श्रवणम्

10.95.4
सा वसु॒ दध᳚ती॒ श्वशु᳚राय॒ वय॒ उषो॒ यदि॒ वष्ट्यन्ति᳚गृहात् ।
अस्तं᳚ ननक्षे॒ यस्मि᳚ञ्चा॒कन्दिवा॒ नक्तं᳚ श्नथि॒ता वै᳚त॒सेन᳚ ॥
▶ पदपाठः (Word-by-word)
सा । वसु᳚ । दध᳚ती । श्वशु᳚राय । वयः᳚ । उषः᳚ । यदि᳚ । वष्टि᳚ । अन्ति᳚॑गृहात् ।
अस्त᳚म् । न॒न॒क्षे॒ । यस्मि᳚न् । चा॒कन् । दिवा᳚ । नक्त᳚म् । श्न॒थि॒ता । वै॒त॒सेन᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इदमुत्तरं चोर्वशीवाक्यम्। आद्येन पुरात्मना कृतमुषसे निवेदयति। हे उषः सेयमुर्वशी वसु वासकं वयोऽन्नं श्वशुराय भर्तुः पुरूरवसः पित्रे दधती प्रयच्छन्ती तत्र गृहे स्थिता यदि पतिं वष्टि कामयते तदान्तिगृहात्। स्वभर्तृभोगगृहान्तिके यच्छ्वशुरस्य भोजनगृहं तदन्तिगृहम्। तस्माद्गृहात्सोर्वश्यस्तं पतिग्रुहम् ननक्षे। व्याप्नोति। यस्मिन्गृहे चानक् कामयत उर्वशी। सा चोर्वशी दिवा नक्तमहनि रात्रौ च वैतसेन। शेपो वैतस इति पुंस्प्रजननस्येति निरुक्तम्। ३-२१। पुंस्प्रजननेन श्नथिता ताडिता च भवति । एवमुर्वश्यात्मानं परोक्षेन निर्दिदेश॥४॥