दशमं मण्डलम् - सूक्तम् 84

7 ऋचः

ऋषिः: मन्युस्तापसः देवता: मन्युः छन्दः: त्रिष्टुप्

सूक्तम् 10.84 - सम्पूर्णम्

1 / 7
ऋक्: 10.84.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
10.84.1
त्वया᳚ मन्यो स॒रथ᳚मारु॒जन्तो॒ हर्ष᳚माणासो धृषि॒ता म᳚रुत्वः ।
ति॒ग्मेष᳚व॒ आयु᳚धा सं॒शिशा᳚ना अ॒भि प्र य᳚न्तु॒ नरो᳚ अ॒ग्निरू᳚पाः ॥
▶ पदपाठः (Word-by-word)
त्वया᳚ । म॒न्यो॒ इति᳚ । स॒॑रथ᳚म् । आ॒॑रु॒जन्तः᳚ । हर्ष᳚मानासः । धृ॒षि॒ताः । म॒रु॒त्वः॒ ।
ति॒ग्म॑इ᳚षवः । आयु᳚धा । स॒म्॑शिशा᳚नाः । अ॒भि । प्र । य॒न्तु॒ । नरः᳚ । अ॒ग्नि॑रू᳚पाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्वया मन्यो इति सप्तर्चं षोडशं सूक्तम्। अदितस्त्रिस्रस्त्रिष्टुभस्ततश्चतस्रो जगत्यः। पूर्ववदृषि देवते। तथा चानुक्रान्तम्। त्वया मन्यो चतुर्जगत्यन्तमिति। अजिरनाम्न्येकाह इदं सूक्तं मरुत्वतीयशस्त्रे निविद्धानम्। सूत्रं पूर्वसूक्त एवोदाहृतम्। विनुत्त्यभिभूतिषु वज्रेष्वेकाहेष्वेते सूक्ते मरुत्वतीयनिष्केवल्ययोः शस्ये। सूत्रितं च। विनुत्त्यभिभूत्योरिशुवज्रयोश्च मन्युसूक्ते। आ. ९-८। इति॥

हे मन्यो हे मरुत्वः त्वया सरथं समानमेकमेव रथमारुह्येति शेषः। आरुजन्तो गच्छन्तो हर्षमाणासो हृष्टा धृषिता धृष्टास्तिग्मेषवस्तीक्ष्ण बाना आयुधायुधानि संशिशानाः सम्यग्निश्यनो नरो युद्धस्य नेतार इन्द्रादयो देवास्त्वदनुचरा वाग्निरूपा अग्निवत्तीक्ष्णदाहादिकर्माणः यद्वा सन्नद्धाः कवचिनोऽभि प्रयन्तु युद्धे सहयार्थम्। अत्र त्वया मन्यो सरथमारुह्य रुजन्त इत्यादि निरुक्तमनुसन्धेयम्। १०-३०॥१॥

10.84.2
अ॒ग्निरि᳚व मन्यो त्विषि॒तः स᳚हस्व सेना॒नीर्न᳚ः सहुरे हू॒त ए᳚धि ।
ह॒त्वाय॒ शत्रू॒न्वि भ᳚जस्व॒ वेद॒ ओजो॒ मिमा᳚नो॒ वि मृधो᳚ नुदस्व ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निः॑इ᳚व । म॒न्यो॒ इति᳚ । त्वि॒षि॒तः । स॒ह॒स्व॒ । से॒ना॒॑नीः । नः॒ । स॒हु॒रे॒ । हू॒तः । ए॒धि॒ ।
ह॒त्वाय᳚ । शत्रू᳚न् । वि । भ॒ज॒स्व॒ । वेदः᳚ । ओजः᳚ । मिमा᳚नः । वि । मृधः᳚ । नु॒द॒स्व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मन्यो अग्निरिव त्विषितो ज्वलितः सहस्व। अभिभव शत्रून्। हे सहुरे सहनशील सेनानीरेधि भव नोऽस्माकं सङ्ग्रामे हूतः सन्। किञ्च हत्वाय हत्वा शत्रून्वि भजस्व प्रयच्छास्माकं वेदो धनं शत्रुसम्बन्धि। किञ्चौजो मिमानोऽस्माकं बलं कुर्वन्मृधः शत्रूण्वि नुदस्व। घातयेत्यर्थः॥२॥

