अशा᳚सं त्वा वि॒दुषी॒ सस्मि॒न्नह॒न्न म॒ आशृ᳚णो॒ः किम॒भुग्व᳚दासि ॥
पदपाठः (Word-by-word)
अशा᳚सम् । त्वा॒ । वि॒दुषी᳚ । सस्मि᳚न् । अह᳚न् । न । मे॒ । आ । अ॒शृ॒णोः॒ । किम् । अ॒भुक् । व॒दा॒सि॒ ॥
सायणभाष्यम् (Sayana Commentary)
इत्थेत्थं गोपीथ्याय। गौः पृथिवी। पीथं पालनम्। स्वार्थिकस्तद्धितः। भूरक्षणाय जज्ञिषे हि। जातोसि खलु पुत्रारूपेण। आत्मा वै पुत्रनामेति श्रुतेः। पुनर्देव्याह। हे पुरूरवः मे ममोदरे मय्योजोऽपत्योत्पादन सामर्थ्यं दधाथ। मयि निहितवानसि। तत्तथास्तु। अथापि स्थातव्यमिति चेत् तत्राह अहं विदुषी भावि कार्यं जानती सस्मिन्नहन् सर्वस्मन्नहनि त्वया कर्तव्यम् त्वा त्वामशासम्। शिक्शितवत्यस्मि। त्वं मे मम वचनं नाशृणॊः। न शृणोशि। किं त्वमभुगभोक्तापलयिता प्रतिज्ञातार्थमपालयन्वदासि हये जाय इत्यादिकरूपं प्रलापम् । वदेर्लेट्यडागमः। दिवसे त्रिवारं यभस्व एडकबालकमस्माकं पुत्रत्वेन परिकल्पय अपत्योत्पादनपर्यन्तं वसामि नग्नं त्वां यदाद्राक्षं तदा गच्छामीत्येवं रूपो मिथह् समय उर्वशी हा प्सराः पुरूरवसमैळं चकमे तग्ं ह विन्दमानोवाच त्रिः स्म माह्नो वैतसेन दण्डेनेत्यादि वाजसनेयकमुदाहृतम्॥११॥