सु॒दे॒वो अ॒द्य प्र॒पते॒दना᳚वृत्परा॒वतं᳚ पर॒मां गन्त॒वा उ᳚ ।
अधा॒ शयी᳚त॒ निरृ᳚तेरु॒पस्थे॑धै᳚नं॒ वृका᳚ रभ॒सासो᳚ अ॒द्युः ॥
अधा॒ शयी᳚त॒ निरृ᳚तेरु॒पस्थे॑धै᳚नं॒ वृका᳚ रभ॒सासो᳚ अ॒द्युः ॥
पदपाठः (Word-by-word)
सु॒॑दे॒वः । अ॒द्य । प्र॒॑पते᳚त् । अना᳚वृत् । प॒रा॒॑वत᳚म् । प॒र॒माम् । गन्त॒वै । ऊं॒ इति᳚ ।
अध᳚ । शयी᳚त । निः॑ऋ᳚तेः । उ॒प॑स्थे᳚ । अध᳚ । ए॒न॒म् । वृकाः᳚ । र॒भ॒सासः᳚ । अ॒द्युः ॥
अध᳚ । शयी᳚त । निः॑ऋ᳚तेः । उ॒प॑स्थे᳚ । अध᳚ । ए॒न॒म् । वृकाः᳚ । र॒भ॒सासः᳚ । अ॒द्युः ॥
सायणभाष्यम् (Sayana Commentary)
अथ परिदूनः पुरूरवा उवाच। सुदेवस्त्वया सह सुक्रीडः पतिरद्यप्रपतेत्। अत्रैव प्रपततु। अथवानावृदनावृत्तः सन् परमां परावतम् दूरादपि दूरदेशं गन्तवै गन्तुं महाप्रस्थानगमनं कुर्यात्। अधाथवा यत्रकुत्रापि गन्तुं समर्थो निरृतेः पृथिव्या उपस्थे शयित। शयनं कुर्यात्। यद्वा। निरृतिः पापदेवता। तस्या उपस्थ उत्सङ्गे सन्निधौ म्रियतामित्यर्थः। अधाथवैनं वृका आरण्याः श्वानो रभसासो वेगवन्तोऽद्युः । भक्षान्तु। अत्र वाजसनेयकम्। सुदेवोऽद्योद्वा बध्नीत प्र वा पतेत्तदेनं वृका वा श्वानो वाद्युरिति हैव तदुवाच। शत. ११-५-१-८। इति॥१४॥