10.84.3
सह᳚स्व मन्यो अ॒भिमा᳚तिम॒स्मे रु॒जन्मृ॒णन्प्र᳚मृ॒णन्प्रेहि॒ शत्रू᳚न् ।
उ॒ग्रं ते॒ पाजो᳚ न॒न्वा रु᳚रुध्रे व॒शी वशं᳚ नयस एकज॒ त्वम् ॥
▶ पदपाठः (Word-by-word)
सह᳚स्व । म॒न्यो॒ इति᳚ । अ॒भि॑मा᳚तिम् । अ॒स्मे इति᳚ । रु॒जन् । मृ॒णन् । प्र॒॑मृ॒णन् । प्र । इ॒हि॒ । शत्रू᳚न् ।
उ॒ग्रम् । ते॒ । पाजः᳚ । न॒नु । आ । रु॒रु॒ध्रे॒ । व॒शी । वश᳚म् । न॒य॒से॒ । ए॒क॒॑ज॒ । त्वम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मन्यो अस्मे अस्माकमभिमातिमभिगन्तारं शत्रुं सहस्व। अभिभव। रुजन् हिंसन् मृणन् प्रमृणन् प्रकर्षेण हिंसन् यथा ननर्न जीवेत्तथा कुर्वंस्त्वम् शत्रून्प्रति प्रेहि। ते तव पाजो बलमुग्रमुद्गूर्णम् के नन्वा रुरुध्रे अरुन्धन्ति। न तथा सम्भवति। हे एकज त्वमसहाय वशी त्वं वशं नयसे प्रापयसि शत्रुम्॥३॥

10.84.4
एको᳚ बहू॒नाम᳚सि मन्यवीळि॒तो विशं᳚विशं यु॒धये॒ सं शि᳚शाधि ।
अकृ᳚त्तरु॒क्त्वया᳚ यु॒जा व॒यं द्यु॒मन्तं॒ घोषं᳚ विज॒याय᳚ कृण्महे ॥
▶ पदपाठः (Word-by-word)
एकः᳚ । ब॒हू॒नाम् । अ॒सि॒ । म॒न्यो॒ इति᳚ । ई॒ळि॒तः । विश᳚म्॑विशम् । यु॒धये᳚ । सम् । शि॒शा॒धि॒ ।
अकृ᳚त्त॑रुक् । त्वया᳚ । यु॒जा । व॒यम् । द्यु॒॑मन्त᳚म् । घोष᳚म् । वि॒॑ज॒याय᳚ । कृ॒ण्म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मन्यो ईळितः स्तुतस्त्वमेक एवासहाय एव बहूनां शत्रूणामसि। भवसि पर्याप्तो हन्तुम्। अतो विशं विशं तां तामस्मद्विरोधिनीं प्रजां युधये युद्धाय सं शिशाधि। सम्यक् तीक्षीकुरु। किञ्च हे अकृत्तरुगच्छिन्नदीप्ते त्वया युजा सहायेन वयं द्युमन्तं दीप्तिमन्तं घोषं सीहनादवन्तं विजयाय विशिष्टजयार्थं कृण्महे। कुर्मः॥४॥

