॑रू᳚पा । अच᳚रम् । मर्त्ये᳚षु । अव᳚सम् । रात्रीः᳚ । श॒रदः᳚ । चत᳚स्रः ।
घृ॒तस्य᳚ । स्तो॒कम् । स॒कृत् । अह्नः᳚ । आ॒श्ना॒म् । तात् । ए॒व । इ॒दम् । त॒तृ॒पा॒णा । च॒रा॒मि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्यदा विरूपा मनुष्यसम्पर्काद्विगतसहजभुतदेवरूपापत्यानुकूल्येन नानारूपा वा मर्त्येशु मनुष्येष्वचरं तदानीं रात्रीः पूरयित्रीश्चतस्रः शरदोऽवसम् । न्यवसम्। अत्यन्तसंयोगे द्वितीया। तदानीं घृतस्य स्तोक्तं सकृदह्न आश्नाम् । तादेव तेनैव स्तोकेनाहमिदम् सम्प्रति तातृपाणा तृप्ता सती चरामि॥१६॥

10.95.17
अ॒न्त॒रि॒क्ष॒प्रां रज᳚सो वि॒मानी॒मुप᳚ शिक्षाम्यु॒र्वशीं॒ वसि᳚ष्ठः ।
उप᳚ त्वा रा॒तिः सु᳚कृ॒तस्य॒ तिष्ठा॒न्नि व᳚र्तस्व॒ हृद᳚यं तप्यते मे ॥
▶ पदपाठः (Word-by-word)
अ॒न्त॒रि॒क्ष॒॑प्राम् । रज᳚सः । वि॒॑मानी᳚म् । उप᳚ । शि॒क्षा॒मि॒ । उ॒र्वशी᳚म् । वसि᳚ष्ठः ।
उप᳚ । त्वा॒ । रा॒तिः । सु॒॑कृ॒तस्य᳚ । तिष्ठा᳚त् । नि । व॒र्त॒स्व॒ । हृद᳚यम् । त॒प्य॒ते॒ । मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अन्तरिक्षप्राम् स्वतेजसान्तरिक्षस्य पुरयित्रीं तथा रजसो रञ्जकस्योदकस्य विमानीं निर्मात्रीमुर्वशीं वसिष्ठः समानानां मध्येऽतिशयेन वासयिताहमुपशिक्षामि। वशं नयामि। सुकृतस्य शोभनकर्मणॊ रातिर्दाता पुरूरवास्त्वा त्वामुपतिष्ठात्। उपतिष्ठतु। मे हृदयं तप्यते। अतो नि वर्तस्व। एवं राजोवाच॥१७॥

10.95.18
इति᳚ त्वा दे॒वा इ॒म आ᳚हुरैळ॒ यथे᳚मे॒तद्भव᳚सि मृ॒त्युब᳚न्धुः ।
प्र॒जा ते᳚ दे॒वान्ह॒विषा᳚ यजाति स्व॒र्ग उ॒ त्वमपि᳚ मादयासे ॥
▶ पदपाठः (Word-by-word)
इति᳚ । त्वा॒ । दे॒वाः । इ॒मे । आ॒हुः॒ । ऐ॒ळ॒ । यथा᳚ । ई॒म् । ए॒तत् । भव᳚सि । मृ॒त्यु॑ब᳚न्धुः ।
प्र॒॑जा । ते॒ । दे॒वान् । ह॒विषा᳚ । य॒जा॒ति॒ । स्वः॒॑गे । ऊं॒ इति᳚ । त्वम् । अपि᳚ । मा॒द॒या॒से॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऐळ पुरूरवः त्वा त्वामिमे देवा इत्याहुः। मृत्युबन्धुर्मृत्योर्बन्धको मृत्योर्बन्धुभुतो वा मृत्युवशमप्राप्नुवंस्त्वम् यथें यथैतद्भवसि भविष्यसि प्रजा प्रकर्षेण जायमानस्त्वं ते तव सम्बन्धिनो यष्टव्यान्देवान्हविषा यजासि। यजसि। स्वर्ग उ स्वर्ग एव त्वमपि मादयासे। मादयसेऽस्माभिः सह। एवमाहुरित्यर्थः। यस्मादेवं करोषि तस्मादभिलाषं हित्वा सुखी भवेति सेयं पुरूरवसं प्रत्युवाच॥१९॥