10.84.5
वि॒जे॒ष॒कृदिन्द्र᳚ इवानवब्र॒वो॒३॒᳚॑स्माकं᳚ मन्यो अधि॒पा भ᳚वे॒ह ।
प्रि॒यं ते॒ नाम᳚ सहुरे गृणीमसि वि॒द्मा तमुत्सं॒ यत᳚ आब॒भूथ᳚ ॥
▶ पदपाठः (Word-by-word)
वि॒जे॒ष॒॑कृत् । इन्द्रः᳚॑इव । अ॒न॒व॒॑ब्र॒वः । अ॒स्माक᳚म् । म॒न्यो॒ इति᳚ । अ॒धि॒॑पाः । भ॒व॒ । इ॒ह ।
प्रि॒यम् । ते॒ । नाम᳚ । स॒हु॒रे॒ । गृ॒णी॒म॒सि॒ । वि॒द्म । तम् । उत्स᳚म् । यतः᳚ । आ॒॑ब॒भूथ᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मन्यो इन्द्र इव विजेषकृद्विजयकर्ता तथानवब्रवोऽनिन्दितवचनः। अनवब्रवोऽनवक्षिप्तवचन इति यास्कः। नि. ६-२६। ईदृशस्त्वमस्माकमधिपा अधिकं पाता रक्षिता भवेहास्मिन्यज्ञे। हे सहुरे शत्रूणाम् सहनशील ते प्रियं नाम स्तोत्रं गृणीमसि। गृणिमः। स्तुमः। यतो नाम्नः स्तोत्रात्त्वमाबभूथ आभवसि प्रवृद्धो भवसि तमुत्सं बलस्योद्गमयितारं विद्म। जानीमः॥५॥

10.84.6
आभू᳚त्या सह॒जा व᳚ज्र सायक॒ सहो᳚ बिभर्ष्यभिभूत॒ उत्त᳚रम् ।
क्रत्वा᳚ नो मन्यो स॒ह मे॒द्ये᳚धि महाध॒नस्य᳚ पुरुहूत सं॒सृजि᳚ ॥
▶ पदपाठः (Word-by-word)
आ॑भू᳚त्या । स॒ह॒॑जाः । व॒ज्र॒ । सा॒य॒क॒ । सहः᳚ । बि॒भ॒र्षि॒ । अ॒भि॒॑भू॒ते॒ । उत्॑त᳚रम् ।
क्रत्वा᳚ । नः॒ । म॒न्यो॒ इति᳚ । स॒ह । मे॒दी । ए॒धि॒ । म॒हा॒॑ध॒नस्य᳚ । पु॒रु॒॑हू॒त॒ । स॒म्॑सृजि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वज्र वज्रवत्सारभूत सायक शत्रूणामन्तकराभिभूते शत्रूणामभिभावुक मन्यो आभूत्या। आभूतिरभिभवः। तेन सहजाः सहैवोत्पन्नस्त्वमुत्तरमुत्कृष्टतरम् सहो बलं बिभर्षि। धारयसि। हे मन्यो क्रत्वा कर्मणा सह नोऽस्माकं मेद्येधि। स्निग्धो भव। कुत्रेति तदुच्यते। महाधनस्य। सङ्ग्रामनामैतत्। सङ्ग्रामस्य संसृजि सर्गे। हे पुरुहूत बहुभिराहूतेति मन्युसम्बोधनम्॥६॥

10.84.7
संसृ᳚ष्टं॒ धन᳚मु॒भयं᳚ स॒माकृ᳚तम॒स्मभ्यं᳚ दत्तां॒ वरु᳚णश्च म॒न्युः ।
भियं॒ दधा᳚ना॒ हृद᳚येषु॒ शत्र᳚व॒ः परा᳚जितासो॒ अप॒ नि ल᳚यन्ताम् ॥
▶ पदपाठः (Word-by-word)
सम्॑सृ᳚ष्टम् । धन᳚म् । उ॒भय᳚म् । स॒म्॑आकृ᳚तम् । अ॒स्मभ्य᳚म् । द॒त्ता॒म् । वरु᳚णः । च॒ । म॒न्युः ।
भिय᳚म् । दधा᳚नाः । हृद᳚येषु । शत्र᳚वः । परा᳚॑जितासः । अप᳚ । नि । ल॒य॒न्ता॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

संसृष्टमविभागमापन्नमुभयमुभयविधम् धनं समाकृतम् सम्यगानीतमस्मभ्यं दत्ताम्। कः। वरुणश्च देवो मन्युश्च। भियं भयं हृदये दधानाः शत्रवोऽस्मद्विरोधिनः पराजितासः पराजिता अप नि लयन्ताम्। अपनिलीना भवन्तु॥७॥